________________
अधुना सातादिविरहो जघन्येतरभेदोऽभिधीयते, तथा चाऽऽह-विरहः कः?, उच्यते, अन्तरकालः, औदारिके तस्य सङ्घातादेरयं भवतीति गाथार्थः ॥ तिसमयहीणं खुडु होइ भवं सव्वबंधसाडाणं । उक्कोस पुव्वकोडी समओ उअही अतित्तीसं ॥१६५॥ (भा०) ___ व्याख्या-त्रिसमयहीनं क्षुल्लं भवति, 'भवम्' इति भवग्रहणं, सर्वबन्धशाटयोरन्तरकाल इति, तत्र त्रिसमयहीनं सर्व|बन्धस्य क्षुल्लं तु सम्पूर्ण सर्वशाटस्येति, उत्कृष्टः पूर्वकोटिसमयः, तथा 'उदधीनि च (धयश्च) सागरोपमाणि च त्रयस्त्रिंशत् सर्वबन्धस्य, समयोनस्त्वयमेव शाटस्येति गाथाक्षरार्थः ॥ भावार्थस्तु भाष्यगाथाभ्योऽवसेयस्ताश्चेमाः-"संघायंतरकालो जहन्नओ खुड्डयं तिसमऊणं । दो विग्गमि समया तइओ संघायणासमओ ॥१॥ तेहूणं खुड्डभवं धरि परभवमविग्गहेणेव । गंतूण पढमसमए संघाययओ स विण्णेओ॥२॥ उक्कोसं तेत्तीसं समयाहियपुवकोडिअहिआई। सो सागरो|वमाइं अविग्गहेणेह संघायं ॥३॥ काऊण पुवकोडिं धरि सुरजेठमाउयं तत्तो।भोत्तूण इहं तइए समए संघाययंतस्स ॥४॥ इदं पुनः सर्वशाटान्तरं जघन्यं क्षुल्लकभवमानं, कथम् ?, इहानन्तरातीतभवचरमसमये कश्चिदौदारिकशरीरी सर्वशाटं कृत्वा वनस्पतिष्वागत्य सर्वजघन्यं क्षुल्लकभवग्रहणायुष्कमनुपाल्य पर्यन्ते सर्वशाटं करोति, ततश्च क्षुल्लकभवग्रहणमेव भवति, | संघातान्तरकालो जघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनम् । द्वौ विग्रहे समयौ तृतीयः संघातनासमयः ॥ १॥ तैरूनं क्षुल्लकभवं कृत्वा परभवमवि| ग्रहेणैव । गत्वा प्रथमसमये संघातयतः स विज्ञेयः ॥ २॥ उत्कृष्टः त्रयस्त्रिंशत् समयाधिकपूर्वकोट्यधिकानि । स सागरोपमाणि अविग्रहेणेह संघातम् ॥ ३॥ |कृत्वा पूर्वकोटी इत्वा सुरज्येष्ठमायुष्कं ततः। भुक्त्वा इह तृतीये समये संघातयतः ॥४॥
Jain Education Inte
For Personal & Private Use Only
A
pelibrary.org