Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
Catalog link: https://jainqq.org/explore/034840/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ जैनयशोविजयग्रन्थमाला (8) Iloll k&hlak Ik NEEसाहेन, लापनगर. ફોન : ૦૨૭૮-૨૪૨૫૩૨૨ 300४८rs श्रीमुनिसुन्दरसूरिविरचिता ® * गवोवली * ANESE R SECTIONS 18 AND 1 OTTENXV OF 1867 ՏՆՕԲ ՄԻՋՈՑԱՌՈՒԹ ՏԵՄԲՐԻՋԻԲԱՆՋԱՐՑԵՐԻՆ (ՈԳԱԲԹԻՐ ՄԲ ԻՆՁ D O PUS काशीस्थश्रीयशोविजयजैनपाठशालायाः प्रकाशिता। काश्यां चन्द्रप्रभायन्त्रालये मुद्रिता । वीर सम्वत् २४३१ । सन् १९०५। S 0 0-00-000-4-6-6Sssve Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ श्रीमुनिसुन्दरसूरयः। सकलसंस्कृतभाषाभाषणचणाः श्रीमच्छेताम्बरजैनधर्मनिजसूक्तिपीयूषधाराधरीकृतगीर्वाणधिषणाः कालीसरस्वतीबिरुदोपवृंहितश्रीमुनिसुन्दरसूरयः कदा कतमं भूमण्डलं मण्डयामासुः कदा विं कार्य चक्रुरिति पर्यालोचने प्रवृत्ते'व्यजिज्ञपद्विज्ञशिरोमणिश्च गच्छाधिपं स्वच्छमतिप्रसारम् । श्रीसूरिदीन्यत्पदभूमिवित्त व्ययस्य निर्मापणतः प्रसीद ॥ सतो गुरुः सौवविनेयन्दे ददौ सदौन्नत्यगुरुः स्वदृष्टिम् । श्रीवाचकेन्द्र मुनिसुन्दराद्धे विशेषतो योग्यतया तया च ।। जल्पत्यनल्पं सविकल्पजालं सदाप्यनुस्यूतमतिप्रभूतम् । श्राक् संस्कृतं प्रोन्मदवादिन्दं ननाश यस्मिन् किल काकनाशम् ।। स्वसाध्यसिध्ध्यै सति यत्र हेतूपन्यासमातन्वति वादभूमौ । पावादुकोन्मादभरः शरीरे स्वेदेन सार्द्ध किल जागलीति॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ प्रस्तावना। यनिर्मिता श्रीगुरुभव्यकाव्यविज्ञप्तिगङ्गा गुणसत्तरङ्गा। प्रक्षालयन्ती कलिकश्मलौघं हृष्टानकार्षीत्सुमनःसमूहान् ॥ येन प्रक्लुप्ताः स्तुतयः स्तवाश्च गाम्भीर्यभृन्नव्यसदर्थसार्थाः। श्रीसिद्धसेनादिमहाकवीनां कृतीमतीद्धा अनुचक्रिरेताः॥ सद्युक्तिभृत्संस्कृतजल्पशक्तिः सहस्रनाम्नांकथनकशक्तिः। तात्कालिकी नव्यकवित्वशक्तिर्न यं विनान्यत्र समीक्ष्यतेऽद्या। विद्या न सास्ते निरवद्यताभृत् कला न सा चाऽस्ति वरा धरायाम् । यस्यां न यस्याङ्गिगणार्चितस्य बुद्धिर्विशुद्धा प्रसरीसरीति ॥ मेधाविनः सन्ति परः सहस्रा अदृष्यवैदुष्यधरा धरायाम् । परं न यस्य प्रसरत्प्रकर्षप्रज्ञस्य विज्ञस्य तुलाभृतः स्युः॥ तं वाचकं सूरिपदार्हमहन्मतोन्नतिस्फातिकरं विमृश्य । वचोऽनुमेने सुमना महेभ्यराट् श्रीदेवराजस्य गणाधिराजः॥ अगादसौ धाम निकाममन्तश्चित्तं प्रहृष्टः कृतिनां गरिष्ठः । श्राक्माहिणोत्कुङ्कुमपत्रिकाच की. समं भूमितलेऽखिलेऽपि। समागमन् सङ्घजनाश्च तेनाहूताः प्रभूताः परिपूतचित्ताः। तदा च रूपाऽस्तमुपर्वगर्वैस्तैस्तत्पुरं स्वःपुरवद्विरेजे॥ भेर्याद्यवाद्यानि जगणुरूर्जस्वलानि मङ्गल्यरातुलानि । समं च तैः श्राक् सुकृतानि तानि पुराकृतानि प्रथितानि तस्य। वातोमिवेल्लच्छुचिकेतनानि निकेतनानि व्यवहारिननुः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ प्रस्तावना। बभासिरे तस्य गुणान्वितस्य श्रद्धोज्ज्वलानीव लसन्मनांसि। तदा च मुत्रामपुरस्य शोभा शुभां बिभर्ति स्म पुरं तदुचः। पदे पदे यत्प्रमदप्रदायी निरीक्ष्यते ऽखर्वसुपर्वराजिः ॥ सर्वाङ्गचार्वाभरणाभिरामा रामाः सकामाः प्रददुस्तदानीम्। न केवलं सद्धवलानि सर्वश्रोत्श्रुतीनामाप च प्रमोदम् ॥ बहोत्सवेषु प्रथितेषु तेषु समंततः संततमद्भुतेषु । सोत्कर्षहर्षेण पुरात् पुराणः शोकस्तदानीं निरकासि सद्यः।। मुहूर्तघस्रेऽथ रमासनाथयुगादिनाथस्य पृथूनचचैत्ये । अमण्डि नन्दिर्गुरुभिस्तदानीमा चगुा स्वयशःसमृद्धिः महामहोघे प्रसरत्यनल्पे मङ्गल्यजल्पे ऽखिलबन्दिनां च । श्रीवाचकानां वरसूरिमन्त्रं प्रादान्मुदा श्रीतपगच्छनाथः ॥ सङ्घाधिप-श्रीयुतदेवराजः सदावदातैरवदातकीर्तिः । उत्कर्षतो दाननलं प्रवर्षन् प्रायनामो ददृशे तदानीम् ।। माणिक्यरत्नैः प्रवरैश्च चीरैर्विभूषणैय॑क्कृतदूषणैश्च । प्रचक्रिरे तेन नरेन्द्रकल्पाः कल्पांहिपाभेनवनीपकौघाः ॥ मुक्ताफलैर्निर्मलकान्तिकान्ताचिरत्नरत्नर्विशदाक्षतैश्च । वर्धापयामासुरसीमरूपाः स्त्रियः श्रियः सद्युतिभिर्गुरूंस्तान्।। गर्जत्यूर्जितवर्यतूर्यनिकरे दिक्चक्रकुक्षिभरिध्वाने सद्धवलध्वनौ च नितरां प्रोत्सर्पति स्त्रीमुखात् । हूहूतुम्बरुजैत्रगायनगणैर्विस्तार्यमाणे च सद् गीते श्रीगुरवो विनेयसहिताः श्रीधर्मशालां ययुः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ प्रस्तावना। पाश्चत्पेशलखण्डिकामृदुलसन्नर्मप्रातष्ठानिका श्रीखण्डोज्वलपट्टमुख्यसिचयैश्चञ्चत्मभासञ्चयैः। रम्यश्रीयुतसोमसुन्दरमहासूरीश्वराणां व्यधात पूजा श्रीश्रितदेवराजमहिमा श्रीदेवराजस्तदा ॥ पकान्नैर्विविधैः स धीरमुकुटः सद्गन्धकूरोत्करै लिस्फातिततैः ससौरभघृतैङ्खलामृतैश्वामितैः । श्रीसद्धं सकलं कलङ्करहितश्रीर्जेमयामास तत् पूजां चीरचयैर्व्यधाच्च गणनानीतैः प्रतीतैर्गुणैः॥ श्रीमान् सरिपदे पदेऽथ यशसां कारापिते श्रीगुरोरादेशान्मुनिसुन्दरव्रतिवरश्रीसूरिणा संयुतः । युक्तः पञ्चशतीमितश्च शकटैरुद्यद्भटैर्भूयसा सङ्घनाप्यनघेन तूर्णपचलत् श्रीतीर्थयात्रां प्रति ॥ भेर्यायूर्जितहृद्यवाद्यनिनदोमाङ्गणं गर्जयन रङ्गत्तुङ्गतुरङ्गमक्रमखुराघातैः क्षितिं कंपयन् । चञ्चद्वर्णसुवर्णदण्डकलशर्देवालयैरुन्नतैः शोभा बिभ्रददभ्रशुभ्रयशसा शुक्लं सृजन् क्ष्मातलं। श्रीशत्रुजयपर्वतेजपि च गिरी श्रीरैवते दैवतं श्रीनाभेयजिनं निरस्तवृजिनं नेमीश्वरं भास्वरम् । नत्वा तत्र महोत्सवानवनवान् कृत्वा च दत्वा धनं भूत्वा संघपतिः कृती निजगृहं चागात्ससोऽनघः॥ श्रीगच्छेन्द्रगिरा सुधारसकिरा शिष्योत्करैः संयुता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ प्रस्तावना । गर्वाखर्वकुवादिसिन्धुरघटा वित्रासपञ्चाननाः। पूर्णेन्दुप्रतिमाननाघनजनाल्हादप्रकर्षपदाः श्रीमन्तो मुनिसुन्दराहगुरवः क्षोणी विहारं व्यधुः ॥ तथा श्रीसोमसुन्दरयुगोत्तममूरिपट्टे श्रीमान् रराज मुनिसुन्दरसूरिगजः। श्रीसूरिमंत्रवरसंस्मरणैकशक्ति र्यस्याभवद् भुवनविस्मयदानदक्षा ।। श्रीरोहिणीति विदिते नगरे ततीति __ पश्चात्कृतेः किल चमत्कृतहृत्पुरेशः ॥ ऊरीचकार मृगयाकरणे निषेधं मावर्त्तयनिखिलनीवृत्ति चाप्यमारिम् ॥ प्रागेव देवकुलपाटकपत्तने यो __ मारेरुपद्रवदलं दलयांचकार । श्रीशान्तिकृत्स्तवनतो ऽवनतो__ तमाङ्गभूपालमौलिमणिघृष्टपदारविन्दः।। श्रीमानदेवशुचिमानसमानतुङ्ग मुख्यान् प्रभावकगुरून् स्मृतिमानयद्यः । श्रीशासनाभ्युदयदप्रथितावदातै स्तैस्तैश्चमत्कृतिकरैः कुमुदावदातैः ॥ चतुर्विशत्यधिकपञ्चदशशततमे वैक्रमेऽब्दे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ प्रस्तावना। श्रीप्रतिष्ठासोमगणिभिर्निमितात् सोमसौभाग्यनामकाव्यात् तत्रभवतां महामहिमप्रभाजुषामुक्तसूरीणामिति कीर्त्तिकौमुदीकलितकृतिव्यावर्णनमुपलभ्यते,। 'पट्टश्रियास्य मुनिसुन्दरसूरिशके संप्राप्तया कुवलयप्रतिबोधदक्षे । कान्तेव पद्मसुहृदः शरदिन्दुबिम्बे प्रीतिः परा व्यरच लोचनयोजनानाम् ॥१२४॥ योगिनीजनितमायुपप्लवं येन शान्तिकरसंस्तवादिह । वर्षणादिव तपर्तुतप्तयो नीरवाहनिवहेन जघ्निरे॥१२५॥ बाल्येऽपि रश्मीन्सरसीजवन्धुरिवावधानानि वहन्सहस्रम्। अष्टोत्तरं वर्तुलिकानिनादशत स्म वेवेक्ति धियां निधिर्यः।१२६ अलम्भि याम्यां दिशि येन काली सरस्वतीदं बिरुदं बुधेभ्यः। रवेरुदीच्यामिव तत्र तेजोऽतिरिच्यते यत्पुनरत्र चित्रम्,।१२७ परमपूज्यपादपद्मः श्रीदेवविमलगणिभिर्विरचितात् हीरसौभाग्यनामकाव्यात सकलसंमान्यमाहात्म्यचमत्कृतचेतसामुक्तसूरीणां बाल्येऽप्यलौकिककार्यकारित्वाद्युपलब्धिरित्यवसीयते, । 'श्रीसोममुन्दरमरिपट्टे एकपश्चाशत्तमः श्रीमुनिमुन्दरसूरिः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ प्रस्तावना। येनानेकपासादपद्मचक्रषट्कारकक्रियागुप्तकार्द्धभ्रमसर्वतोभद्रमुरजसिंहासनाशोकभेरीसमवसरणसरोवराऽष्टमहापातिहार्यादिनव्यत्रिशतीबन्धतर्कप्रयोगाद्यदनेकचित्राक्षरयक्षरपञ्चवर्गपरिहाराधनेकस्तवमयत्रिदशतरङ्गिणीविज्ञप्तिनामधेयाष्टोत्तरशतहस्तमितोलेखः श्रीगुरूणां प्रेषितः। चातुर्वैद्यवैशारद्यनिधिरुपदेशरत्नाकरप्रमुखग्रन्थकारकः । स्तम्भतीर्थे दफरषानेन वादिगोकुलसण्डइति भणितः दक्षिणस्यां कालीसरस्वतीति प्राप्तबिरुदः । अष्टवर्षगणनायकत्वानन्तरं वर्षत्रिकं युगप्रधानपदव्युदयीति जनरुक्तः । अष्टोत्तरशत १०८ वर्तुलिकानादोपलक्षकः बाल्येऽपि सहस्राभिधानधारकः । सन्तिकरमिति समहिमस्तवनकरणेन योगिनीकृतमायुपद्रवनिवारकः । चतुर्विशतिवार २४ विधिना मूरिमंत्राराधकः । तेष्वपि चतुर्दश १४ वारं यदुपदेशतः स्वस्वदेशेषु चम्पकराजदेयाधारादिराजभिरमारिः प्रवर्तिता । सीरोहीदिशि सहस्रमल्लराजेनाप्यमारिपरिवर्त्तने कृते सति येन तिड्डकोपद्रवो निवारितः। श्रीमुनिसुन्दरसूरेवि० षट्त्रिंशदधिके चतुर्दशशत १४३६ वर्षे जन्म । त्रिचत्वारिंशदधिके १४४३ व्रतं षट्षष्ट्यधिके १४४६ वाचकपदम् । अष्टसप्तत्यधिके १४७८ द्वात्रिंशत्सहस्र ३२०००टङ्कव्ययेन वृद्धनगरीय सं० देवराजेन मूरिपदं कारितं व्युत्तरपञ्चदशशत १५०३ वर्षे का० शु० प्रतिपत् दिने स्वर्गभार। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ प्रस्तावना । महामहिमपरमोदारचरितसहृदयसभासभाजनश्रीधर्मसागरोपाध्यायविरचिततपागच्छपट्टावलीनामग्रन्थाच्चेमे आचार्या विशदस्वभावा लोकोत्तरकार्यविधौ पटवोऽलौकिकज्ञानशालिनः सर्वजनताराध्यपादपद्मा आजन्मतः परोपकारपारावारदृश्वानः सूरिमन्त्रमन्त्रितात्मानो बभूवुरिति निश्चीयते,। __अतस्तत् प्रणीतगुर्वावलीनामकमनन्तपुण्यानुबन्धिनममुं ग्रन्थं सर्वेषां साधुश्रावकाणामत्यन्तोपकारकत्वेन मुद्रणयन्त्रोपर्यास्थापयामः सानुनयं प्रार्थयामश्चैतत्ग्रन्थमुद्रणसमये महतायासेन पुस्तकद्वयमेव संगृह्य शोधनार्थमत्यन्तं यत्नो विहितः परन्तु दृष्टिदोषवशात् स्यात् क्वचित् स्खलितं तत्प्रेक्षावद्भिः स्वयमाकलय्य परिशोधनीयमिति । श्रीयशोविजयजी जैनपाठशाला, बनारस। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता गुर्वावली। जयश्रियं रातु जिनेन्द्रचन्द्रमाः ___ स वईमानप्रभुरद्भुतां सताम् । निजाभिधानानुगुणास्तनोति यः स्तुतक्रमः प्रार्थितसौख्यसम्पदः ॥१॥ पदारविन्दं सकलेष्टसाधकं __ प्रणम्य तस्यैव जगत्प्रभोर्मुदा । तदीयसन्तानकियद्गुरुक्रम स्तवेन कुर्वे स्ववशाः शिवश्रियः॥२॥ शिवानि तस्यादिमशिष्यनायक__ स्तनोतु सङ्घाय स गौतमो गुरुः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता गणाधिपख्यातिधरोऽपि शङ्करो बभूव लोके पुरुषोत्तमश्च यः ॥ ३ ॥ जाते समं वीरजिनेन वादे विभावयामो जयमेव तस्य । अगोत्रजोऽप्येष यदस्य कोशं रत्नत्रयाद्यं खवशीचकार ॥ ४ ॥ क्षमाधरेन्द्रस्तनुतां स पञ्चमः श्रीमान् सुधर्मा २ गणभृत् सुखश्रियम् । विभाति गङ्गेव यदुत्थसन्ततिः पुरः पुरो विस्तृतिभाक्स्वपाविनी ॥ ५ ॥ शिष्योऽस्य जम्बू ३ र्ददतां शिवं सतामपश्चिमः केवलसम्पदः पतिः । न्ययुङ्क्त यः पुण्यवसूनि रक्षितुं प्रभुर्विवेकी परिमोषिणोऽप्यहो ॥ ६ ॥ आरक्षकोवीरविभोर्न जम्बूसमोऽभवत्पञ्चशतानि चौरान् । चक्रे समं यश्चरणे नियम्य १ विस्तर इति च पाठः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ गुर्वावली । शिवाध्वरक्षकरतान्मुमुक्षून ॥७॥ प्रावाजीयो भगवान् परिहृत्य द्रविणकोटिनवनवतिमा सञ्जनितजनकजननीजायाचौरादिसम्बोधः ॥८॥ प्रभुः सजीयात्प्रभवो ४ महामति जम्बूगुरोः कोशहरः सुचौरराट् । योरत्नकोटीः परिमुच्य गेहगा रत्नत्रयं मानसभूस्थमप्यलात ॥ ९ ॥ शय्यंभव ५स्तत्पदमण्डनः सतां तनोतु तातो मनकस्य सम्पदः । अजीगमद्यो जिनराजदर्शनं सुदर्शनं मुक्तिरमानिदर्शनम् ॥ १० ॥ सूरियशोभद्र ६ इति प्रसिद्धः शिष्यस्तदीयः स ददातु भद्रम् । गजाब्धिचन्द्र १४८ प्रमिते गुरुर्यो बभूव वर्षे जिनमोक्षकालात् ॥११॥ सम्भूतविजयनामा७ तस्य विनेयस्तनोतु शं प्रथमः। यत्पदपद्मोपान्ते प्रबजितः स्थूलभद्रगुरुः ॥ १२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता अपश्चिमः पूर्वभृतां द्वितीयः श्रीभद्रबाहुश्च ७ गुरुः शिवाय । कृलोपसर्गादिहरस्तवं यो ररक्ष सङ्घ धरणार्चितांहिः ॥ १२ ॥ नियूढसिद्धान्तपयोधिराप स्वर् यश्च वीरात् खनगेन्दुवर्षे १७० । तयोर्विनेयः कृतविश्वभद्रः श्रीस्थूलभद्रश्च ८ ददातु शर्म ॥ १४॥ स्त्रीसङ्गवह्नावपि यस्य शील द्रुमोऽभवत्पल्लवपेशलश्रीः। सूत्राच्च पूर्वाणि चतुर्दशापि बभार यो दर्शितलब्धिलालः ॥ १५ ॥ विशेषकम् । तिथिद्विसङ्खये २१५ त्रिदिवं गतस्य तस्याऽब्दके वीरजिनेन्द्रमुक्तः । महागिरि ९स्तत्प्रथमो विनेयः श्रियेऽभवद्यो जिनकल्पिकल्पः॥ १६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ गुर्वावली। जीयात्सुहस्ती ९ च गुरुद्धितीयो योऽबूबुधत्सम्प्रति भूविमुं तम् । अचीकरयो जिनसद्मरम्या पृथ्वीं त्रिखण्डाधिपतिः सुदाता ॥१७॥ सगुरुर्विधुनिधिपाणि प्रमिते २९१वीराद्गतोऽब्दके वर्गम् । सुस्थितसुप्रतिबुद्धौ कोटिककाकन्दिको शिष्यौ १० ॥१८॥ तस्याऽभूतां चोभौ कोटिकनामाऽभवच्च तद्गच्छः। कोटीशः श्रीवजं यावदभूत्सूरिमन्त्रो यत् ॥ १९॥ तत्रेन्द्रदिन्नसूरिः११श्रीदिन्न११२श्वाभवत्पदे तस्य । सिंहगिरि१३स्तस्यापि हि वज्रखामी१४च तच्छिष्यः२० या प्रज्ञा यञ्च सौभाग्यं यःप्रभावश्च या मतिः । श्रीमद्वज्रगुरावासंस्तानि नान्यत्र विष्टपे ॥२१॥ नभोगविद्याकृतसङ्घरक्षः सवज्रशाखाप्रमवस्य मूलम् । ददातु भद्रं दशपूर्व्यधीशो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ श्रीमुनिमुन्दरसूरिविरचिता बाल्येऽपि जातिस्मृतिमान् सुराय॑मा२२॥ स्वर्वेददन्तीषुमिते ५८४ सवर्षे यातो जिनात्प्रेष्य निजं विनेयम् । सोपारके श्रीमति वज्रसेनं तदा चतुर्बन्धुविबोधहेतोः ॥ २३ ॥ श्रीवज्रसेना१५च्च ततो बभूवुः कुलानि चत्वारि सुविस्तृतानि । नागेन्द्रचान्द्रे अथ नैर्वृतं च वैद्याधरं वादिजसूरिनाम्ना ॥ २४ ॥ विचित्रशाखा कुलगच्छमूलं नैके बभूवुर्गुरवश्व तेषु । प्रणम्य तांश्चान्द्रकुलेऽथ सुरीन् स्तवीमि कांश्चिक्रमतो गणेन्द्रान् ॥ २५ ॥ नख वर्षेऽथ६२.जिनादिवं स श्रीवज्रसेनोऽधिगतः श्रियेऽस्तु । श्रीचन्द्रसरि १६ श्व पदे तदीयेऽ भवद् गुरुचन्द्रकुलस्य मूलम् ॥२६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ गुर्वावली। एवं क्रमेण गुरुवः प्रोक्ताः क्वचन क्रमान्तरेणापि । भव्यानां भवभीति हरन्तु तन्वन्तु च श्रेयः ॥२७॥ अथो गुरुश्चन्द्रकुलेन्दुदेव__ कुलादिवासोदितनिर्ममत्वः । सामन्तभद्रः१७ श्रुतदिष्टशुद्ध तपस्क्रियः पूर्वगतश्रुतोऽभूत् ॥ २८ ॥ वृद्धस्ततोऽभूत्किल देवसूरिः १८ शरच्छते विक्रमतः सपादे १२५ । कोरण्टके यो विधिना प्रतिष्ठां शङ्कोळधान्नाहडमन्त्रिचैत्ये ॥ २९ ॥ प्रद्योतनः सूरि१९ रभूत्पदेऽस्य ततोऽपि चासीद् गुरुमानदेवः २० । यस्यांसयोर्गी:कमले समीक्ष्य साक्षात्प्रतिष्ठासमये पदस्य ॥ ३०॥ भ्रंशोऽस्य भावीति विचारणातो विखिन्नचित्तं गुरुमाकलय्य । तत्याज यो भक्तकुलाप्तभिक्षा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता माजीवितान्तं विकृतीश्च सर्वाः ॥ ३१ ॥ युग्मम्। पद्मां जयां च विजयामपराजितांच साक्षाघदेहिसमुपास्ति परां निरीक्ष्य । नारीवृतोऽयमिति निर्मितदुर्विकल्पं ___ कञ्चिन्नरं लघुविमुग्धमशिक्षयस्ताः ॥३२॥ वर्षासु नड्डुलपुरस्थितोऽपि शाकम्भरीनाम्नि पुरे प्रभूताम् । तदागतश्राद्धगणार्थनातः __ शान्तिस्तवान्मारिमपाहरद्यः ॥ ३३ ॥ यः संयमाढ्यमुनिपञ्चशतीगणेन्द्रः सर्वातिशायिमहिमागुणरत्नवार्डिः। निन्ये जिनेश्वरमतं परमां प्रतिष्ठां श्लाघ्यःस कस्य नगुरुः खलु मानदेवः२०॥३४॥ आसीत्ततो दैवतसिद्धिऋद्धः श्रीमानतुङ्गोऽथ गुरुः२१ प्रसिद्धः । भक्तामराद्वाणमयूरविद्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ गुर्वावली । चमत्कृतं भूपमबोधयद्यः ॥ ३५ ॥ भयहरतः फणिराजं यश्वाकार्षीद्वशम्वदं भगवान्। भक्तिभरेत्यादिनमस्कारस्तवदृब्धबहुसिद्धिः ॥३६ ।। जज्ञे चैत्ये प्रतिष्ठाकृन्नेमे गपुरे नृपात् । त्रिभिर्वर्षशतैः३०० किञ्चिदधिकैर्वीरसूरिराट् २२ ॥३७॥ क्रमाबभूवुर्जयदेव २३ देवा नन्दौ २४ गुरू विक्रमसूरिराट् २५ च । नरादिसिंहश्च गुरुर्नरादिसिंहे पुरे बोधितहिंस्रयक्षः ॥ ३८ ॥ खोमाणभूभृत्कुलजस्ततोऽभूत समुद्रसूरिः २७ स्ववशं गुरुर्यः । चकार नागहूदपार्श्वतीर्थ विद्याम्बुधिर्दिग्वसनान् विजित्य॥३९॥ अभूद् गुरुः श्रीहरिभद्रमित्रं श्रीमानदेवः पुनरेव सूरिः २८ । यो मान्द्यतो विस्मृतसूरिमन्त्रं लेभेऽम्बिकास्यात्तपसोज्जयन्ते ॥ ४० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता जज्ञे श्रीविबुधप्रभो गुरु २९ रदः पट्टे च विद्यानिधि - विश्वानन्दकरोगुणैरथ जयानन्द ३० स्ततः सूरिराट् ॥ नड्डूलाह्वपुरे प्रतिष्ठितवरश्रीनोमचैत्यस्ततो ऽप्यासीद्वर्षशतैरविप्रभगुरुः ३१श्रीविक्रमात्सप्त भिः ७०० ॥ ४१ ॥ अजनिरजनिजानिर्नागरब्राह्मणानां विपुलकुलपयोधौ श्रीयशोदेवसूरिः ३२ । प्रवरचरणचारी भारतीकण्ठनिष्का भरणविरुदधारी शासनद्योतकारी ॥ ४२ ॥ प्रद्युम्नसूरिश्च ततो बभूव प्रद्युम्नदर्पानलवारिवाहः । प्रणीतस द्युक्त्युपधानवाच्य ग्रन्थश्च तस्मादपि मानदेवः ॥ ४३ ॥ ( केचिदिदं सूरिद्वयमिह न वदन्ति । ) ततः प्रसिद्धोऽजनि चित्रकूटे सहेमसिद्धिर्विमलेन्दुसूरिः ३३ । अपूजयद्यं विषमेऽपि वादे Shree Sudharmaswami Gyanbhandar-Umara, Surat • www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ गुर्वावली। सद्योजिते गोपगिरेनरेन्द्रः॥ ४४ ॥ तत्पट्टभूषाकृदभून्मुनीनां त्रिभिः शतैः सेव्यपदः सदाऽपि । उद्योतनः सूरि ३४ रवद्यहीन विद्यानदीविश्रमासन्धुनाथः ॥ ४५ ॥ समस्त्यथो शैलकुलावचूलः श्रीअर्बुदस्तीर्थपवित्रितात्मा । नानापुरग्रामतटाकवापी धुनीवनभ्राजिततुङ्गमौलिः ॥ ४६ ॥ कथं भवेन्नो हिमधामभूभृत__ स्तनूभुवः क्षोणिधरेषु राजता । नीचैटुंठद्भिः किल यस्य सर्वतः पादा निषेव्या विविधैः क्षमाधरैः॥ १७ ॥ यन्मूर्ध्नि गोपीगणकेलिगीत__ श्रीमयुगादीशगुणामृतानाम् । ग्रहाः प्रयान्तश्विरपानलोलाः सर्वेऽपि वाञ्छन्ति शनैश्चरत्वम् ॥४८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरमरिविरचिता यदुच्चशृङ्गेषु मृगैश्वरद्धि मिलन्विधोरङ्कमृगः प्रयातः। हयैर्हयाश्चार्करथस्य युक्ताः स्वजातिजातिथ्यसुखं लभन्ते ॥ १९ ॥ यदुच्चमौलिस्थितकाननेषु तमीषु सर्वासु विभान्ति वृक्षाः। शाखागणान्तर्गततारकौधा इवाऽखिलगतपुष्पगुच्छाः ॥ ५॥ विभाति नानाविधनन्दनाश्रितो यो भद्रशालावलिभिस्तथाचितः। परिस्फुरनिष्पमपाण्डुकम्बली बिभ्रत्सुमरोरतिशायिनीं श्रियम् ॥५१॥ मन्मौलिमौलिः प्रमुरादिमोऽर्हता चकास्ति नागेन्द्रमुखैः प्रतिष्ठितः। उच्चैः पदं यान्ति निनसयाऽपि मे पराङ्मुखायाध इतीव दर्शयन् ॥ ५२ ॥ चतुर्नवत्याऽम्यधिकैः शरच्छतैः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ गुर्वावली। श्रीविक्रमार्कान्नवभिः स सूरिराट् । पूर्वावनीतो विहरन्नथागमद् यात्राकृते तस्य गिरेरुपत्यकाम् ॥ ५३ ॥ टेलीखेटकसीमसंस्थितवटस्याधः पृथोस्तत्र सः प्राप्तः श्रेष्ठतम मुहूर्त्तमतुलं ज्ञाला तदाऽतिष्ठिपत् । सूरीन सौचकुलोदयाय भगवानष्टौ जगुस्त्वेककं केचिद्वृद्धगणोऽभवद्वटगणाभिख्यस्तदादि९९४त्वयम्॥ न्यग्रोधगच्छेऽथ बभूव तस्मिन् श्रीसर्वदेवः ३५प्रथमो मुनीन्द्रः। श्रीसूरिमन्त्रातिशयर्डिधारी विश्वोपकारी गणिसंपदाख्यः ॥ ५५ ॥ चरित्रशुहिं विधिवजिनागमा द्विधाय भव्यानभितः प्रबोधयन् । चकार जैनेश्वरशासनोन्नति यः शिष्यलब्ध्याऽभिनवो ऽनुगौतमः॥५६॥ नृपादशाग्रे शरदां सहस्रे १०१० यो रामसैन्याह्नपुरे चकार। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ श्रीमुनिमुन्दरसूरिविरचिता नाभेयचैत्येऽष्टमतीर्थराज बिम्बप्रतिष्ठां विधिवत्सदWः ॥ ५७ ॥ चन्द्रावतीभूपतिनेत्रकल्पं श्रीकुङ्कुणं मन्त्रिणमुच्चऋद्धिम् । निर्मापितोत्तुङ्गविशालचैत्यं योऽदीक्षयत् शुद्धगिरा प्रबोध्य ॥१८॥ एकोनविंशः प्रभुवईमानात् श्रीचन्द्रसूरिः १९र्गणनायकोऽभूत् । बभूव तस्मादनु चैकविंशः सूरीश्वरोऽयं किल सर्वदेवः४०॥५९॥ श्रीप्रद्युम्नसूरि सदुपधानग्रन्थकारकश्रीमानदेवसूरी केचित्र वदन्ति तन्मते एकोनविंशः प्रभु एकोनविंशश्च ततोऽपि जज्ञे । सूरीश्वरोऽयं किल सर्वदेवः ३८ इति पाठः। श्रीसम्भूतविजयसूरि श्रीभद्रबाहुसूरि १ श्रीआर्यमहागिरिसूरि श्रीमुहस्तिसूरि २ श्रीमुस्थितसूरि श्रीमुप्रतिबदसरि ३ रूपयुगलत्रये एकैकस्यैव सन्तानप्रवर्चकपट्टभृतः मरेर्गणने Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ गुर्वावली। श्रीवर्धमानादिह षोडशोऽभूत् श्रीचन्द्रसूरिः खलु गच्छनेता । एकोनविंशश्च ततोऽपि जज्ञे सूरीश्वरोयं किल सर्वदेवः ३५ ॥ इति पाठः ३ । अत्रैव श्रीप्रद्युम्नसूरिसदुपधानग्रंथकर्तृ श्रीमानदेवसरिमणने च श्रीवईमानादिह षोडशोऽभूत् श्रीचन्द्रसूरिः १६ किल गच्छनेता । बभूव तस्मादनुचैकविंशः सूरीश्वरोऽयं किल सर्वदेवः ३७ ॥ ५९ ॥ __ इति वा पाठः ४॥ अयं चात्र गण्यते, विशेषं तु विशेषज्ञा विदन्ति । गच्छश्च तस्य बहुसूरिमुनीश्वरायै राढ्यव्रतो भुवि दधौ क्रमतः प्रसिद्धिम्। विज्ञैर्वृहद्गण इति स्तुतिमाप्यमानः सर्वैर्वृहत्तरतया चरितैर्गुणैश्च ॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ १६ श्रीमुनिसुन्दरसूरिविरचिता शिष्यस्तत्र बभूव सद्गुणानिधिः श्रीसर्वदेवप्रभोः' सूरिश्रीरिति भूपदत्तविरुदः श्रीदेवसूरिः३८प्रभुः । जज्ञेऽस्मान्महिमोदधिः पुनरपि श्रीसर्वदेवो३९गुरुस्तस्मादिग्दिरदोपमाः समभवन्नष्टौ च सूरीश्वराः६१॥ आयो यशोभद्रगुरुर्वितन्द्रः४० सूरिद्धितीयः किल नेमिचन्द्रः४०। ताभ्यामभूत् श्रीमुनिचन्द्रसूरिः ४१ वशेमुषीतर्जितनाकिसूरिः ॥ ६२ ॥ उक्तं च “गुरुबन्धुविनयचन्द्राध्यापक __ शिष्यं सनेमिचन्द्रगुरुः। यं गणनाथमकार्षीत् स जयति मुनिचन्द्रसूरिगुरु रिति ॥३॥ यशोभद्रं च संप्राप्तो यशोभद्रगणाधिपः । चिन्तामणिमिव प्राप्य यं शिष्यं भुवनोत्तमम्॥६॥ श्रीविनयचन्द्रवाचकविन्ध्यगिरेस्ते जयन्तु किल पादाः। भरगजकलमलीलां श्रीमुनिचन्द्रो दनौ येषु ॥६५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ गुर्वावली। सौवीरपायीति तदेकवारि पानाद्विधिज्ञो विरुदं बभार। जिनागमाम्भोनिधिधौतबुधि__ यः शुद्धचारित्रिषु लब्धरेखः ॥६६॥ संविनमौलिर्विकृतीः समस्ता___ स्तत्याज देहेऽप्यममः सदा यः। विद्वहिनेयालिवृतप्रभावः प्रभागुणौघैः किल गौतमाभः ॥ ६७ ॥ हरिभद्रसूरिरचिताः श्रीमदनेकान्तजयपताकाद्याः। ग्रन्थनगा विबुधानामप्यधुना दुर्गमा येऽत्र ॥ ६८ ॥ सत्पञ्जिकादिपद्या विरचनया भगवता कृता येन। मन्दधियामपि सुगमास्ते सर्वे विश्वहितबुद्ध्या ॥६९॥ षट्तर्कीपरितर्ककेलिरसिको यः शैववादीश्वर प्रज्ञाऽधःकृतवाक्पतिं नृपसभे जित्वोगहेत्वाशुगैः । प्रत्यक्षं विदुषां चकार विजयश्रीभाजनं शासनं वन्द्योऽसौ मुनिचन्द्रसूरिसुगुरुः केषां न मेधाजुषाम्।७. आनन्दसूरिप्रमुखा मुनाश्वराः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरमरिविरचिता श्लाघ्या न केषामिह तस्य बन्धवः। ये दीक्षिताः श्रीमुनिचन्द्रसूरिणा प्रतिष्ठिताः सूरिपदे च शिक्षिताः॥७१ ॥ अष्टहयेशमिते ११७८ ऽब्दे विक्रमकालादिवंगतो भगवान्। श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि सङ्घाय ॥ ७२ ॥ तस्मादभूदजितदेवगुरु ४२ गरीयान् प्राच्यस्तपःश्रुतनिधिर्जलधिर्गुणानाम् । श्रीदेवसूरिरपरश्च जगत् प्रसिद्धो वादीश्वरोऽस्तगुणचन्द्रमदोऽपि बाल्ये॥७३॥ येनार्दितश्चतुरशीतिसुवादिलीला लब्धोल्लसज्जयरमामदकेलिशाली । वादाहवे कुमुदचन्द्रदिगम्बरेन्द्रः श्रीसिद्धभूमिपतिसंसदि पत्तनेऽस्मिन्॥७॥ स्याहादरत्नाकरतर्कवेधा मुदे स केषां नहि देवसूरिः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ गुर्वावली । यतश्चतुर्विशतिसूरिशाखं __ यस्यैव नाम्ना विदितं बभूव ॥ ७५ ॥ वेदमुनीशमितेऽब्दे ११७४ देवगुरुर्जगदनुत्तरोभ्युदितः। श्रीमुनिचन्द्रगुरोरिति ___ शिष्या बहवोऽभवन् विदिताः॥७६ ॥ तेष्वादिमाद्विजयसिंहगुरु ४३ भासे विद्यातपोभिरभितः प्रथमोऽथ तस्मात । सोमप्रभो ४४ मुनिपतिर्विदितः शतार्थीत्यासीद्गुणीव मणिरत्नगुरुर्द्वितीयः॥७॥ प्रज्ञापराभूतसुपर्वसूरिःश्रीसर्वदेवात्स किलाष्टमोऽभूत् । मुदं भदन्ता ददतां तदेवं वृहद्गणस्य प्रभवः क्रमेण॥८॥ इति श्रुतः सच्चरणश्रियः पदं न दीनताभाक् पुरुषोत्तमालयः । अमेयभावद्गुणरत्नसङ्गतो वृहद्गणो वारिधिवबभूव सः ॥ ७९॥ अभूचदुल्लासनलालसोदयो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता विनेयवृत्तिर्मणिरत्नसद्गुरोः। गवां विलासैरमृतं निदर्शयन् श्रीमान् जगच्चन्द्रगणेन्द्रचन्द्रमाः ॥८॥ स सौम्यमूर्तिः सकलागमानां सूत्रेष्वधीती परिनिश्चितार्थः । संविनमौलिर्दधतेस्म सूरे र्गुणान् समग्रान् गणिसम्पदश्च ॥८१॥ अथ कलिघनदुर्दिनावतारे प्रसरदसज्जडसंचये समन्तात् । प्रतिहतजिनराजभानुतेजो महिमभरेऽनवबोध्य मुक्तिमार्गः ॥ ८२॥ निजगणसरणौ प्रसादपङ्के चरणरथं प्रविलोक्य गाढममम् । गुरुरयमसमस्तमुहिधीर्घवृषभ इवाऽपरमीक्षते सहायम् ॥ ८३ ॥ युग्मम् । अथ चैत्रपुरे वीरप्रतिष्ठाकुडनेश्वरः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ गुर्वावली। चन्द्रगच्छेऽभवत्सूरिस्तस्माच्चैत्रगणोऽभवत् ॥ ८४ ॥ कालाढुवनचन्द्राह्वस्तत्र जज्ञे गुरुर्गुणी । शुद्धसंयमधीस्तस्मादेवभद्रश्च वाचकः ॥ ८५ ॥ सम्वेगरङ्गाम्बुधिधौतबुद्धिं ___जिनागमात्क्लप्तचरित्रशुद्धिम् । विधीयमानार्हतधर्मवृद्धि शुद्धैर्गुणैः प्राप्तजगत्प्रसिद्धिम् ॥ ८६ ॥ अधीतिनं सारजिनागमानां सूत्रेषु चार्थेषु च वेदिनं च । आम्नातिनं साधुविशुद्धसामा चार्या प्रवृत्तं च यथावदस्याम् ॥ ७ ॥ श्रीदेवभद्राभिधवाचकेन्द्र तं श्रीजगच्चन्द्रगुरुः प्रबुद्धः । अथोपसम्पद्विधिना प्रपद्य स तद्वितीयो धुरमस्य दः ॥ ८८ ॥ विशेषकम् । समुद्धृतः सोथ वृषोत्तमाम्यां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसरिविरचिता ताभ्यामभूत्सर्वधुरीणकाभ्याम् । स्वारूढनिस्सङ्ख्यमुमुक्षुमोक्ष पुरेन्दिराप्रापणशक्तिशाली ॥ ८९ ॥ एवं रामगुणः स लक्ष्मणनतः शुद्धक्रियां स्वप्रियां प्रौढोद्यत्कलिना ऽरिणाशवनभुवः किञ्चित्प्रमादाद् हृताम् तीर्खा मोहमहाम्बुधिं रिपुमिमं जिलाऽधिलकं श्रयमानिन्ये स्वगणालये किल जगच्चन्द्रो गणेन्द्रस्तदा।।९।। कलौ युगान्तोपमितेऽवतीर्णे प्रमादपङ्काकुलमोहवाः । तथार्हतं शासनमुद्दधार स भूतलं त्वादिमहावराहः ॥ ९१॥ गुरुर्ममलं न कदापि भेजे ग्रामे कुले वा नगरे चदेशे। शरीरशय्योपधिषु प्रमाद स दूरयन् गां विजहार चाथ ॥ ९२ ॥ तुलारोहेत्र बोभोति नीचलं भास्वतोऽपि हि। . इतीव जगति त्रैघे स तुलातिक्रमं व्यधात ॥१३॥ * पोऽवनभुष इति वोदयम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ गुर्वावली। २३ समानपदयोगेऽपि तत्प्रभा नापुरन्यके । मेषयाने समानेऽपि भावानुच्चोऽमितोऽन्यथा ॥९॥ यावज्जीवितमाचामाम्लतपोभिग्रही व्यधात्तानि। द्वादशवर्षाण्यङ्गेऽप्यममोऽसौ श्लाघ्यधार्भगवान्।९५। तदादिबाणद्विपभानुवर्षे १२८५ श्रीविक्रमात्प्राप तदीयगच्छः । वृहद्गणाहोऽपि तपेतिनाम श्रीवस्तुपालादिभिरय॑मानः ॥ ९६ ॥ वीराच्छरेष्वश्वधरामितेऽब्दे १७५५ श्रीचन्द्रगच्छस्य ततो बभूव । तादृक्तपस्कर्मत एव तस्य गुरोस्तपानाम जगत्प्रसिद्धम् ॥ ९७ ।। श्रीचन्द्रगच्छोऽथ वृहद्गणश्च __ तपागणश्चेत्यधुना स वाच्यः। चान्द्रं कुलं कोटिकनाम्नि गच्छे वाज्री च शाखेति पुरा प्रसिद्धिः ॥९॥ गणं प्रमादो न न जाड्यमेषणा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ २४ श्रीमुनिसुन्दरमरिविरचिता दोषा न तस्मिन् गणनायकेऽवति । न वादिनो वा तमिहोपदुद्रुवुः सुरक्षक क्षेत्रभिवाण्डजव्रजाः । ९९ । कलिहिषा भग्नपदस्थितिस्त्रसन् परासुतासन्नदशोऽपि तं गणम् । दुर्ग नु लब्धा ऽस्य विभोः समाश्रया चरित्रधर्मः पुनरुजिजीव सः ॥ १० ॥ श्रीदेवेन्द्रमुनीन्द्रो गच्छे विजयेन्दुनामकश्चापि। श्रीदेवभद्रवाचकमुख्या भूषाकृतस्तस्य ॥१॥ चारित्रोद्धरणसखे ऽभ्यधिकं श्रीदेवभद्रगणिराजे । बहुमानं वहमानो गुरुवद्गणनां चकारैषः ॥ २ ॥ देवभद्रगणीन्द्रोऽपि संविमः सपरिच्छदः । गणेन्द्रं श्रीजगच्चन्द्रमेव भेजे गुरुं मुदा ॥ ३॥ जात्यज्ञानतपस्तेजा हीरवत्सगुरुष्वऽभात् । तेन हीरजगञ्चन्द्रसूरिरित्यभवत् श्रुतः ॥४॥ ॥विशेषश्चैवं श्रूयते॥ देव्या गिरो भक्नगं स्वधियाऽधिगम्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ गुर्वावली। सारस्वतं किमपि यन्त्रमगम्यमन्यैः । तस्याः प्रसादवशतो नृपतेः सभाया माघाटनामनि पुरे चतुरङ्गवादे ॥ ५॥ द्वात्रिंशतं विकटदिक्पटवादिराजान् ___ द्राग् सार्ववैद्यविदुरानजयत् कमात्सः । भग्नो न हीर इव कैश्चिदिति प्रसिद्ध ___ भूपात्तदाऽऽप विरुदं किल हीरलेति ॥६॥ ॥ युग्मम् ॥ तेन स्वस्य पदे न्यस्तौ देवेन्द्रविजयेन्द्रको । सूरीन्द्रौ शासने भातौ जबूद्वीपे रवी इव ॥ ७ ॥ शिष्येऽन्यदा सार्वधुरीणवृत्तौ ____ देवेन्द्रसूरौ सगणस्यभारम् ॥ विन्यस्य विश्वस्य हराविवेन्द्रः स्वःशर्म भेजेऽथ शिवाय वोऽस्तु ॥ ८ अथो जगञ्चन्द्रमुनीन्द्रपट्टभृत् श्रीमान् स देवेन्द्रगुरुः ४६शमाम्बुधिः । नाम्ना गुणैरप्यभवद्गुरोःसमो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ २६ श्रीमुनिसुन्दरसूरिविरचिता महाप्रभाभूः शिवभूतिदायकः ॥ ९ ॥ स दिद्युते बालसुधाकरप्रभः प्रभुर्भवाधःकृतिकर्मनिर्मितौ । सदर्चनीयो विबुधालितुष्टिकृन्निरञ्जनैकोदितपुण्यसत्कलः ॥ १० ॥ समग्रविद्यातपसां प्रणेतृताप्रणीतसन्मानसविस्मयाऽद्वयः । स जग्रसेऽन्याखिलसूरिमण्डली - महांसि माद्यन्महिमैककान्तिभिः ॥ ११ ॥ सोऽभूद्गुरुः कोऽपि नवः कविस्तुतो मित्रारमाध्यस्थधरो बुधप्रियः । तत्वोक्तिभिर्नास्तिकदर्शनं क्षिपन् शिवङ्करो मार्गयुतोऽपि देहिनाम् ॥१२॥ किं सर्वागमदुग्धवारिधिभवाः स्फारा लहर्यो ह्यमूः किं मोहाहिविषोर्मिमूच्छितजगज्जीवातवोग्याः सुधाः । किं वा शासनसौधभासनचणा दीप्राः प्रदीपश्रियो भावध्वान्तभिदः सतामिति मतिं तेनुस्तदीया गिरः। १३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ गुर्वावली । श्रीस्तम्भतीर्थकुमरप्रासादे सर्ववेदनिर्णेतुः । २७ व्याख्याने ऽस्याऽष्टादश शतानि मुखपोतिका आसन् ॥ १४ ॥ वाचकपदं द्विधापि च दधति सुघोषाढ्यहेमकलशगणैौ । सभ्येषु वस्तुपालादिषु नौवित्तद्विजादिषु च ॥१५॥ षट्दर्शनिसाधारणबोधकृतस्तस्य सद्गुरोर्वाचः सौभाग्यमहिमभारं तदाऽभजन् कंचनाऽमेयम्॥१६॥॥ सारवृत्तिदशाः कर्मग्रन्थदीपास्तमोहराः । तस्य प्रवचनावासे भान्ति प्रेष्ठार्थदर्शकाः ॥ १७॥ नानास्तवनप्रकरणरत्नानि समुद्धृतानि समयाब्धेः पुरुषोत्तमेन तेनाऽलङ्कृतये शासनस्यासन् ॥ १८ ॥ पञ्चाशिकासिद्धविचारवाच्या भाष्याणि वृत्तं च सुदर्शनायाः । उपासकानां दिनकृत्यसूत्र वृत्तीच टीकाऽपि च धर्मरत्ने ॥ १९ ॥ देवेन्द्राङ्का श्राद्धयामोद्यभि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ २८ श्रीमुनिसुन्दरसूरिविरचिता ग्रन्थाद्याऽन्याप्यस्त्यनेकाऽ स्य सृष्टिः । एवं नानाग्रन्थसोपानपङ्क्तया स्वारोहं तन्मुक्तिसौधं व्यधात्सः ॥ २० ॥ । युग्मम् । योऽभूत्तदीयोऽथ लघुः सतीर्थ्य स्तदाग्रहादाप्तपदप्रतिष्ठः। सूरिः सुविद्वान् विजयेन्दुनामा प्रावर्त्तयत्सोऽथ पृथक् स्वशाखाम् ॥२१॥ इति चेह तत्सम्बन्धः श्रूयते तथाहिपुरा विजयचन्द्रोऽभूद्वस्तुपालस्य मन्त्रिणः । सचिवो लेख्यके दये क्षिप्तः कारागृहेऽन्यदा॥२२॥ देवभद्रगणीनां स द्विधा शिक्षाकृतेर्पितः। नाम्ना विजयचन्द्रोऽभूत् प्राक् तदाप्याप्तशास्त्रवित्,२३ श्रीजगच्चन्द्रगच्छशैः शिष्यवात्सल्यशालिभिः । न्यस्तः सूरिपदे देवभद्रगण्युपरोधतः ॥२४॥ साहाय्यायापि देवेन्द्रः सूरीन्द्राणां गणावने । अहंयुत्वानिषिद्धोऽपि वस्तुपालेन मन्त्रिणा॥२५॥ * देवभद्रगणीन्द्रः स बोधितो मन्त्रिराजतः ॥ विमोच्य श्रीजगच्चन्द्रसूरिपार्थेऽग्रहीद्ववामित्यपि पाठः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ गुर्वावली। श्रीजगञ्चन्द्रसूरीन्द्रे स्वर्गतेऽसावनेहसम् । कियन्तं विनयी जज्ञे श्रीदेवेन्द्रगणेश्वरे ॥२६॥ विहरत्यन्यदा तस्मिन् गणेन्द्रे मालवे चिरम् । तस्थौ श्रीस्तम्भतीर्थे ऽसौ पूजितः पूर्वसंस्तुतैः॥२७॥ चैत्यादिद्रव्यसंस्कारदूषिता वृहतीति या। प्रसिद्धा तत्र शालाऽ भूद् वृद्धगच्छगुरुस्थितेः॥२८॥ पार्श्वस्थाऽवस्थता भुक्ता त्यक्ता शुद्धक्रियादृतौ । श्रीजगच्चन्द्रसूरीन्द्रैर्देवेन्द्रगुरुणाऽपि सा ॥२९॥ तस्यां लोकानुरोधेन नित्यवासप्रमादभाक् । आत्मसात्कृतलोकोऽसौ तस्थौ द्वादशवत्सरीम्॥३०॥ सामाचारी स दुष्पालां किंचिच्छिथिलयन्नपि । गच्छमावर्जयामासानुकूलाचरणादिभिः ॥३१॥ गुर्वादेशं विना दीक्षादीनि कार्याणि चाऽसृजन् । आगतेऽथ गणाधीशे विनयं नाकरोत्तथा॥३२॥ नोदितो नित्यवासेऽपि निर्ममेत्यादि सोऽपठत् । आचारभ्रंशभीरुस्तत् श्रीदेवेन्द्रगणाधिपः ॥३३॥ संविग्नपरिकराढ्यो बोधानह प्रमादिनं ज्ञात्वा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ ३. श्रीमुनिसुन्दरसूरिविरचिता पुस्तकशालादियुतं तं मुक्त्वा ऽस्थात्पृथग्वसतौ॥३४॥ । युग्मम् । देवेन्द्रसूरिसुगुरोः ख्याताः शिष्यास्तु वृद्धशाखायाः। संविमत्वाच्च गुरुर्विज्ञैरर्च्यः स एवासीत् ॥३५॥ विजयेन्दुविनेयाश्च ख्याता मुग्धेषु वृद्धशालायाः। विज्ञाः पुनर्जगुस्तान् लघुगुरुशालाभवान् युक्तम्३६ संग्रामसौवर्णिकपूर्वजस्तदा पार्थक्यमालोक्य गुरुद्वयस्य तत्। श्रयामि के नन्विति संशयाकुलः सदैवतं बिम्बमुपास्थिताऽर्हतः ॥ ३७ ॥ देवेन्द्रसूरिभरतोत्तमोगुरु टुंगोत्तमाभो भविता महान्वयः । तमेव सेवस्व यदीहसे शिवं __तमादिदेशेति च देवता निशि ॥ ३८ ॥ दत्तशुद्धवसतिस्ततोऽभज तं गुरुं स बहुनैगमान्वितः। दापितस्वजनसंयमो मुदे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ गुर्वावली। तीभ्यभीमप्रमुखाः परेऽपि च ॥ ३९ ॥ श्रीदेवेन्द्रमुनीन्द्रोर्विद्यानन्दादयोऽभवन् शिष्याः । लघुशाखायां तु गुरोविजयेन्दोश्च त्रयःपट्टे ॥४०॥ श्रीवज्रसेनसूरिः पद्मेन्दुः क्षेमकीर्तिसूरिश्च ।। रदविश्वमिते१३३२ वर्षे विक्रमतःकल्पटीकाकृत् ॥४१॥ अथहेमकलशसूरिस्तत्पदमौलिगुरुयशोभद्रः। रत्नाकरस्ततोऽपि च शिष्यो रत्नप्रभश्चाऽस्य ॥४२॥ मुनिशेखरस्तदीयः शिष्यः श्रीधर्मदेवसूरिरपि । श्रीज्ञानचन्द्रसूरिः सूरिःश्रीअभयसिंहश्च ॥४३॥ अथहेमचन्द्रसूरिर्जयतिलकाः सूरयस्ततो विदिताः। जिनतिलकसूरयोऽपि च सूरिमाणिक्यनामा च ४४ कालानुभाववशतःशाखापार्थक्यचेतसाह्यधुना। सर्वे ते गुणवन्तो ददतां भद्राणि मुनिपतयः॥४५॥ अथ वृद्धगुरोः शाखा प्रस्तुता स्तूयतेऽग्रतः । विनयातिक्रमो नास्ति यस्यां काले कलावपि ॥४६॥ देवेन्द्रसूरिः सगुरुर्गुणोत्तरो बभूव संवेगरमानिकेतनम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता समुद्धरन् धीरतयोग्रदुःषमा पङ्कौघसंपाति जिनेन्द्रशासनम्॥४७॥ विश्वैकस्पृहणीयरूपसुभगां त्रैलोक्यकुक्षिम्भार तत्कीतिं सुविधाय शेषदलकैश्चक्रे विधातोज्वलान्। कैलासं भुजगेश्वरं हरमिभं वाहं च नाकिप्रभोः क्षीराम्भोनिधिमिन्दुकुन्दकुमुदप्रालेयशङ्खादिकान।४८॥ किं त्रातुं समवातरत्सुगतवद् वीक्ष्यादित शासनं स्वं सर्पत्कलिनागतोऽपि हि शिवं श्रीमान् सुधर्मा भुवि किं वाऽयं गुरुगौतमः किमथवा श्रीवीरनेता स्वयं तस्मिन्नित्यभवन् युगोत्तमगुणाधारे विकल्पाःसताम्४९ निश्शेषस्वपरागमार्थनिलयः षट्तय॑भिज्ञाग्रणीः कोशः सद्गणिसंपदा त्रिजगतः सारिवात्तैः कृतः। भारत्याश्च रणश्रियश्च भरतोत्कृष्टः पतिःसोऽभवन्नान्यस्त्वाहतशासनोपनिषदस्तस्योपमानं गुरोः॥५०॥ प्रायेण वंशाः पृथवोऽपि मूलतः परे तनुत्वं दधते पुरः पुरः अमुष्य वंशस्तु दधौ विशालतां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ गुर्वावली। मूले तनीयानपि चाग्रतोऽग्रतः ॥ ५१ ॥ तथाहि । अथागमत्सूरिरयं विदूरयंस्तमस्ततिं मालवमण्डलावनौ । तत्रोज्जयिन्यां जिनचन्द्रसंज्ञयाभवन्महेभ्यो जिनसाधुभक्तिभृत् ॥ ५२ ॥ अस्ति वीरधवलाढयस्य स ___ स्वाङ्गजस्य करपीडनोत्सवम्। कारयन्नसमरूपया समं यावदिभ्यगजपालकन्यया ॥५३॥ तावदेव स गुरोः समागमं संनिशम्य नतये ऽगमत्सुतः । संनिपीय च सुदेशनासुधां मोहतापविलयात्प्रबुद्धवान् ॥ ५४॥ भीतोभवात्तस्य गुरोः पदान्ते समानयित्वा पितरौ प्रवीणः। ततः प्रवव्राज विहाय जम्बू Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ ॥ श्रीमुनिमुन्दरमरिविरचिता रिव स्वबन्धून् रमणी वृतां च ॥१५॥ विद्यानन्दाभिधः पाणिखविश्वान्दे१३०२स दीक्षितः। क्रमाद्विद्याम्बुधिर्जज्ञे गणिसंपत्पदं मुनिः ॥ ५६ ॥ भीमसिंहोऽनुजोप्यस्य गुरुणा तेन बोधितः। दीक्षितो धर्मकीाह्वो मुनिरासीद्गुणोदधिः ॥५॥ धरासारतरे तुङ्गचङ्गचैत्यालिशालिनि । प्रह्लादनपुरेऽथागात्स गुरुर्विहरन क्रमाव॥५०॥ श्रीकरीयुतसुखासनयानाः कुर्वते चतुरशीतिमितेभ्याः। तत्र तद्गणपतेरुपदेशाद्धर्मकर्म विविधं जनताश्च॥५९॥ प्रह्लादनविहारे तु सौवर्णकापिशीर्षके । तदा मूढकमानाश्चाक्षताःप्रत्यहमागमन्॥६०॥ प्रतिगोणि तु देवस्य दायं पूगीफलं जनाः। ददतो ददिरे प्रायो मणान्यहनि षोडश॥६॥ भोगं पाञ्चशतीसंख्यवीसलप्रियिकं तथा । प्रत्यहं ससृजुः श्राद्धाः पूजामित्यपरामपि ॥ ६२॥ अथान्यदा प्रौढविचित्रपुण्य प्रवीणसप्रथितार्थनाभिः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #44 -------------------------------------------------------------------------- ________________ रावली। गणाधिनेताऽभिमतं स विद्यानन्दं मुनीन्द्रं गुणलक्ष्मिपात्रम् ॥ ६३ ॥ श्राधैर्महेन्द्ररिव निर्मितोत्सवैः प्रमोदि विश्वं स्वपदे न्यवीविशत् । प्रह्लादनोर्वीपतिचैत्यमण्डपे त्रिदन्तभूमीमितवत्सरे१३२३नृपात् ॥६॥ केचित् १३०४ पाहुः तया च घेदाऽभ्रवह्निलितिवत्सरे १३०४ नृपादिति पाठः विशेषनिर्णयं तु विशेषज्ञा विदन्ति । गुरोविनेयस्य च तैर्गुणैस्तदा ___ सुरैः प्रहृष्टैमहिमा व्यधीयत् । यतकुङ्कुमाम्भः स ववर्ष मण्डप स्तदाचिलीनं वसनेषु कोविदः ॥ ६५ ॥ अम्बा पात्रावतीर्णावक् महिमानं सुरैः कृतम्। तजनेभ्यस्तदा प्रीता गुणैस्तद्गुरुशिष्ययोः ॥६६॥ विन्यस्य तं शासनभासनेन्दु मिव प्रबोधाय गतः स मास्वान् । . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसरिविरचिता क्षेत्रान्तरं स्वर्गमिषाच्छिवं च संघस्य देवेन्द्रगुरुस्तनोतु ॥६॥ तादृग् गुणस्य स गुरोः खर्गतिमवगत्य सत्यभत्त्याऽस्मिन् । सङ्घाधिपभीमोऽन्नं वर्षाणि द्वादशात्याक्षीत् ॥ ६८ ॥ तत्पट्टे ऽथो स प्रसिद्धप्रभावः श्रीमान् विद्यानन्दसूरिः४७श्रिये स्तात् । नव्योद्भिन्नं यं द्विषं वीक्ष्य मोह श्छन्नश्छन्नः क्वापि भीतश्वचार ॥ ६९ ॥ विद्यानार्यो हृदयभवने ऽस्यास्तसंख्याः समन्तादालिङ्ग्यताः कथमपि गुणास्तद्वराश्वाप्यवास्सुः । तत्सम्भूतास्त्वतिबहुतया सद्यशोऽपत्यसङ्घास्वैधेऽप्यस्मिन् जगति न ममुः स्थानयोगाद्विवृद्धिः।०॥ विद्यानन्दाभिधं तेन कृतं व्याकरणं नवम्। . भाति सर्वोत्तमं स्वल्पसूत्रं बहुर्थसंग्रहम् ॥७१॥ वेलेवोल्लासिनी तगीविद्यापारसागरे। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ गुर्वावली । ३७ चिक्षेप प्रोन्मदान् दूरं वादिनः कर्करानिव ॥ ७२॥ शिष्योऽथ देवेन्द्रगुरोर्द्वितीयकः श्रीधर्मघोषः ४७ सुकृताब्धिपोषकः शोषं नयन्नन्ययशः सरखती योगान् बभौ पल्लवयन् वसन्तवत् ॥ ७३ ॥ दैवात्रयोदशदिनान्तरतोगते खः शैलद्विविश्वशरदि १३२७ स्वगुरुद्वयेऽपि ॥ यो वाचकोऽधिगतसूरिपदः स्वगोत्रि. सूरेर्जघान किल मत्सरिणाङ्कदाशाः ॥७४॥ स च श्रीधर्मकीत्र्त्याह्नः श्रीविद्यानन्दबान्धवः । जित्वा मत्सरिणः शक्त्या भविश्वाब्देऽ १३२८ भवद्गणी ॥ ७५ ॥ तपस्क्रियोत्कर्षितसद्गुणश्रिया प्रकृष्टसौभाग्यरमानिकेतनम् । समृद्धयोऽष्टावपि तं युगोत्तमं समंश्रिता निर्मित कार्मणा इव ॥ ७६ ॥ * षण्मास्या स्वगुरुस्वर्गादिति वा पाठः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ श्रीमुनिमुन्दरमरिविरचिता अथान्यदा मालवमण्डलाक्ने विभूषणे मण्डपदुर्गनामनि। पुरे स पृथ्वीघरसाधुमार्हतं प्राबूबुधर्ममुदारधीगुरुः ॥ ७ ॥ त्रिकालवेत्ता भगवान् स पञ्चम व्रतेऽपि लक्षा द्रविणस्य मुत्कलाः। अनाढ्यमप्येतमचीकरत्प्रभुः प्रपन्नसम्यक्त्वचतुस्त्रिकव्रतम् ॥ ८ ॥ स च क्रमान्मालवमण्डलेशितुः प्रजाभिरर्थ्य सचिवत्वमाश्रितः । बभूव ऋद्या धनदोपमो हि किं न ज्ञानिनां भाग्यवताश गोचरे MOR मुवंस चैत्यैर्हदयानि सद्गुणै मनीषिणां व्याप च कीर्तिभिर्दिशः। घनैश्च कोशान् प्रशशास प्रभू मपि क्षमाया विदितोरुषड्गुणः ॥८॥ सषट्सहस्याधिकजीर्णटङ्का Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ गुर्वावली । युतत्रयस्थाथ मुदा व्ययेन । श्रीधर्मघोषे वगुरौ समेते ऽन्यदा प्रवेशोत्सवमाततान ॥ ८१॥ प्रसेदुषाऽसौ गुरुणाऽर्पितक्रमः __ क्रमाऽवबुद्धद्रविणव्ययास्पदः । मचीकरच्चैत्यचतुष्टयाधिका शीतिं स्फुरच्छारदवारिदभ्रमाम् ॥ ८२ ॥ अनुत्तरैस्तैः किल चिन्तनातिगै रुदारधीरेश्चरितैरसस्मरत् । चिरायतीतं हरिषणचकिणं ससम्प्रति चापि कुमारभूपतिम ३॥ मौक्तिकश्रीसमायुक्तजिननायकमण्डिताः। हारा इव विहारास्ते भान्ति भूभामिनी हदि८॥ कोटाकोटिरिति प्रसिद्धमहिमा शान्तेश्च शत्रुञ्जये श्रीपृथ्वीधरसंज्ञया सुरगिरौ श्रीमण्डपाद्रौ लथा । प्रासादा बहवः परेऽपि नगरप्रामादिषु प्रोन्नता भ्राजन्ते भुवि तस्य मुक्तिवलभीनिःश्रेणिदण्डा इवा८५। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #49 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता ___ अत्र श्रीपृथ्वीधरसाधुकारितमासादस्थानसंख्यामा नायकजिननामादि वाच्यम्। पूज्यगुरुश्रीसोमतिलकररिपादै. कृतं स्तोत्रमवतार्य पठनीयम् ॥ । तच्चेदम् । श्रीपृथ्वीधरसाधुना सुविधिना दीनादिषद्दानिना भक्तश्रीजयसिंहभूमिपतिना खौचित्यसत्यापिना । अर्हद्भक्तिपुषा गुरुक्रमजुषा मिथ्यामनीषामुषा सच्छीलादिपवित्रितात्मजनुषा प्रायःप्रणश्यद्रुषा।८ नैकाः पौषधशालिकाः सुविपुला निर्मापयित्रा सता मन्त्रस्तोत्रविदीर्णलिङ्गविवृतश्रीपार्श्वपूजायुजा। विद्युन्मालिसुपर्वनिर्मितलसद्देवाधिदेवाह्वय ख्यातज्ञाततनूरुहप्रतिकृतिस्फूर्जत्सपर्यासृजा ॥८॥ त्रिकाले जिनराजपूजनविधि नित्यं द्विरावश्यकं साधौ धार्मिकमात्रकेऽपि महती भक्तिं विरक्तिं भवे। तन्वानेन सुपर्वपौषधवता साधर्मिकाणां सदा वैयावृत्यविधायिना विदधता वात्सल्यमुच्चैर्मुदा॥८॥ श्रीमत्संप्रतिपार्थिवस्य चरितं श्रीमत्कुमारक्षमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #50 -------------------------------------------------------------------------- ________________ गुर्वावली। १ पालस्याप्यथ वस्तुपालसचिवाधीशस्य पुण्याम्बुधेः। स्मारं स्मारमुदारसंमदसुधासिन्धूर्मिषून्मज्जता श्रेयःकाननसेचनस्फुरदुरुप्रावृट् भवाम्भोमुचा॥८९॥ सम्यङ्न्यायसमर्जितोजितधनैः सुस्थानसंस्थापितैयेये यत्र गिरौ तथा पुरवरे ग्रामेऽथवा यत्र ये। प्रासादानयनप्रसादजनका निर्मापिताः शर्मदास्तेषु श्रीजिननायकानभिधया सार्द्ध स्तुवे श्रद्धया९.। पञ्चभिः कुलकम् । श्रीमविक्रमतस्त्रयोदशशतेष्वब्देष्वतीतेष्वथो विंशत्याभ्यधिकेषु मण्डपगिरौ शत्रुञ्जयभ्रातरि । श्रीमानादिजिनःशिवाङ्गजजिनः श्रीउज्जयन्तायिते निम्बस्थूरनगेऽरथ तत्तलभुवि श्रीपार्श्वनाथः३श्रिये९१ जीयादुज्जयिनीपुरे फणिशिराः श्रीविक्रमाख्ये पुरे श्रीमान्नेमिजिनो जिनौ मुकुटिकापुर्या च पार्थादिमौल मल्लिः शल्यहरोस्तु विन्धनपुरे ८ पार्श्वस्तथाऽशापुरे ९ नाभेयोवतघोषकीपुरवरे१०शान्तिर्जिनोऽर्यापुरे१११९२ श्रीधारानगरेऽथ वर्द्धनपुरेऽश्रीनेमिनाथः पृथक्१२,१३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #51 -------------------------------------------------------------------------- ________________ श्रीमुनि सुन्दरसूरिविरचिता श्रीनाभेयजिनोऽथ चन्द्रकपुरीस्थाने १४स जीरापुरे १५ । श्रीपार्श्वो जलपद्र १६ दाहडपुरस्थानद्वये १७ संपदम् देयाद्वीरजिनश्च हंसलपुरे १८ मान्धातृमूलेऽजितः १९५९३ आदीशो धनमातृकाभिधपुरे २० श्रीमङ्गलाख्ये पुरे २१ तुर्यस्तीर्थकरोऽथ चिक्खलपुरे श्रीपार्श्वनाथः श्रिये २२ । श्रीवीरो जयसिंहसंज्ञितपुरे २३ नेमिस्तु सिंहानके २४ श्रीवामेयजिनः सलक्षणपुरे २५ पार्श्वस्तथैन्द्रीपुरे २६।९४। शान्त्यै शान्तिजिनोस्तु ताहृणपुरे २७रो हस्तनाद्येपुरे २८ श्रीपार्श्वः करहेटके२९ नलपुरे३ • दुर्गों च नेमीश्वरः ३१ | श्रीवीरोऽथ विहारके३२स च पुनः श्रीलम्बकर्णीपुरे ३३ खण्डोहे किल कुन्थुनाथ ३४ऋषभःश्रीचित्रकूटाचले ३५ ॥ ९५ ॥ ४२ आद्यः पर्णविहारनामनि पुरे ३६ पार्श्वश्च चन्द्रानके ३७ बङ्कयामादिजिनो३८थ नीलकपुरे जीयात् द्वितीयो जिनः ३९ । आयो नागपुरे ४०ऽथ मध्यकपुरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #52 -------------------------------------------------------------------------- ________________ गुर्वावली । श्रीअश्वसेनात्मजः ४१ श्रीदर्भावतिकापुरेऽष्टमजिनो ४२ नागहदे श्रीनमिः ४३६॥ श्रीमल्लिर्धवलक्छनामनगरे ४४ श्रीजीर्णदुर्गान्तरे ४५ श्रीसामेश्वरपचनेच फणभृल्लक्ष्मा४६जिनो नन्दतादा विशःशङ्खपुरे जिनः४७ स चरमः सौवर्चके ४८वामनस्थल्यांनेमिजिनः४९शशिप्रभजिनो नासिक्यनाम्न्यां पुरि ५० ॥ ९७ ॥ श्रीसोपारपुरेऽ५१थरूणनगरे__ऽ५२थो रुङ्गलेऽ५३थ प्रतिठाने पार्श्वजिनः५४शिवात्मजजिनः श्रीसेतुबन्धे ५५ श्रिये । श्रीवीरो वटपद्र ५६ नागलपुरे ५७ टक्वारिकायां ५८ तथा श्रीजालन्धर५९देवपालपुरयोः६. श्रीदेवपूर्वे मिसै ६१ ॥९॥ चारूप्ये मृगलाञ्छनोजिनपतिरमिश्रिये द्रोणते३३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #53 -------------------------------------------------------------------------- ________________ ४ श्रीमुनिमुन्दरसूरिविरचिता नेमीरत्नपुरे ६४ जितोर्बुक पुरे६५ मल्लिश्च कोरण्टक/ पार्थो ढोरसमद्रनीवृति ६७ सरस्वत्याह्वये पत्तने कोटाकोटिजिनेन्द्रमण्डपयुतः६८ शान्तिश्च शत्रुञ्जये ६९ ॥ ९९ ॥ श्रीतारापुर ७७ वर्द्धमानपुरयोः ७१ श्रीनाभिभूसुव्रतौ नाभेयोवटपद्र ७२ गोगपुरयो७३श्चन्द्रप्रभः पिच्छने७४। भोङ्कारेऽद्भुततोरणं७५जिनगृहं मान्धातरि त्रिक्षणं ७६ नेमिर्विकननाम्नि ७७ चेलकपुरे श्रीनाभिभू७८. भूतये १५ ॥ १० ॥ इत्थं पृथ्वीधरेण प्रतिगिरिनगरग्रामसीमं जिनानामुच्चैश्चैत्येषु विष्वग् हिमागिरिशिखरैः स्पर्द्धमानेषु यानि।। बिम्बानि स्थापितानि क्षितियुवतिशिरःशेखराण्येष वन्दे तान्यप्यन्यानि यानि त्रिदशनरवरैः कारिताऽकारि तानि १६ ॥१॥ इति पृथ्वीघरसाधुकारितचैत्यस्तोत्रं १६ काव्यम् ॥ पूज्यश्रीसोमतिलकसरिकृतम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #54 -------------------------------------------------------------------------- ________________ गुर्वावली। नमोगङ्गा रङ्गद्ध्वजसितपतत्रालिकलितां सवच्चन्द्राश्माद्भिः स्फटिककलशेन्दुं च विशदः । शिरःकोटौ बिभ्रन्मरकतमणीनीलितगलः श्रयेत्तस्य ज्योत्स्ना हरविलसितं चैत्यनिकरः॥२॥ किं वर्ण्यतेऽसौ मुहुरेकविंशते___ळयाद्धटीनां कनकस्य यो मुदा । अचीकर?ममयादिमप्रभोः शत्रुञ्जये सद्म सुमेरुशृङ्गवत् ॥ ३ ॥ उदारमाख्यां त्वऽथवा ऽमितंपचं __ तदङ्गजं झण्झणदेवमुत्तमाः। शत्रुञ्जये रैवतकेऽप्यहो ददौ सुवर्णरूप्यध्वजमेकमेव यः ॥ ४॥ केचिदाहुः सुवर्णस्य सषट्पञ्चाशतं घटीः । व्ययिला लीलयाऽपीन्द्रमालां परिदधौ मुदा ॥५॥ दिशांये कूर्मवराहशेषाः पृथ्वीं दधाना बहुकष्टभाजः। वस्याश्चतुझं दिशि धारकंतं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #55 -------------------------------------------------------------------------- ________________ श्रीमुनिमुन्दरमारविरचिता पृथ्वीधर प्राप्य मुदं दधुस्ते ॥६॥ कैवल्यदानप्रतिभूजिनोक्त समप्रशास्त्रावलिलेखनेन। भबीभरत्सप्त स सारकोशान् सरस्वतीकेलिगृहानिवोच्चैः॥॥ श्रीस्तम्भतीर्थे निवसन् प्रभावको वेषं स भीमः प्रजिघाय सङ्घराट् । पृथ्वीधरस्याप्युचितं समर्चयन् शीलप्रपत्तौ निखिलान् सधर्मकान् ॥८॥ युतः सुपत्न्या प्रथमिन्यभिख्यया तथैव सार्मिकतां विभावयन् । द्वात्रिंशवर्षोऽपि भटोजितस्मरः प्रपद्य शीलं तमथो सपर्यघात् ॥९॥ प्रियापि साऽस्य प्रथमिन्यभिख्या ख्याता सतीषु प्रथमाचरेखा । कदापि या क्वापि न पुण्यकृत्यैः रहीयताऽस्मागुरुदेवभक्ता ॥१." Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #56 -------------------------------------------------------------------------- ________________ शाली। नित्यं त्रिजिनपूजनं गुरुनतिः सामिकाभ्यर्चनं दीनायुद्धरणं सुशास्त्रपठनं पर्वखथो पौषधः । कृत्यानीति गुरूपदेशवशगः स हिः प्रतिक्रान्तिकृत् भूपालार्पितमालवावनमहाचिन्तोप्यहो निर्ममे ॥११॥ अनुत्तरोदारसमग्रसद्गुणः स षड्विधावश्यकतत्परः सदा । नृरत्नमर्हद्गुरुभक्तिमाग्मत प्रभावकोऽलङ्करणं भुवोऽभवन् ॥ १२ ॥ प्रबोधकोऽथास्य गुरुः सचाऽन्यदा दुष्टाङ्गनाभिटकान् सकार्मणान् । विहारितान् साधुजनैरतत्यजन् प्रगे शिलाखण्डमयाश्च तेऽभवन् ॥ १३॥ ततोऽभिमन्न्यापितपट्टकासना___ स्ताः स्तम्भयित्वा दययाऽमुचनताः। तथैव विद्यापुरकेशगुल्मकृत् स्त्रियोऽथ संघार्थनया मुमोच सः ॥१४॥ क्वचित पुरे द्वानिधि शाकिनीभिया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #57 -------------------------------------------------------------------------- ________________ ४८ श्रीमुनिसुन्दरसूरिविरा चेता ऽभिमन्त्र्य दीयेत ततोऽस्मृतेऽन्यदा । गुरुस्तदुत्पाटितपट्टिवीक्षणे संस्तभ्य वाचा वशिता मुमोच ताः ॥१५॥ श्रीशारदालब्धवरोनिशैकया ऽष्टभिः स कृत्वा यमकैरलङ्कृताः । स्तुतीर्जिनानां ज्ञमदज्वरौषधी रबूबुधद्गुर्जरराजमन्त्रिणम् ॥ १६ ॥ सोमेशपत्तनगतः स्मरणानुभावात्सोऽध्यक्षतागमितजीर्णकपर्द्दिराजम् । मिथ्यात्वलो भवगमी चिरमेष माभू खं प्रबोध्य विदधे श्रितजैनबिम्बम् ॥ १७ ॥ शिष्यार्थनाविहितमन्त्रनुतिप्रभावा द्रत्नाकरोप्यकृत मण्युपदां तरङ्गैः । स्थानेऽस्य तत्तदतिथेः पुरुषोत्तमस्य गम्भीरताभिभवनाल्लुठतः पदाग्रे ॥ १८ ॥ । अथच । बल्गद्वेतालमालाविदलनकुशलः सिद्धझोटीङ्गवृन्द www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #58 -------------------------------------------------------------------------- ________________ गुर्वावली। स्तन्त्रैर्मन्त्रैरमात्रैः समजनि विकटैश्चेटकैश्चोत्कटो यः। आकर्षोच्चाटवश्यादिभिरपिस तदा शक्तिभिः कोपि योगी, कंप्रीकुर्यात्रिलोकी गिरिमपि चलयेच्छोषयेद्वारिधिं वा ॥ १९ ॥ निषिद्धसाधुस्थितिकोज्जयिन्यां ___ श्वमूषकौत्वादिविकुर्वणाद्यैः । तं भापयन्तं स्वमुनीन् निबध्य __प्रपीड्य मन्त्रैरमुचत् स नम्रम् ॥ २० ॥ ॥ युग्मम् । संक्षेपोऽयम् । व्यासावदातस्त्वेवम् ॥ बल्गद्वेतालमालाविदलनकुशलः सिद्धझोण्टीङ्गवृन्दस्तन्त्रैर्मन्त्रैरमात्रैः समजनि विकटैश्चेटकैश्चोत्कटोऽथ। योगीकोप्युञ्जयिन्यांनृपसचिवमुखैःपूजितः सर्वलोकैनाशिष्यैः परीतोदधदणिमवशित्वे शताद्याश्च शक्तीः ॥ २१ ॥ वर्णादि शिरसा भिनद्मि निखिलानाकर्षयामि ग्रहान् फूत्कृत्यादिवमुत्क्षिपामि च गिरीन् संशोषयाण्यम्बुधीन् त्रैलोक्यं स्ववशीकरोमि विदधे स्वर्भूर्भुवाव्यत्ययं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #59 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता ५० देवेन्द्रैःसह लोठयामि पदयोर्ब्रह्मेशनारायणान् ॥२२॥ भोभोदर्शाननः समस्तिपटुता कस्यापि चेत्तन्मया सार्द्धं वादरणं करोत्वाभिमतं कृत्वा पणं सोऽधुना । नोचेत्यक्तमदा मर्दायमखिलाः सेवध्वमंह्रिद्वयं दूरं यात पलाय्य वाऽपि सकलान्नोचेद्विलाम्येष वः२३ इति प्रतिज्ञां प्रवदन्मदात्तदा जगत्त्रयेऽप्यप्रतिमल्लतां विदन् ॥ वित्रासितान्याखिलदर्शनिव्रजो नैवाज्जयिन्यां स ससाह संयतान् ॥२४॥ श्रीधर्मघोषः प्रभुरन्यदाऽगमत् स तत्र धात्र्यां विहरन्महर्षियुक् । अमुष्य शिष्याश्च स वीक्ष्य वर्त्मनि क्रुधाकुधीर्दष्टरदच्छदोऽवदत् ॥ २५ ॥ इहागताः किं नु पुरे सिताम्बरा विहाय मूढा विपुलं धरातलम् । मुमूर्षुगोधानुनिषादपाटकं न बीक्षित श्वेतदहं श्रुतोऽपि न ॥ २६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #60 -------------------------------------------------------------------------- ________________ गुर्वावली। पलाय्य तद्गच्छत मर्षयाम्यहं सरङ्ककाणामपराधमेककम् । भ्रूक्षेपमात्रादपि कम्पितामरो ऽन्यथा पतङ्गिष्यथ मे रुषानले ।। २७ ॥ जगुर्मुनीन्द्राः प्रभवन्ति दुर्मते सर्वज्ञपुत्रेषु न ते विभीषिकाः । मृगेषु सिंहस्य यथा हि विक्रमः स्फुरत्तथा नो शरभाकेष्वपि ॥ २८ ॥ न योगिराजन्यकुदर्शनिवजैः ___ समानतां बिभ्रति सूनवोऽर्हतः। करैरपि ध्वान्तरिपोर्विलुप्यते न लारकाणामुदितैः किमु प्रभा ॥ २९॥ प्रभुः किमयापि न नः श्रुतोजयी ___ गुरुभवहर्पतमोदिवाकरः । यमेव विद्या निखिलाः समं श्रिताः __ सरित्पतिं सिन्धुगणा इवाधुना ॥ ३० ॥ गतं गजेन्द्रस्य यथा न जम्बुकै Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #61 -------------------------------------------------------------------------- ________________ श्रीमुनिमुन्दरसूरिविरचिता नवा मृगैः शौर्यविज्रिम्भितं हरेः। नभःप्लुतिं नो मशकैर्गरुत्मतो ___ वेर्न खद्योतकरैर्दितां भरम् ॥ ३१ ॥ नगैर्न गाङ्गेयगिरेर्यथोच्चतां ___ जलाशयों जलधेरगाधताम् । द्रुमैः प्रभावं न च कल्पशाखिनो न दुर्गतैः श्रीस्फुरितं च चक्रिणः ॥३२॥ यथा न भूतैर्ललितं सुरेशितु. न लीर्थिकस्तीर्थकृतोऽर्थदेशनाम् । समग्रविद्याविदुरैर्न नो गुरो स्तथाऽनुकर्तुं चरितं प्रगल्भ्यते ॥ ३३ ॥ ततो मुधा गर्जसि गर्वपर्वतो । मन्यामहे त्वां न तृणाय दुर्मते । अस्मद्गुरोर्मन्त्रसमीरणोद्धुतो न तूलकल्पः स्थिरतां प्रधास्यसि ॥३४॥ मृगस्य सिंहस्तमसश्च भानुमा नसिम्रणालस्य तृणस्य चा ऽनलः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #62 -------------------------------------------------------------------------- ________________ गुर्वावली । अहेर्गरुत्मानिव लीलयाऽप्यलं तवापहर्तुं मदजीवितं गुरुः ३५ ॥ निशम्य योगीति रुषा स लब्धा जान्वायतस्थूलरदास्यभीष्मम् । विधाय रूपं विकृतं जिघत्सु रिवाभ्यधावच्चलयन् भुवं तान् ||३६|| मुमुक्षवस्तद्रदपातसूचिनीं कफोणिमुद्भूर्य पलाय्य च द्रुतम् । ५३ सकम्पगात्रास्तरलेक्षणा भया गुरुं वसत्यां शरणं प्रपेदिरे ॥ ३७ ॥ मा भैष्ट मा भैष्ट कुतो नु वो भयं मयि प्रभौ त्रातरि हे विनेयकाः । इतीरिता श्रीगुरुणाथ संभ्रमा दाश्वस्य वृत्तं मुनयोऽपि तज्जगुः ॥ ३८ ॥ यावत्तदाकर्ण्य करोति रोषतो भ्रुवं ललाटप्रणयोद्धुतां गुरुः । तावत्प्रदोषे विचकार दूरगो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #63 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता प्यहो सयोगीह विभीषिका इमाः ॥३९॥ तथाहि । स्फारैः स्फूत्कारवारै भरितसुरपथा भूमिपीठे समन्ताहीष्मा भोगीन्द्रभाराः फणमणिकिरणैर्योतिताशाः प्रसनुः। शालान्तः पुस्तकाद्यो पकरणवलकस्तम्भमुख्याऽखिलार्थान् खादन्तो वज्रतुण्डा भयदपृथुवपुर्मूषकाश्चोपरिष्टात् ॥ ४० ॥ फेत्कारान् स्फोरयन्तो बहिरथ वसतेश्वण्डफेरण्डसङ्घा बल्गन्मार्जारवाराः पृथुरदवदनामण्डलाचाप्यसङ्ख्या। दृष्ट्वा तान् भीभरेणो तरलितनयनाः कम्प्रगात्रा न नष्टुं स्थातुं वा शिक्नुवन्तो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #64 -------------------------------------------------------------------------- ________________ गुर्वावली। निजगुरुमवदन् पाहिपाहीति शिष्याः॥४१॥ त्रातायं वोस्मि विश्व प्रकटमहिमभृड्रैष्ट मा भैष्ट मा भो आश्वास्यैवं विनेयान् गुरुरपि विगतक्षोभशङ्कः सदापि । यावझ्यानावलम्बी जपति ___ जयकरं सिद्धमन्त्रं स तावत् सर्पाद्याः क्वापि जग्मुः __प्रमुदितमनसः साधवश्चाप्यभूवन् ॥४२॥ योगी सोप्युग्रबन्धै रविषयिविषयां म्रियेरे म्रियेरे शिष्या बद्धाखिलाङ्गः कुरुतकुरुत भोः कांश्वनाऽऽशूपचारान् । आस्तावद् यत्नसिद्धा अपिहि विफलतां भेजिरे चेटकाद्याः सर्वे मन्त्राश्च दैवं धिगहह किमभूडीरियं मे धुनाऽधैः ॥ ४३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #65 -------------------------------------------------------------------------- ________________ ___ श्रीमुनिसुन्दरसूरिविरचिता कन्दन्नित्युग्रकष्टः सकलपुरजनैदृश्यमानो विमानो धावद्भिर्व्याकुलैः स्वैनिखिलपरिजनैश्चापि हाहारवाढ्यैः । आकृष्टो जैनमन्त्रैः __ स्मृतिमपि गमितैश्चेटकाद्यैरशक्यस्त्रातुं व्योम्ना समागा द्गुरुपदकमलोपान्तमानम्रमौलिः ॥ ४४ ॥ उवाच योगी भगवन् दयानिधे ऽपराधमेकं मम मर्षयाधुना । विमुञ्च मामेष पतामि पादयो नवो विरुद्धं विदधे ह्यऽतः परम् ॥४५॥ जगुर्जनाश्चापि न धर्तुमर्हसि प्रभो प्रकोपं प्रणते दयास्पदे । व्यधादथ खक्रमरेणुना गुरुः शमी खभावस्थमिमं लसद्दयः ॥ ४६ ॥ वं शङ्करः सर्वजनेष्टकर्ता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #66 -------------------------------------------------------------------------- ________________ ५७ गुवावली । ब्रह्मा त्वमेवाखिलब्रह्मनिष्ठः । त्वमेव सत्यं पुरुषोत्तमोऽसि त्वमेव बुद्धः सकलार्थवेदिन् ॥ ४७ ॥ अबुद्धतत्वस्य मुधाऽभिमानिनो __ ममासि बुद्धः सुचिराज्जगद्गुरुः । त्वदीयपादाऽब्जरजोऽणुनाऽपि चे तुलां लभे तर्हि भजे कृतार्थताम् ॥४८॥ समग्रविद्याविभवात्मकस्य ते पुरोऽणवत्येष सुसिद्धिभागपि । बिभर्ति यस्माल्लघिमानमुच्चकैः पुरः सुमेरोर्निखिलोऽपि भूधरः॥४९॥ इति खनिन्दामुखरः सविस्मयः सुभक्तिभाक् सर्वजनस्य पश्यतः। स्तुवन्मुदाऽऽनम्य गुरुं सहानुगै___ जगाम विद्वान् स्वपदं स योगिराट् ॥५०॥ अहो जयत्याऽऽर्हतशासनं प्रभु गुरुः स यस्येदृशशक्तिमानयम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #67 -------------------------------------------------------------------------- ________________ ५८ श्रीमुनिमुन्दरमरिविरचिता इति स्तुवन्तो ऽपि जना यथागतं गता व्यहार्षीद् गुरुरप्यथाऽन्यतः ॥५१॥ दष्टोऽन्यदाऽथ स गुरुः फणिना विषेण ___ मूर्छन्नुपायविधुरं निशि सङ्घमूचे । प्रातः समेष्यति लता विषहृत् प्रतोल्यां ___घुमौलिकाष्ठभरबन्धनकृहिशुद्धा॥५२॥ देयास्त दंशवदने मम तां प्रघृष्ये येवं च तेन विहिते पटिमानमाप्तः । संत्यक्तसर्वविकृतिर्भगवांस्तदादि चक्रे जिनप्रवचनोन्नतिमुग्रतेजाः॥५३॥ तत्कीर्त्या धवलाद्वयेऽपि भुवने त्रैधे कृते शङ्करे दुर्लक्षे विहिते हिमाद्रितनयाचेतस्तदाऽतूतुषत् । नोगाङ्गं सलिलं विधुर्न न वृषो नैवापि चक्षुःश्रवः खामी किन्तु गरोविनीलितगलाङ्काविर्भवहर्तृक:५४॥ चित्राणि सिद्धान्तपथानुगानि __ स्तोत्राणि सङ्घाचरणं च शास्त्रम् । इत्याद्यनाकृतिरस्य कस्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #68 -------------------------------------------------------------------------- ________________ गुर्वावली | ज्ञानज्वरच्छेदमहौषधी न ॥ ५५ ॥ यः स्वर्गमापत्तुरगेषुविश्व मिते १३५७ ब्दके विक्रमतः क्षितीन्द्रात् । श्रीधर्मघोषः कृतपुण्यपोषः स रातु सङ्घाय विभुः सुखानि ॥ ५६ ॥ तदीयपट्टाम्बरभासनोद्यतः सोमप्रभः सूरिवरो ४८ बभूव सः । यो दीयमानां गुरुणाऽपि न ग्रहीचारित्रशु किल मन्त्रपुस्तिकाम्॥ ५७॥ ये मोदन्ते कृपणमतयः क्लेशभाजो धनाढ्यैः शास्त्रैर्वादिद्विपमदहरैश्वाप्यधीतैः कियद्भिः । प्राप्ताभिर्वा लघिमवशिताकर्षमुख्यर्द्धिमिर्ये सर्बे साम्यामृतरसभुजस्ते ऽनुकम्प्या हि तस्य ॥ ५८ ॥ भास्वान् सच्चरणश्रिया विशदया विश्वोत्तरप्रोल्लसच्चातुर्वैद्यरमाविलासनिलयः श्रीचित्रकूटाचले । कृत्वाऽऽशु द्विजराजमण्डलमसौ छन्नप्रभं गोभरैः सर्पदर्पमजीजनज्जिनमतानन्तप्रकाशोदयम् ॥५९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #69 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरमूरिविरचिता तथाहि । शर्वशैलशिखरोपरिस्फुर चन्द्रमौलिमुकुटेन्दुरश्मिाभिः । पूरिते सरसि मानसेऽभितः ___ कैरवाणि विकसन्ति वासरे ॥ ६ ॥ विना विचारस्खलनेन शीघ्र मेतत्समस्यापदपूरणेन । साहित्यवादे विजितद्विजौघः श्रीचित्रकूटे शमबोधयत्सः ॥ ६१ ॥ सर्वाङ्गपाठी निखिलागमार्थान् विनापि वृत्त्यादि हि सो ऽययादत् । केऽप्यन्यके नैपुणधारिणो ऽपि विद्यासु सर्वास्वपि नाततादत् ॥ ६२॥ श्रुतातिशायी पुरि भीमपल्ल्यां वर्षासु चाद्येऽपि हि कार्तिकेऽसौ । अगात् प्रतिक्रम्य विबुध भावि भङ्गं परैकादशसूर्यबुद्धम् ॥६३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #70 -------------------------------------------------------------------------- ________________ गुर्वावली । भक्तेष्वपि श्रावकपुङ्गवेषु ___ ममत्वमुत्केवलसंयमार्थी। शुद्धाम्ब्वलाभाम्बुविराधनाभ्यां सोऽमूमुचत स्वैर्मरुकुङ्कुणेर्याम्॥६४ ॥ यतिजीतकल्पयत्रा खिलादिजैनेन्द्रसंस्तुतिप्रमुखा । विपुलमतेस्तस्य कृति हरते हृदयानि विबुधानाम् ॥ ६५ ॥ दिगविश्ववर्षे १३१० जननं कुपाणि विश्वं १३२१व्रतं प्राप्य रदत्रिचन्द्रे १३३२। पदप्रतिष्ठां च गुरुजंगाम त्रिसप्तविश्वे १३७३ च स देवधाम ॥६॥ ददात्वसौ मञ्जुलमङ्गलाली जगत्पवित्रीकरणाभिधानः । श्रुतासु यद्धर्म्यकथाखपीह भवेत्सतां साम्यरसानुभूतिः ॥ ६७ ॥ चत्वारस्तस्य गुरोः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #71 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता शिष्याः ख्यातेः पदं च सकलदिक्षु । आसन् जिनपतिशासन सौधोद्धाराय तु स्तम्भाः ॥ ६८ ॥ श्रीमानिहायो विमलप्रभो ऽभवत् प्रबोधलब्ध्योद्धृतवान् दयाम्बुधिः । खदेशनावाणिगुणान् वितत्य यो मिथ्यात्वकूपादृहिणां शतत्रयम् ॥६९॥ श्रीमत्परमानन्दः परमानन्दप्रदः खमूर्त्यापि । गुरुरद्वितीयभाग्यो जज्ञे शिष्यो द्वितीयस्तु ॥७॥ आसीत्सुविहितमुकुटः स्फुटसंयमशुद्धिरिद्वगुणजलधिः । श्रीपद्मतिलकसूरि स्तार्तीयीकस्तु तच्छिष्यः ॥ ७१ ॥ श्रीसोमतिलकनामा ४९ सूरिर्विश्वोत्तमश्च तुर्योऽभूत् । महिमाम्बुधौ यदीये लीनास्त्रिजगन्मनोमीनाः ॥७२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #72 -------------------------------------------------------------------------- ________________ गुर्वावली | स बाणबाणत्रिकुवर्ष १३५५ माघे जातः पदाभ्यामनुकूलखेटैः । नन्दाङ्गविश्वे १३६९ व्रतमाप्य भेजे वन्ह्यश्वविश्वे१३७३ऽपि पदप्रतिष्ठाम् ॥७३॥ सूरीन्द्रसोमप्रभपट्टभास्करो बालोप्यसौ प्राप्तपदप्रभोदयः । ६३ क्षमाभृतां मौलिनिघृष्टपादभृत् विदिद्युते स्फारयशः प्रतापवान् ॥ ७४ ॥ अयं निजैः सूरिगुणैरनुत्तरैः सूरिर्न कैरप्युपमामशिश्रियत् । येनोपमीयेत सरोऽम्बुराशिना न चाम्बुराशिः सरसाम्बुऋद्धिभिः॥