Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 431
________________ BAAR नायामपि द्वयस्याद्यस्यैवेति गाथार्थः ॥ १०२६ ॥ साम्प्रतं सामायिककरणमेवाव्युत्पन्नविनेयवर्गव्युत्पादनार्थ सप्तभिरनुयोगद्वारैः कृताकृतादिभिः निरूपयन्नाह कयाकयं १ केण कयं २ केसु अव्वेसु कीरई वावि ३। काहे व कारओ ४ नयओ ५ करणं कइविहं ६ (च) कहं ७१ ॥ १०२७॥ | व्याख्या-'कयाकयति सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति-एतत्सामायिकमस्याः क्रियायाः प्राकू किं कृतं क्रियते ? आहोश्विदकृतमिति, उभयथाऽपि दोषः, कृतपक्षे भावादेव करणानुपपत्तेः, अकृतपक्षेऽपि वान्ध्येयादेरिव करणानुपपत्तिरेवेति, अत्र निर्वचनं, कृतं चाकृतं च कृताकृतं, नयमतभेदेन भावना कार्या, केन कृतमिति वक्तव्यं, तथा केषु द्रव्येष्विष्टादिषु क्रियते?, कदा वा कारकोऽस्य भवतीति वक्तव्यं, 'नयत' इति केनालोचनादिना नयेनेति, तथा करणं 'कइविहं' कतिभेदं 'कथं' केन प्रकारेण लभ्यत इति वक्तव्यमयं गाथासमासार्थः ॥१०२७ ॥ अवय वार्थ तु प्रतिद्वारं भाष्यकार एव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽहहै उप्पन्नाणुप्पन्नं कयाकयं इत्थ जह नमुक्कारे।दा०१॥केणंति अत्थओतं जिणेहिं सुत्तं गणहरेहिं॥१७॥(दा०२)भा० RI व्याख्या-इहोत्पन्नानुत्पन्नं कृताकृतमभिधीयते, सर्वमेव च वस्तूत्पन्नानुत्पन्नं क्रियते, द्रव्यपर्यायोभयरूपत्वाद्वस्तुन इति, अत्र नैगमादिनयैर्भावना कार्येति, अत एवाऽऽह-अत्र यथा नमस्कारे नयभावना कृता तथैव कर्तव्येति गम्यते, Jain Education For Personal & Private Use Only wwwjainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478