Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
न त्यागम् , अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, तथाविधसामर्थ्ययुक्तत्वात्, पुद्गलानां च सडातभेदधर्मत्वात् , एवं जीवोऽपि तत्प्रथमतयोत्पद्यमानःसन्नाद्यसमये औदारिकशरीरप्रायोग्याणां द्रव्याणांग्रहणमेव करोति, न तु मुञ्चति, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, युक्तिः पूर्ववत्, अतः सङ्घातमेकसमयमिति स्थितं, तथैव 'परिशाटन मिति परिशाटनाकरणमेकसमयमिति वर्तते, सर्वपरिशाटस्याप्येकसामयिकत्वादेवेति, 'औदारिक' इत्यौदारिकशरीरे 'संघायणपरिसाडण'त्ति सङ्घातनपरिशाटनकरणं तु क्षुल्लकभवग्रहणं त्रिसमयोनं, तत् पुनरेवं भावनीयं-जघन्यकालस्य प्रतिपादयितुमभिप्रेतत्वात् विग्रहेणोत्पाद्यते, ततश्च द्वौ विग्रहसमयावेकः सङ्घातसमय इति, तैयूनं, तथा चोक्तम्-दो विग्गहमि समया समयो संघायणाएं तेहूणं । खुड्डागभवग्गहणं सबजहन्नो ठिई कालो ॥१॥ इह च सर्वजघन्यमायुष्कं क्षुल्लकभवग्रहणं प्राणापानकालस्यैकस्य सप्तदशभाग इति, उक्तं च भाष्यकारेण-खुड्डागभवग्गहणा सत्तरस हवंति आणपाचूंमित्ति गाथार्थः ॥ एयं जहन्नमुक्कोसयं तु पलिअत्तिअंतु समऊणं । विरहो अंतरकालो ओराले तस्सिमो होइ ॥१६४ ॥ (भा०) | व्याख्या-इदं जघन्य सङ्घातादिकालमानम् उत्कृष्टं तु सङ्घातपरिशाटकरणकालमानमौदारिकमाश्रित्य पल्योपमत्रितयमेव समयोनम् , इयमत्र भावना-इहोत्कृष्टकालस्य प्रतिपाद्यत्वादयमविग्रहसमापन्नः इह भवात् परभवं गच्छन्निहभव| शरीरशाट कृत्वा परभवायुषस्त्रिपल्योपमकालस्य प्रथमसमये शरीरसङ्घातं करोति, ततो द्वितीयसमयादारभ्य सङ्घातपरि-18 १ द्वौ विग्रहे समयौ समयश्च संघातनायाः तैरूनम् । क्षुल्लकभवग्रहणं सर्वजघन्यः स्थितिकालः ॥ १॥ २ क्षुल्लकभवग्रहणानि सप्तदश भवन्ति आनप्राणे ॥
Jain Education International
For Personal & Private Use Only
ainelibrary.org

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478