SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ जाएं जिणादओ वा दिसाऍ जिणचेइयाई वा ॥ १ ॥' इति गाथार्थः ॥ १८० ॥ द्वारत्रयं गतम् अधुना कालादिद्वारत्रयमेकगाथयैवाभिधित्सुराह - | पडिकुठदिणे वज्जिअ रिक्खेसु अ मिगसिराइ भणिएसुं । पियधम्माई गुणसंपयासु तं होइ दायव्वं ॥ १८९ ॥ भा०) व्याख्या - प्रतिक्रुष्टानि - प्रतिषिद्धानि दिनानि - वासराः, प्रतिक्रुष्टानि च तानि दिनानि चेति विग्रहः, तानि चतुर्द| श्यादीनि वर्जयित्वाऽप्रतिक्रुष्टेष्वेव पञ्चम्यादिषु दातव्यमिति योगः, उक्तं च- "चाउद्देसिं पण्णरसिं वज्जेज्जा अट्ठमिं च नवमिं च । छद्धिं च चउत्थिं बारसिं च दोन्हंपि पक्खाणं ॥ १ ॥” एतेष्वपि दिनेषु प्रशस्तेषु मुहूर्तेषु दीयते, नाप्रशस्तेषु, तथा 'ऋक्षेषु' नक्षत्रेषु च मृगशिरादिषु, 'उत्तेषु' ग्रन्थान्तराभिहितेषु, न तु प्रतिषिद्धेषु, उक्तं च - " मिसिरअद्दापूसो तिष्णि य पुबाइ मूलमस्सेसा । हत्थो चित्ता य तहा दह बुढिकराई णाणस्स ॥ १ ॥” तथा - 'संझागयं रविगयं विड्डेरं सग्गहं विलंबिं च । राहुहयं गहभिन्नं च वज्जए सत्त नक्खत्ते ॥ २ ॥' तथा प्रियधर्मादिगुणसम्पत्सु सतीषु 'तत्' सामायिकं भवति दातव्यमिति, उक्तं च- "पिर्येधम्मो दढधम्मो संविग्गोऽवज्जभीरु असढो य । खंतो दंतो गुत्तो थिरवय जिइंदिओ उज्जू ||१|| ” विनीतस्याप्येता गुणसम्पदोऽन्वेष्टव्या इति गाथार्थः॥ १८१॥ (१.५-६-७) साम्प्रतं चरमद्वारव्याचिख्यासयाऽऽह १ यस्यां जिनादयो वा दिशि जिनचैत्यानि वा ॥ १ ॥ २ चतुर्दशीं पञ्चदश वर्जयेत् अष्टमीं च नवमीं च । षष्ठीं च चतुर्थी द्वादश च द्वयोरपि पक्षयोः 1 ॥ १ ॥ ३ मृगशिरः आर्द्रा पुष्यं तिस्रश्च पूर्वा मूलमश्लेषा । हस्तश्चित्रा च तथा दश वृद्धिकराणि ज्ञानस्य ॥ १ ॥ संध्यागतं रविगतं विवरं सग्रहं विलम्बि च। राहुहतं ग्रहभिन्नं च वर्जयेत् सप्त नक्षत्राणि ॥ १ ॥ ४ प्रियधर्मा दृढधर्मां संविग्नोऽवद्यभीरुरशठश्च । क्षान्तो दान्तो गुप्तः स्थिरव्रतो जितेन्द्रिय ऋजुः ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainielibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy