________________
आवश्यक हारिभद्रीया
वि०१
॥४६०॥
RARIORARARAS
उत्कृष्टं तु त्रयस्त्रिंशत् सागरोपमाणे पूर्वकोट्याऽधिकानि, कथम् , इह कश्चित् संयतमनुष्य औदारिकसर्वशाटं कृत्वाऽनुत्तरसुरेषु त्रयस्त्रिंशत्सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसङ्घातं कृत्वा पूर्वकोट्यन्ते औदारिकसर्वशाट करोतीति, उक्तं च भाष्यकारेण-"खुड्डागभवग्गहणं जहन्नमुक्कोसयं च तित्तीसं। तं सागरोवमाई संपुन्ना पुवकोडी उ ॥१॥ गुरवस्तु व्याचक्षते-तदारम्भसमयस्य पूर्वभवशाटेनावरुद्धत्वात् समयहीनं क्षुल्लकभवग्रहणं जघन्यं शाटान्तरमिति, तथा च किलैवमक्षराणि नीयन्ते-त्रिसमयहीनं क्षुल्लकमित्येतदपि न्याय्यमेवास्माकं प्रतिभाति, किन्त्वतिगम्भीरधिया भाष्यकृता सह विरुध्यत इति गाथार्थः॥ इदानीं सङ्घातपरिशाटान्तरमुभयरूपमप्यभिधित्सुराहअंतरमेगं समयं जहन्नमोरालगहणसाडस्स। सतिसमया उक्कोसं तित्तीसं सागरा हुंति ॥ १६६ ॥ (भा०) __व्याख्या-'अन्तरम्' अन्तरालम् , कं समयं 'जघन्यं' सर्वस्तोकम् औदारिकग्रहणशाटयोरिति, सत्रिसमयान्युत्कृष्टं त्रयस्त्रिंशत् सागरोपमाणि भवन्तीति गाथाक्षरार्थः ॥ भावार्थस्तु भाष्यगाथाभ्यामवसेयः, ते चेमे-"उभयंतरं जहण्णं समओ निविग्गहेण संघाए । परमं सतिसमयाई तित्तीसं उदहिनामाई ॥१॥ अणुभविउं देवाइसु तेत्तीसमिहागयस्स तइयंमी । समए संघायतओ नेयाई समयकुसलेहिं ॥२॥” उक्तौदारिकमधिकृत्य सर्वसङ्घातादिवक्तव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा
क्षुल्लकभवग्रहणं जघन्यमुस्कृष्टं च त्रयस्त्रिंशत् । तत् सागरोपमाणि संपूर्णानि पूर्वकोटी तु ॥१॥२ त्रिभिरून सर्वबन्धस्य समयोनं सर्वशाटस्येति भावार्थः । ३ उभयान्तरं जघन्यं समयो निर्विग्रहण संघाते । परमं स त्रिसमयानि त्रयस्त्रिंशत् उदधिनामानि ॥२॥ अनुभूय देवादिषु त्रयस्त्रिंशतमिहागतस्य |तृतीये । समये संघातयत एव ज्ञेयानि समयकुशलैः ॥२॥ * संघाययओ दुविहं साढतरं वोच्छं ( इति वि० भा०)
॥४६०॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org