Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 420
________________ आवश्यकहारिभद्रीया सूत्रस्पर्श करणस्व० वि०१ ॥४६॥ व्याख्या-इह 'सर्वग्रहोभययोः' सङ्घातसंघातपरिशाटयोरित्यर्थः, शाटस्य च 'अन्तरं' विरहकालः 'वैक्रियस्य' वैक्रियशरीरसम्बन्धिनः समयः सङ्घातस्योभयस्य च, अन्तर्मुहूर्त शाटस्य, इदं तावजघन्यं त्रयाणामपि कथं ज्ञायत इति चेत् ? यत आह-उत्कृष्टं 'वृक्षकालिकं' वृक्षकालेनानन्तेन निवृत्तं वृक्षकालिकमिति गाथाक्षरार्थः ॥ भावार्थस्त्वयं-'संघातंतर समयो दुसमयविउवियमयस्स तइयंमि । सो दिवि संघातयतो तइए व मयस्स तइयंमि ॥१॥ अविग्रहेण सङ्घातयतः द्वितीयसङ्घातपरिशाटस्य समय एवान्तरमिति, 'उभयस्स चिरविउबियमयस्स देवे सविग्गह गयस्स । साडस्संतोमुहुत्तं तिण्हवि तरुकालमुक्कोसं ॥१॥ उक्ता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्यैनां प्रतिपादयन्नाहआहारे संघाओ परिसाडो अ समयं समं होइ । उभयं जहन्नमुक्कोसयं च अंतोमुहुत्तं तु॥१७॥ (भा०) __ व्याख्या-'आहार' इत्याहारकशरीरे सङ्घातः-प्राथमिको ग्रहः परिशाटश्च-पर्यन्ते मोक्षश्च, कालतः 'समय' कालविशेष 'सम' तुल्यं भवति, सङ्घातोऽपि समयं शाटोऽपि समयमित्यर्थः, 'उभयं' सङ्घातपरिशाटोभयं गृह्यते, तज्जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवतीति वर्तते, अन्तर्मुहूर्तमात्रकालावस्थायित्वादस्येति गर्भार्थः, उत्कृष्टात्तु जघन्यो लघुतरो वेदितव्य इति गाथार्थः ॥ साम्प्रतमाहारकमेवाधिकृत्य सङ्घाताद्यन्तरमभिधातुकाम आह बंधणसाडुभयाणं जहन्नमंतोमुत्तमंतरणं । उक्कोसेण अवडं पुग्गलपरिअड्देसूणं ॥१७१ ॥ (भा०) ॥४६॥ १ संघातान्तरं समयो द्विसमयवैक्रियमृतस्य तृतीये । स दिवि संघातयतः तृतीये वा मृतस्य तृतीये ॥१॥२ उभयस्य चिरविकुर्वितमृतस्य देवे सविग्रहं गतस्य । शाटस्यान्तर्मुहूर्त त्रयाणामपि तरुकालमुस्कृष्टम् ॥१॥ Jain Educati o nal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478