________________
आवश्यकहारिभद्रीया
सूत्रस्पर्श करणस्व० वि०१
॥४७०॥
णामोपेतत्वादसौ यतिरेव, शुद्धिश्चास्य यावत् सूत्रमधीतं तावत् तेनैव प्रतिक्रमणं कुर्वत इत्यलं विस्तरेणेति गाथार्थः॥ |॥ १७९ ॥ द्वारम् ॥ अधुनैकगाथयैव विनयादिद्वारत्रयं व्याचिख्यासुराह
आलोइए विणीअस्स दिजए तं (पडि २) पसत्थखित्तंमि । (प०३)
अभिगिज्झ दो दिसाओ चरंति वा जहाकमसो ॥ १८०॥ (५०४) (भार) व्याख्या-आलोचिते सति विनीतस्य, पादधावनानुरागादिविनयवत इत्यर्थः, उक्तं च भाष्यकारेण- अणुरत्तो भत्तिगओ अमुई अणुयत्तओ विसेसण्णू । उजुत्तगऽपरितंतो इच्छियमत्थं लहइ साहू ॥१॥' दीयते 'तत्' सामायिक, तस्यापि न यत्र तत्र कचित् , किं तर्हि?, 'प्रशस्तक्षेत्रे' इक्षुक्षेत्रादाविति, अत्राप्युक्तं-उच्छवणे सालिवणे पउमसरे कुसुमिए य वणसंडे। गंभीरसाणुणाए पयाहिणजले जिणघरे वा ॥१॥ देज ण उ भग्गझामियसुसाणसुण्णासु सँण्णगेहेसु । छारंगारकयारामेज्झाईदबदुढे वा ॥२॥' तथा 'अभिगृह्य' अङ्गीकृत्य द्वे 'दिशौ' पूर्वा वोत्तरां वा दीयत इति वर्तते, तथा चरन्तीं वा, तत्र चरन्ती नाम यस्यां दिशि तीर्थकरकेवलिमनःपर्यायज्ञान्यवधिज्ञानिचतुर्दशपूर्वधरादयो यावद् युगप्रधाना इति विह-18 रन्ति, यथाक्रमश इति गुणापेक्षया तासु दिक्षु यथाक्रमेण दीयत इति,उक्तं च-पुवाभिमुहो उत्तरमुहोवदेजाऽहवा पडिच्छिज्जा।
अनुरक्तो भक्तिगतोऽमोची अनुवर्तको विशेषज्ञः । उद्यतकोऽपरितान्त इष्टमर्थ लभते साधुः॥१॥२ इक्षुवने शालीवने पद्मसरसि कुसुमिते च वनखण्डे । गम्भीरसानुनादे प्रदक्षिणजले जिनगृहे वा॥१॥ दद्यात् न तु भन्नध्यामितश्मशानशून्येषु संज्ञागेहेषु । क्षाराङ्गारकचवरामेध्यादिव्यदुष्टे वा ॥२॥ ३ पूर्वाभिमुख उत्तरमुखो वा दद्यादथवा प्रतीच्छेत् ।* ०पणामणुण्ण प्र.
॥४७०॥
Jain Educati
o
nal
For Personal & Private Use Only
SIR
ainelibrary.orgive