________________
ॐ
सूत्ररपर्श.
ॐ२-
आवश्यक पर्याय इत्यर्थः, एवमरूपिद्रव्याण्यधिकृत्योक्तं साद्यमनाद्यं च विश्रसाकरणम् , अधुना रूपिद्रव्याण्यधिकृत्य साद्येव चाक्षु- हारिभ
तरभेदमाह-सादि चक्षुःस्पर्श चाक्षुषमित्यर्थः, अभ्रादि, आदिशब्दात् शकचापादिपरिग्रहः, 'अचक्खुत्ति अचाक्षुषमद्रीया दण्वादि, आदिशब्दात् द्यणुकादिपरिग्रहः, करणता चेह कृतिः करणमितिकृत्वा, अन्यथा वा स्वयं बुद्ध्या योजनीयेति
गाथार्थः॥ चाक्षुषाचाक्षुषभेदमेव विशेषेण प्रतिपादयन्नाह॥४५७॥
संघायभेअतदुभयकरणं इंदाउहाइ पच्चक्खं । दुअअणुमाईणं पुण छउमत्थाईणऽपचक्खं ॥१५५॥ (भा०) | व्याख्या-सङ्घातभेदतदुभयैः करणं संघातभेदतदुभयकरणम् इन्द्रायुधादिस्थूलमनन्तपुद्गलात्मकं प्रत्यक्षं, चाक्षुषमित्यर्थः, व्यणुकादीनाम्, आदिशब्दात्तथाविधानन्ताणुकान्तानां पुनः करणमिति वर्तते, किं ?, छद्मस्थादीनाम् ? आदिशब्दः स्वगतानेकभेदप्रतिपादनार्थ इति, अप्रत्यक्षम्-अचाक्षुषमिति गाथार्थः ॥ उक्तं विश्रसाकरणम्, अधुना ४ प्रयोगकरणं प्रतिपादयन्नाहजीवमजीवे पाओगिअंच चरमं कुसुंभरागाई । जीवप्पओगकरणं मूले तह उत्तरगुणे अ॥ १५६ ॥ (भा०) | व्याख्या-यह प्रायोगिकं द्वेधा-जीवप्रायोगिकमजीवप्रायोगिकं च, प्रयोगेन निवृत्तं प्रायोगिकं, चरमम्-अजीवप्रयोगकरणं कुसुम्भरागादि, आदिशब्दाच्छेषवर्णादिपरिग्रहः ॥ एवं तावदल्पवक्तव्यत्वादभिहितमोघतोऽजीवप्रयोगकरणमिति, अधुना जीवप्रयोगकरणमाह-जीवप्रयोगकरणं द्विप्रकारं-'मूल' इति मूलगुणकरणं, तथा 'उत्तरगुणे ति]च' उत्तरगुणकरणं
१ करणता २ छद्मस्थगतानां
COCCALCULAR
X-RECE%E5
॥४५७॥
dain Education international
For Personal & Private Use Only
www.jainelibrary.org