________________
उव्विअसंघाओजहन्नु समओ उ दुसमउक्कोसो। साड़ो पुण समयं चिअविउव्वणाए विणिद्दिडो॥१६७॥(भा०) । अस्या व्याख्या-वैक्रियसङ्घातः कालतो 'जघन्यः' सर्वस्तोकः समय एव, तुशब्दस्यैवकारार्थत्वेनावधारणा-16 र्थत्वाद्, अयं चौदारिकशरीरिणां वैक्रियलब्धिमतां विकुर्वणारम्भे देवनारकाणां च तत्प्रथमतया शरीरग्रहण इति, तथा 'द्विसमय' इति द्विसमयमान उत्कृष्टः वैक्रियसङ्घात इति वर्तते कालश्चेति गम्यते, स पुनरौदारिकशरीरिणो वैक्रियलब्धिमतस्तद्विकुर्वाणारम्भ एव वैक्रियसङ्घातं समयेन कृत्वाऽऽयुष्कक्षयात् मृतस्याविग्रहगत्या देवेषूपपद्यमानस्य वैक्रियमेव सङ्घातयतोऽवसेय इति भावना, शाटः पुनः समयमेव कालतः 'विकुर्वणायां वैक्रियशरीरविषयो विनिर्दिष्ट इति गाथाक्षरार्थः ॥ अधुना सङ्घातपरिशाटकालमानमभिधित्सुराहसंघायणपरिसाडो जहन्नओ एगसमइओ होइ । उक्कोसं तित्तीसं सायरणामाई समऊणा ॥ १६८ ॥ ( भा०)
व्याख्या-इह वैक्रियस्यैव सङ्घातपरिशाटः खलुभयरूपः कालतो जघन्य एकसामयिको भवति, उत्कृष्टस्त्रयस्त्रिंशत् सागरोपमाणि सागरनामानि समयोनानीति गाथाक्षरार्थः ॥ भावार्थस्त्वयम्-उभयं जहण्ण समओ सो पुण दुसमयविउबियमयस्स । परमतराई संघातसमयहीणाई तेत्तीसं ॥१॥ इदानीं वैक्रियमेवाधिकृत्य सङ्घाताद्यन्तरमभिधित्सुराहसव्वग्गहोभयाणं साडस्स य अंतरं विउव्विस्स । समओ अंतमुहुत्तं उक्कोसं रुक्खकालीअं॥१६९॥ (भा०)
१ उभयस्मिन् जघन्यः समयः स पुनर्द्विसमयवैक्रियमृतस्य । परमतराणि संघातसमयहीनानि त्रयस्त्रिंशत् ॥१॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org