Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभद्रीया
सूत्रस्पर्श वि०१
॥४५८॥
सीस १ मुरो २ अर ३ पिट्ठी ४ दो बाहू ६ ऊरुआ य ८ अडंगा।
अंगुलिमाइ उवंगा अंगोवंगाणि सेसाणि ॥१६०॥ (भाष्यम् ) व्याख्या-निगदसिद्धा, नवरमङ्गोपाङ्गानि 'शेषाणि' करपादादीनि गृह्यन्ते ॥ किञ्चकेसाईउवरयणं उरालविउवि उत्तरं करणं । ओरालिए विसेसो कन्नाइविणट्ठसंठवणं ॥१६१ ॥ (भा०) _ व्याख्या-'केशाद्युपरचन' केशादिनिर्माणसंस्कारी, आदिशब्दान्नखदन्ततद्रागादिपरिग्रहः औदारिकवैक्रिययोरुत्तरकरणं, यथासम्भवं चेह योजना कार्येति, तथौदारिके विशेष उत्तरकरणे इति, कर्णादिविनष्टसंस्थापनं, नेदं वैक्रियादौ, विनाशाभावाद, विनष्टस्य च सर्वथा विनाशेन संस्थापनाभावादिति गाथार्थः ॥ इत्थंभूतमुत्तरकरणमाहारके नास्ति, गमनागमनादि तु भवति, अथवेदमन्यादृक् त्रिविधं करणं, तद्यथा-सङ्घातकरणं परिशाटकरणं सङ्घातपरिशाटकरणं च, तत्राऽऽद्यानां शरीराणां तैजसकार्मणरहितानां त्रिविधमप्यस्ति, द्वयोस्तु चरमद्वयमेवेति, आह चआइल्लाणं तिण्हं संघाओ साडणं तदुभयं च । तेआकम्मे संघायसाडणं साडणं वावि ॥ १६२॥ (भा०) ___ व्याख्या-वस्तुतो व्याख्यातैवेति न व्याख्यायते ॥ साम्प्रतमौदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराहसंघायमेगसमयं तहेव परिसाडणं उरालंमि । संघायणपरिसाडण खुड्डागभवं तिसमऊणं ॥ १६३ ॥(भा०) . व्याख्या-'सङ्घातम्' इति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्यैकसामयिकत्वात्, घृतपूपदृष्टान्तोऽत्र, यथा-घृतपूर्णप्रतप्तायां तापिकायां सम्पानकप्रक्षेपात् स पूपः प्रथमसमय एवैकान्तेन स्नेहपुद्गलानां ग्रहणमेव करोति,
॥४५८॥
dain Educati
onal
For Personal & Private Use Only
winjainelibrary.org

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478