________________
आवश्यकहारिभद्रीया
सूत्रस्पर्श करणस्व० वि०१
॥४६॥
व्याख्या-इह 'सर्वग्रहोभययोः' सङ्घातसंघातपरिशाटयोरित्यर्थः, शाटस्य च 'अन्तरं' विरहकालः 'वैक्रियस्य' वैक्रियशरीरसम्बन्धिनः समयः सङ्घातस्योभयस्य च, अन्तर्मुहूर्त शाटस्य, इदं तावजघन्यं त्रयाणामपि कथं ज्ञायत इति चेत् ? यत आह-उत्कृष्टं 'वृक्षकालिकं' वृक्षकालेनानन्तेन निवृत्तं वृक्षकालिकमिति गाथाक्षरार्थः ॥ भावार्थस्त्वयं-'संघातंतर समयो दुसमयविउवियमयस्स तइयंमि । सो दिवि संघातयतो तइए व मयस्स तइयंमि ॥१॥ अविग्रहेण सङ्घातयतः द्वितीयसङ्घातपरिशाटस्य समय एवान्तरमिति, 'उभयस्स चिरविउबियमयस्स देवे सविग्गह गयस्स । साडस्संतोमुहुत्तं तिण्हवि तरुकालमुक्कोसं ॥१॥ उक्ता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्यैनां प्रतिपादयन्नाहआहारे संघाओ परिसाडो अ समयं समं होइ । उभयं जहन्नमुक्कोसयं च अंतोमुहुत्तं तु॥१७॥ (भा०) __ व्याख्या-'आहार' इत्याहारकशरीरे सङ्घातः-प्राथमिको ग्रहः परिशाटश्च-पर्यन्ते मोक्षश्च, कालतः 'समय' कालविशेष 'सम' तुल्यं भवति, सङ्घातोऽपि समयं शाटोऽपि समयमित्यर्थः, 'उभयं' सङ्घातपरिशाटोभयं गृह्यते, तज्जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवतीति वर्तते, अन्तर्मुहूर्तमात्रकालावस्थायित्वादस्येति गर्भार्थः, उत्कृष्टात्तु जघन्यो लघुतरो वेदितव्य इति गाथार्थः ॥ साम्प्रतमाहारकमेवाधिकृत्य सङ्घाताद्यन्तरमभिधातुकाम आह
बंधणसाडुभयाणं जहन्नमंतोमुत्तमंतरणं । उक्कोसेण अवडं पुग्गलपरिअड्देसूणं ॥१७१ ॥ (भा०)
॥४६॥
१ संघातान्तरं समयो द्विसमयवैक्रियमृतस्य तृतीये । स दिवि संघातयतः तृतीये वा मृतस्य तृतीये ॥१॥२ उभयस्य चिरविकुर्वितमृतस्य देवे सविग्रहं गतस्य । शाटस्यान्तर्मुहूर्त त्रयाणामपि तरुकालमुस्कृष्टम् ॥१॥
Jain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org