________________
SSSSSSSSSSSSSS
व्याख्या-उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह-क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति १, विनयः-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी २, अनाचार्य कर्म साचार्य शिल्पं,कादाचित्कं वा कर्म शिल्पं नित्यव्यापारः, 'कर्मजा' इति कर्मणो जाता कर्मजा ३, परिः-समन्तानमनं परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रधाना वा पारिणामिकी ४, बुध्यतेऽनयेति-बुद्धिः-मतिरित्यर्थः, सा च चतुर्विधोक्ता तीर्थकरगणधरैः, किमिति ?, यस्मात् पञ्चमी नोपलभ्यते केवलिनाऽप्यसत्त्वादिति गाथार्थः ॥ औत्पत्तिक्या लक्षणं प्रतिपादयन्नाहपुव्वमदिट्ठमस्सुअमवेइअ तक्खणविसुद्धगहिअत्था । अव्वायफलजोगिणि बुद्धी उप्पत्तिआ नाम॥९३९॥ ___ व्याख्या-'पूर्वम्' इति बुद्ध्युत्पादात् प्राक् स्वयमदृष्टोऽन्यतश्चाश्रुतः 'अवेदितः' मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धः-यथावस्थितः गृहीतः-अवधारितः अर्थः-अभिप्रेतपदार्थों यया सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यते, फलं-प्रयोजनम् , अव्याहतं च तत्फलं च अव्याहतफलं योगोऽस्या अस्तीति योगिनी अव्याहतफलेन योगिनी अव्याहतफलयोगिनी, अन्ये पठन्ति-अव्याहतफलयोगा,अव्याहतफलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धिः औत्पत्तिकी नामेति गाथार्थः ॥ साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयन्नाह
भरहसिंल १पैणिअ २ रुक्खे ३ खड्ग ४ पड ५ सरड ६ काग ७ उच्चारे ८।
गय ९ घयण १० गोल ११ खंभे १२, खुडग १३ मग्गित्थि १४ पइ १५ पुत्ते १६॥९४०॥ * पणः + मुद्रिका.
dain Education A
nal
For Personal & Private Use Only
Mainelibrary.org