________________
'क्षेत्रम' इक्षक्षेत्रादि, तथा दिगभिग्रहश्च वक्ष्यमाणलक्षणः, कालश्चाहरादिः, तथा रिक्षसम्पत्-नक्षत्रसंपत् गुणसंपच्च BI गुणाः-प्रियधर्मादयः, अभिव्याहरणम् अभिव्याहारश्चाष्टमो नय इति गाथासमासार्थः ॥ १७८ ॥ व्यासार्थं तु प्रतिपदं ४i | भाष्यकार एव सम्यग् न्यक्षेण वक्ष्यति, तथा चाऽऽद्यद्वारव्याचिख्यासयाऽऽहपव्वजाए जुग्गं तावइ आलोअणं गिहत्थेसुं। उवसंपयाइ साहुस सुत्ते अत्थे तदुभए अ॥१७९॥ (प०१(भा०)
व्याख्या-प्रव्रज्यायाः-निष्क्रमणस्य यत् प्राणिजातं स्त्रीपुरुषनपुंसकभेदं 'योग्यम्' अनुरूपं तदन्वेषणं, यदिति | वाक्यशेषः, तावत्येवाऽऽलोचनाऽवलोकना वा, केषु?-'गृहस्थेषु गृहस्थविषय इति, एतदुक्तं भवति-योग्यं हि सर्वोपाधिशु
मेव भवति, ततश्च तदन्वेषणेन सर्वस्यैव विधेः कस्त्वं ? को वा ते निर्वेदः? इत्यादिप्रश्नादेराक्षेप इति, ततश्च प्रयुक्तालोचनस्य योग्यताऽवधारणानन्तरं सामायिकं दद्यात्, न शेषाणां प्रतिषिद्धदीक्षाणामिति नयः । एवं तावद् गृहस्थस्याकृतसामायिकस्य सामायिकार्थमालोचनोक्ता, साम्प्रतं कृतसामायिकस्य यतेः प्रतिपादयन्नाह-उपसम्पदि साधुषु आलो
चनेति वर्तते, सूत्रे अर्थे तदुभये च, इयमत्र भावना-सामायिकसूत्राद्यर्थं यदा कश्चिदुपसम्पदं प्रयच्छति यतिस्तदाs|सावालोचनां ददाति, अत्र विधिः सामाचार्यामुक्त एव, आह-अल्पं सामायिकसूत्रं, तत्कथं तदर्थमपि यतेरुपसम्पत्?, तदभावे वा कथं यतिः ? कथं वा प्रतिक्रमणमन्तरेण शुद्धिरिति ?, अत्रोच्यते, मन्दग्लानादिव्याघाताद् विस्मृतसूत्रस्य
सूत्रार्थमप्युपसम्पदविरुद्धैव, एष्यत्कालं वा दुष्षमान्तमालोक्यानागतामर्षकं सूत्रमिति, तदभावेऽपि च तदा चारित्रपरि
dain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org