________________
तं णो णामं जमभिधाणं ॥१॥ जं वा तदत्थविकले कीरइ दबं तु दवणपरिणामं । पेलुक्करणाइ न हि तं तयत्थसुण्णं ण वा सहो ॥ २ ॥ जइ ण तदत्थविहीणं तो किं दबकरणं ? जओ तेणं । दवं कीरइ सण्णाकरणंति य करणरूढिओ ॥ ३ ॥” 'नोसंज्ञे' ति नोसंज्ञाद्रव्य करणं, तच्च द्विधा प्रयोगतो विश्वसातश्च, अत एवाह - वीससपओगेत्ति गाथार्थः ॥ तत्र विश्रसाकरणं द्विप्रकारं -साद्यनादिभेदात्, अत एवाह ग्रन्थकारः -
वीससकरणमणाई धम्माईण परपच्चयाजो (यज्जो)गा। साई चक्खुप्फासिअम भाइमचक्खुमणुमाई ॥ १५४ ॥ भा०
व्याख्या– विनसा स्वभावो भण्यते तेन करणं विश्रसाकरणम्, इह च ' कृत्यलुटो बहुल' ( पा० ३ - ३-११३) मिति वचनात् करणादिषु यथाप्रयोगमनुरूपार्थः करणशब्दोऽवसेय इति, 'अनादि' आदिरहितं 'धर्मादीनामिति धर्माधर्माका - | शास्तिकायानामन्योऽन्य समाधानं करणमिति गम्यते, आह - करणशब्दस्तावदपूर्वप्रादुर्भावे वर्तते, ततश्च करणं चानादि चेति विरुद्धम्, उच्यते, नावश्यमपूर्वप्रादुर्भाव एव, किं तर्हि ?, अन्योऽन्यसमाधानेऽपीति न दोषः, अथवा 'परप्रत्यययोगा' दिति परवस्तुप्रत्ययभावाद्धर्मास्तिकायादीनां तथा तथा योग्यताकरणमिति, एवमप्यनादित्वं विरुध्यत इति चेत्, न, अनन्तशक्तिप्रचितद्रव्यपर्यायोभयरूपत्वे सति वस्तुनो द्रव्यादेशेनाविरोधादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्येति, अथवा परप्रत्यययोगात् तत्तत्पर्यायभवनं साधेव करणं, देवदत्तादिसंयोगाद्धर्मादीनां विशिष्ट
१ तन्नो नाम यदभिधानम् ॥१॥ यद्वा तदर्थविकले क्रियते द्रव्यं तु द्रवणपरिणामः । पेलुकरणादि न हि तत्तदर्थशून्यं न वा शब्दः ॥ २ ॥ यदि न तदर्थ| विहीनं तदा किं द्रव्यकरणं ? यतस्तेन । द्रव्यं क्रियते संज्ञाकरणमिति च करणरूढेः ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org