Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 443
________________ परलोकभयं परभवात् किञ्चनद्रव्यजातमादानं तस्य नाशहरणादिभ्यो भयम् आदानभयं यत्तु बाह्यनिमित्तमन्तरेणा| हेतुकं भयम् अकस्माद् भवति तदाकस्मिकं, 'श्लोक श्लाघायां' श्लोकनं श्लोकः श्लाघा -प्रशंसा तदूविपर्ययोऽश्लोकस्तस्माद् भयमश्लोकभयम्, आजीविकाभयं - दुर्जीविकाभयं प्राणपरित्यागभयं मरणभयमिति, एवं सर्वस्मिन् वर्णिते 'अनुक्रमेण' उक्तलक्षणेनान्तेऽपि षड्डू भेदा इति, तत्र 'अम गत्यादिषु' अमनमन्तः - अवसानमित्यर्थः, अस्मिन्नपि षडू भेदाः, तद्यथा - नामान्तः स्थापनान्तः द्रव्यान्तः क्षेत्रान्तः कालान्तः भावान्तश्चेति, नामस्थापने क्षुण्णे, द्रव्यान्तो घटाद्यन्तः, | क्षेत्रान्त ऊर्ध्वलोकादिक्षेत्रान्तः, कालान्तः समयाद्यन्तः, भावान्तः औदयिकादिभावान्तः ॥ एवं सव्वंमिवि वन्निअंमि इत्थं तु होइ अहिगारो । सत्तभयविष्यमुक्के तहा भवंते भयंते अ ॥ १८५ ॥ ( भा०) व्याख्या – 'एवम्' उक्तेन प्रकारेण 'सर्वस्मिन्' अनेकभेदभिन्ने भयादौ वर्णिते सति 'अत्र तु' प्रकृते भवत्यधिकारःप्रकृतयोजना सप्तभयविप्रमुक्तो यस्तेन, तथा भवान्तो यः भदन्तश्चेति, पश्चानुपूर्व्या ग्रन्थ इति गाथाद्वयार्थः ॥ १८५ ॥ मूलद्वारगाथायां व्याख्यातं भयान्तद्वारद्वयं, तद्व्याख्यानाच्च भदन्तभवान्तभयान्त इति गुर्वामन्त्रणार्थः सूत्रावयव इति, उक्तं च - भाष्यकारेण 'आमंतेइ करेमी भदंत ! सामाइयंति सीसोऽयं । आहामंतणवयणं गुरुणो किंकारणमिणंतिः ॥ १ ॥ भण्णइ - गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । णिच्चं गुरुकुलवासी हवेज्ज सीसो जओऽभिहियं ॥ २॥ नाणस्स होइ भागी १ आमन्त्रयति करोमि भदन्त ! सामायिकमिति शिष्योऽयम् । आह आमन्त्रणवचनं गुरोः किंकारणमिदमिति ? ॥ १ ॥ भव्यते - गुरुकुलवासोपसंग्रहार्थं यथा गुणार्थीह । नित्यं गुरुकुलवासी भवेत् शिष्यो यतोऽभिहितम् ॥ २ ॥ ज्ञानस्य भवति भागी Jain Education Charcha onal For Personal & Private Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478