SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ न त्यागम् , अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, तथाविधसामर्थ्ययुक्तत्वात्, पुद्गलानां च सडातभेदधर्मत्वात् , एवं जीवोऽपि तत्प्रथमतयोत्पद्यमानःसन्नाद्यसमये औदारिकशरीरप्रायोग्याणां द्रव्याणांग्रहणमेव करोति, न तु मुञ्चति, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, युक्तिः पूर्ववत्, अतः सङ्घातमेकसमयमिति स्थितं, तथैव 'परिशाटन मिति परिशाटनाकरणमेकसमयमिति वर्तते, सर्वपरिशाटस्याप्येकसामयिकत्वादेवेति, 'औदारिक' इत्यौदारिकशरीरे 'संघायणपरिसाडण'त्ति सङ्घातनपरिशाटनकरणं तु क्षुल्लकभवग्रहणं त्रिसमयोनं, तत् पुनरेवं भावनीयं-जघन्यकालस्य प्रतिपादयितुमभिप्रेतत्वात् विग्रहेणोत्पाद्यते, ततश्च द्वौ विग्रहसमयावेकः सङ्घातसमय इति, तैयूनं, तथा चोक्तम्-दो विग्गहमि समया समयो संघायणाएं तेहूणं । खुड्डागभवग्गहणं सबजहन्नो ठिई कालो ॥१॥ इह च सर्वजघन्यमायुष्कं क्षुल्लकभवग्रहणं प्राणापानकालस्यैकस्य सप्तदशभाग इति, उक्तं च भाष्यकारेण-खुड्डागभवग्गहणा सत्तरस हवंति आणपाचूंमित्ति गाथार्थः ॥ एयं जहन्नमुक्कोसयं तु पलिअत्तिअंतु समऊणं । विरहो अंतरकालो ओराले तस्सिमो होइ ॥१६४ ॥ (भा०) | व्याख्या-इदं जघन्य सङ्घातादिकालमानम् उत्कृष्टं तु सङ्घातपरिशाटकरणकालमानमौदारिकमाश्रित्य पल्योपमत्रितयमेव समयोनम् , इयमत्र भावना-इहोत्कृष्टकालस्य प्रतिपाद्यत्वादयमविग्रहसमापन्नः इह भवात् परभवं गच्छन्निहभव| शरीरशाट कृत्वा परभवायुषस्त्रिपल्योपमकालस्य प्रथमसमये शरीरसङ्घातं करोति, ततो द्वितीयसमयादारभ्य सङ्घातपरि-18 १ द्वौ विग्रहे समयौ समयश्च संघातनायाः तैरूनम् । क्षुल्लकभवग्रहणं सर्वजघन्यः स्थितिकालः ॥ १॥ २ क्षुल्लकभवग्रहणानि सप्तदश भवन्ति आनप्राणे ॥ Jain Education International For Personal & Private Use Only ainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy