SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया सूत्रस्पर्श वि०१ ॥४५८॥ सीस १ मुरो २ अर ३ पिट्ठी ४ दो बाहू ६ ऊरुआ य ८ अडंगा। अंगुलिमाइ उवंगा अंगोवंगाणि सेसाणि ॥१६०॥ (भाष्यम् ) व्याख्या-निगदसिद्धा, नवरमङ्गोपाङ्गानि 'शेषाणि' करपादादीनि गृह्यन्ते ॥ किञ्चकेसाईउवरयणं उरालविउवि उत्तरं करणं । ओरालिए विसेसो कन्नाइविणट्ठसंठवणं ॥१६१ ॥ (भा०) _ व्याख्या-'केशाद्युपरचन' केशादिनिर्माणसंस्कारी, आदिशब्दान्नखदन्ततद्रागादिपरिग्रहः औदारिकवैक्रिययोरुत्तरकरणं, यथासम्भवं चेह योजना कार्येति, तथौदारिके विशेष उत्तरकरणे इति, कर्णादिविनष्टसंस्थापनं, नेदं वैक्रियादौ, विनाशाभावाद, विनष्टस्य च सर्वथा विनाशेन संस्थापनाभावादिति गाथार्थः ॥ इत्थंभूतमुत्तरकरणमाहारके नास्ति, गमनागमनादि तु भवति, अथवेदमन्यादृक् त्रिविधं करणं, तद्यथा-सङ्घातकरणं परिशाटकरणं सङ्घातपरिशाटकरणं च, तत्राऽऽद्यानां शरीराणां तैजसकार्मणरहितानां त्रिविधमप्यस्ति, द्वयोस्तु चरमद्वयमेवेति, आह चआइल्लाणं तिण्हं संघाओ साडणं तदुभयं च । तेआकम्मे संघायसाडणं साडणं वावि ॥ १६२॥ (भा०) ___ व्याख्या-वस्तुतो व्याख्यातैवेति न व्याख्यायते ॥ साम्प्रतमौदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराहसंघायमेगसमयं तहेव परिसाडणं उरालंमि । संघायणपरिसाडण खुड्डागभवं तिसमऊणं ॥ १६३ ॥(भा०) . व्याख्या-'सङ्घातम्' इति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्यैकसामयिकत्वात्, घृतपूपदृष्टान्तोऽत्र, यथा-घृतपूर्णप्रतप्तायां तापिकायां सम्पानकप्रक्षेपात् स पूपः प्रथमसमय एवैकान्तेन स्नेहपुद्गलानां ग्रहणमेव करोति, ॥४५८॥ dain Educati onal For Personal & Private Use Only winjainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy