Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक -- हारिभ
द्रीया
॥४५०॥
Jain Educatio CONT
पुनर्नमस्कार सूत्रमुभयातीतं यतोऽत्र न संक्षेपो नापि विस्तर इत्यपिशब्दस्य व्यवहितः सम्बन्धः, 'संक्षेपो द्विविध' इति यद्ययं संक्षेपः स्यात् ततस्तस्मिन् सति द्विविध इति - द्विविध एव नमस्कारो भवेत्, सिद्धसाधुभ्यामिति कथं १, परिनिर्वृ| तार्हदादीनां सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देनेति, तथा च नैते संसारिणः सर्व एव साधुत्वमतिलङ्घय वर्तन्त इति, तदभावे शेषगुणाभावात्, अतस्तन्नमस्कार एवेतर नमस्कारभावात्, अथायं विस्तरः इत्येतदप्यचारु, यस्माद् विस्तरतोऽनेकविधः प्राप्नोति, तथा च - ऋषभाजितसम्भवाभिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्यादिमहावीरवर्द्धमानस्वामिपर्यन्तेभ्यश्चतुर्विंशत्यर्हद्भयः, तथा सिद्धेभ्योऽपि विस्तरेण - अनन्तरसिद्धेभ्यः परम्परसिद्धेभ्यः प्रथमसमयसिद्धेभ्यः द्वितीयतृतीयसमयादिसङ्ख्येयासङ्ख्येयानन्तसमयसिद्धेभ्यः, तथा तीर्थलिङ्गचारित्रप्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः तीर्थकर - सिद्धेभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्यः इत्येवमादिरनन्तशो विस्तरः, यतश्चैवमत आह-पक्षद्वयमप्यङ्गीकृत्य पञ्चविधः - पञ्चप्रकारो न युज्यते यस्मान्नमस्कार इति गाथार्थः ॥ १००६ ॥ गतमाक्षेपेंद्वारम् अधुना प्रसिद्धिद्वारावयवार्थ उच्यते तत्र यत्तावदुक्तं 'न संक्षेप' इति, तन्न, संक्षेपात्मकत्वात्, ननु स कारणवशात् कृतार्थाकृतार्थापरिग्रहेण सिद्धसाधुमात्रक एवोक्तः, सत्यमुक्तोऽयुक्तस्त्वसौ, कारणान्तरस्यापि भावात्, तच्चोक्तमेव, अथवा वक्ष्यामः 'हेतुनिमित्त' मित्यादिना, सति च द्वैविध्ये सकलगुणनमस्कारासम्भवादेकपक्षस्य व्यभिचारित्वात्, तथा चाऽऽह
अरहंताई निअम साहू साहू अ तेसु भइअव्वा । तम्हा पंचविहो खलु हेउनिमित्तं हवइ सिद्धो ॥ १००७|| व्याख्या - इहार्हदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात् साधवस्तु 'तेषु' अर्हदादिषु 'भक्तव्याः' विकल्प
*For Personal & Private Use Only
नमस्कार ० वि० १
॥४५०॥
www.jainelibrary.org"

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478