________________
ROSIOSOS
चेति गाथासमासार्थः ॥ व्यासार्थ तु ग्रन्थकार एव वक्ष्यति, तत्राल्पवक्तव्यत्वादेवाजीवप्रयोगकरणमादावेवाभिधित्सुराहजंज निजीवाणं कीरइ जीवप्पओगओ तं तं । वन्नाइ रूवकम्माइ वावि अज्जीवकरणं तु ॥ १५७ ॥ ( भा० ) | व्याख्या-यद यन्निर्जीवानां पदार्थानां क्रियते-निर्वत्येते 'जीवप्रयोगतो' जीवप्रयोगेण तत्तद्वर्णादि कुसुम्भादेः रूपकर्मादि वा कुट्टिमादौ अजीवविषयत्वात्तदजीवकरणमिति गाथार्थः॥ जीवप्पओगकरणं दविहं मूलप्पओगकरणं च । उत्तरपओगकरणं पंच सरीराइं पढमंमि ॥१५८॥ (भा)।
व्याख्या-जीवप्रयोगकरणं 'द्विविधं द्विप्रकारं-मूलप्रयोगकरणमुत्तरप्रयोगकरणं च, चशब्दस्य व्यवहित उपन्यासः, पञ्च शरीराणि 'प्रथम' मूलप्रयोगकरणमिति गाथार्थः॥
ओरालियाइआई ओहेणिअरं पओगओ जमिह । निप्फण्णा निप्फजइ आइल्लाणं च तं तिण्हं ॥१५९॥ (भा०)। | व्याख्या-औदारिकादीनि, आदिशब्दाद्वैक्रियाहारकतैजसकार्मणशरीरपरिग्रहः, 'ओघेन' इति सामान्येन, 'इतरत्' उत्तरप्रयोगकरणं गृह्यते, तल्लक्षणं चेदं-'प्रयोगतः' प्रयोगेणैव यद् ‘इह' लोके निष्पन्नाः, मूलप्रयोगेण निष्पद्यत इति 'तद्' उत्तरकरणं, आद्यानां च तत् त्रयाणाम् , एतदुक्तं (ग्रं ११५००) भवति-पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूत्तरकरणमौदारिकादीनां त्रयाणां, न तु तैजसकार्मणयोः, तदसम्भवादिति गाथार्थः॥ १५९ ॥ तत्रौदारिकादीनामष्टाङ्गानि मूलकरणानि, तानि चामूनि
Jain Education intentatonal
For Personal & Private Use Only
www.jainelibrary.org