७५॥ अल्पायुष्ट्वात्सूरित्रितयस्यैकोप्यसावपाद्गच्छम् । रक्ष्यत्येकोऽपि वनं सिंहो न तु लक्षशोऽपि मृगाः। ७६ । न कैर्गजः सङ्घपतिः प्रशस्यते स जङ्घरालाव्यवहारिमण्डनः । यष्टङ्क सार्द्धायुतयामल २५००० व्यया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #73 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता दचीकरत्तत्पदमद्भुतोत्सवैः ॥ ७७ ॥ क्षोणीभूषणजङ्घरालनगरालङ्कारवीरालये प्राप्ताचार्यपदस्य तस्य सुमहोभाग्यस्य दृष्टयाप्यहो। भूतप्रेतकशाकिनीच्छलरिपूच्चाटस्फुरत्कार्मणाद्युत्थोपद्रवमण्डलानि निखिलान्याशुप्रणेशुर्नृणाम्७८ नो दुष्टाः पशवः स्वभावरिपवः प्राबोभुवुर्नोखला. स्तस्योत्कृष्टयशःप्रतापसुगुणा व्यापुश्च सर्वादिशः। तत्तन्निर्जितका इवापरमहासूरीश्वराणां च ते दूरं क्वापि पलायिता बुबुधिरे कैश्विद्यथा नो पुनः७९॥ षट्तर्कीपरितर्ककर्कशमतिप्रोत्सर्पिदर्पोत्करस्फूर्जदुर्दमवादिसंमदमदापस्मारविस्मारके । एतस्मिन्नवति प्रभौ जिनमतं तद्देषिणः क्वाप्यगुश्छिन्नोत्साहमतिप्रभावरुचयः कष्टं जिजीवुःपरम्॥८॥ विश्वव्यापिनि तस्य विश्रुतयशःपद्माकरे सर्वतः कम्पाङ्कोत्पतदम्बुशीकरतुलारूढोडुमालाचितम् । नीलाम्भोजति तावदम्बरतलं स्फेष्ठाष्टकाष्ठादलं सूर्याचन्द्रमसौ मरालतुलनादोलामथारोहतः॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #74 -------------------------------------------------------------------------- ________________ गुर्वावली। तस्याखिलश्वेतपटाधिपस्य शक्नोति कः श्वेटपटान् प्रमातुम् । एको यशःश्वेतपटो यदस्य दिगङ्गनाङ्गाऽऽवरणं विधत्ते ॥ ८२ ॥ किं बहना। ध्वस्ता वादिमदा हतः कलिमलो मिथ्यात्वमुग्रं तमश्छिन्नं मण्डलमण्डलप्रसृमरं प्राप्तं नृपेभ्योऽर्चनम् । क्लृप्ता शासनभा युगोत्तमगुणैराऽऽप्ता तुला गौतमी. त्युद्यल्लब्धिगुणप्रभावचरितैः सूरिः समोऽन्योऽस्य न८३ वृद्धक्षेत्रसमाससप्ततिशतस्थानादिशास्त्रैर्नवैः पात्रैराऽऽगमवारिधेरतिगुरोः पूर्णैः स्वधीगाहितात् । उद्धृत्यार्थसुधारसान् सुमनसः संसारतापापहान् सोऽपीप्यत् पुरुषोत्तमः स्वतिशयप्रौढिश्रिया संश्रितः८४ शिष्यांस्त्रीन् समतास्थपन्निजपदे प्राज्ञान् स तेष्वादिमः ख्यातः श्रीगुरुचन्द्रशेखर इति त्रैवैद्यवारां निधिः। प्रौर्णोनोत् किल चन्द्रशेखरमहो नाम्नाऽपि पास्पर्द्धतं यो ऽसोढा भुवने स्वकीर्तिपटलर्निर्माय शौक्ल्याहयम् ॥ ८५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #75 -------------------------------------------------------------------------- ________________ ____६६ श्रीमुनिसुन्दरसूरिविरचिता अभिमन्त्रितरजसा ऽपि हि गृहहरिकादुईरश्व मृगराजः । दूरं नेशुर्यस्मात सपरिकारान्महिमवारिनिधेः ॥ ८६ ॥ न धीरं गोक्षीरं न मधु मधुरं किं तु विधुरं मनः साक्षाद्राक्षा न हरति सुधा साऽपि हि मुधा । न सान्द्रा वा चान्द्रा न च मरुचयः साधुशुचयः श्रुताचेद्यद्वाणी भवरिपुकृपाणी नवरसा ॥ ८७ ॥ वासिकभोज्यकथानकशत्रुञ्जयरैवतस्तुतिप्रमुखा । चित्राकृतिर्यदीया कविकुलमोदप्रदा जयति॥ ८८ ॥ अग्न्यश्ववहीन्दुमिताब्दजातः १३७३ शरेभविश्वे १३८५ यमितामवाप्य । हिनन्दविश्वे १३९२ च पदप्रतिष्ठां त्रिदोर्मनुष्वा १४२३ ऽऽप च यः सुरौकः ॥ ८९ ॥ शिष्याध्यापनकौशलं निपुणता सा सार्ववैये गिरां माधुर्य प्रशमादयो जनहितं चारित्रमप्युज्वलम्। विश्वाप्यायकदेशनातिसुषमा चैवं परो विश्रुतै. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #76 -------------------------------------------------------------------------- ________________ गुर्वावली। यस्याभूत् सदृशो गुणैर्न स गुरुः सङ्घाय देयात्सुखम्९० श्रीसोमतिलकसूरि स्तस्य गुरुस्तदनुचैकवर्षेण । जिनभुवने १४२४ स्वर्गमित स्तनोतु सङ्घाय कल्याणम् ॥ ९१ ॥ तस्य स्वर्गतिसमये सुरकृतखोद्योतनादिमहिमानम् । वीक्ष्य जनाःप्रोचु रहो विमानमागाद्गुरोस्य ॥ ९२ ॥ पात्रावतीर्णदेवी जगौ सुरेभ्यः श्रुतं मया मेरौ । सौधर्मेन्द्रसमाना जजुरिमे श्रीतपाचार्याः ॥ १३ ॥ शिष्यो द्वितीयस्त्वभवत्तदीयः श्रीमान् जयानन्दगुरुः स योऽभूत् । कलिद्विषःक्लुप्तजयाद्विधाया नन्दं सतां सार्थकनामधेयः ॥ ९४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #77 -------------------------------------------------------------------------- ________________ ६८ श्रीमुनिसुन्दरसूरिविरचिता जातोऽन्तरिक्षद्विपविश्ववत्सरे १३८०द्विनन्दवह्नीन्दुषु१३९२ यो ऽभवद्व्रती । स्नेहान्निषेधप्रबणे ऽग्रजन्मनि प्रबोधिते देवतया प्रभावकः ॥ ९५ ॥ पदं श्रितः सोत्तरसूरिरभ्रदो र्मनुष्व १४२० मेयातिशयश्रियां निधिः । चकार रम्यं शकटालजन्मनो वृत्तं गमी द्यां कुयुगाब्धगोषु १४४१यः । ९६ । यद्देशनाशैवलिनीनिलीनाः प्रोज्झन् द्विजैौघा अपि कल्कपङ्कम् । तदेकलीना जनचित्तमीना स्तथा परोद्यद्वकवृत्तिभीतिम् ॥ ९७ ॥ यदीयविद्याविभवादकोविदं शेषंस्म सर्व प्रतिभाति विष्टपम् । दधाति यदुर्विधता विधिं पुरो महेन्द्र भूतेः सनरामरं जगत् ॥ ९८ ॥ युगोत्तमाभो जगदुत्तरो गुणै Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #78 -------------------------------------------------------------------------- ________________ गुर्वावली। र्यो भारतीभारतसंयमश्रियोः। आधारभूतः समभूत् प्रभावभू स्तनोतु सङ्घस्य स सातसन्ततिम् ॥१९॥ श्रीदेवसुन्दरयुगोत्तमसूरिराजाः ५० शिष्या जगत्त्रयदृशो जयिनस्तृतीयाः । यै स्वरैः स गणराट् पुरुषोत्तमोऽपि भूत्येशतामभृत सोमललामसूरिः ॥ ३०॥ षण्नवाग्निविधुवत्सर १३९६ जाताः प्राव्रजन् जलधिखाब्धिमहीषु १४०० ये महेश्वरपुरे नखरत्ने १४२० पत्तेन च पदसम्पदमापुः ॥१॥ येषां जगद्विस्मयमोदकारिणं गजर्डिकडो विदधे पदोत्सवम् । सौवर्णिकः सङ्घपतिर्नुपप्रभः सिंहोऽर्हतो ज्ञानमहं नु वासवः ॥ २॥ अथ तेषामवदातैतिहप्रकटनं किश्चित्क्रमात् ॥ बाल्ये ऽपि येषां किलमश्चिकाजुषां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #79 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता सुलक्षणैः लक्षणवेदिनः पदौ । समीक्ष्य केचिद्विबुधा जगुः परां चिरं भवित्रीं महनीयताम्भुवः ॥ ३ ॥ कोटीनाराह्नपुरे गणभृच्छ्रीसोमतिलकसूरिणाम् । गणभारोद्धरणपटुं पात्रं जिज्ञासमानानाम् ॥ ४॥ ७० सुध्यानलीनमनसां विशदगुणैर्भाविनो युगवराभाः । क्षुल्लले ऽपि च कथिता येऽम्बिकयानन्तभाग्ययुजः ॥ ५ ॥ ॥ युग्मम् ॥ अभूत् त्रिशत्या वरयोगिनां वृतोऽ न्यदोदयीपाभिधयोगिनायकः । कृतस्थितिः पत्तनगुङ्गडीसर स्यनेक मन्त्रादिसमृद्धिमन्दिरम् ॥ ६ ॥ हरन् गरान् स्थावरजङ्गमानयं जलानलव्यालहरी भभीहरः । अनागतातीतविदद्भुतास्पदं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #80 -------------------------------------------------------------------------- ________________ गुर्वावली। नृपेभ्यमन्त्र्याद्यखिलप्रजार्चितः॥७॥ निरीक्ष्य दूरादपि यानरियतो मुदाशु दण्डव्रतकृत् सहानुगैः। अवन्दत व्यञ्जितभक्तिडम्बरः प्रजासमक्षं बहुधास्तुवनगुरून् ॥८॥ सङ्घाधिपनरियायैः पृष्टो नमनादिहेतुमाख्यच । गुरुरादिदेश दिव्य___ ज्ञानार्डः कणयरीपामाम् ॥ ९॥ पद्माख्यदण्डपरिकर चिह्नरुपलक्ष्यसूरयो वन्द्याः । भवता युगप्रधानाः शिवदा इत्यादि तयनमम् ॥१॥ धाराभिधश्रावकपुङ्गवेन पक्षोपवासैर्वशितःसुपर्वा । प्रपृच्छय सीमन्धरसार्वमाख्यत् त्रिभिर्भवैर्मुक्तिपदं हि येषाम् ॥ ११ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #81 -------------------------------------------------------------------------- ________________ ___७२ श्रीमुनिसुन्दरसूरिविरचिता सारङ्गमन्त्री वटपद्रवासभाक् ___ द्विषन् जिनोक्तीरपि पूर्वजक्रमात् । निबुध्य देवस्य गिरा युगोत्तमा नभिग्रहात् सिद्धपुरे ऽभिगम्ययान्॥१२॥ वेदादिशास्त्रैः कृतनैकनोदनः सप्रत्ययैर्यद्वचनामृतैर्मुदा। विधूय मिथ्यात्वगरं नतिस्तुतीः सृजन् प्रबुद्धो जिनधर्ममग्रहीत् ॥१३॥ महाधनः श्राइवरः प्रभावकः सुदर्शनाणुव्रतभृत्सुशास्त्रवित् । दिने चतुष्प्रासुकद्रव्भयोजन व्रतोऽस्ति नानाद्भुतपुण्यकर्मठः ॥ १४ ॥ गुणर्डिसंवादिसुपर्वभाषितै रपीति तेष्वेव युगप्रधानताम् । निश्चित्य युक्तं गुरुधीनिवेशनं शिवाय विज्ञैरधुना प्ररूप्यते ॥ १५ ॥ ___* सयौवनेऽप्येकमुतो अपिल्वानित्यापि पाठः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #82 -------------------------------------------------------------------------- ________________ गुर्वावली। देवानां खलु सुन्दरो गुरुस्मिामास्थाय नव्यां तनूं दृष्ट्वा शासनमर्दितं कुकलिना तच्चिन्तकेन्द्रार्थितः । अर्हक्ततयात्र तत्सुखयितुं गच्छे ऽवतीर्णस्तपा संज्ञे ततकिलदेवसुन्दरगुरुष्वाह्नापि तेष्वित्यसौ॥१६॥ विद्यामरो ऽसंख्यमुनीन्द्रवृन्दै. ____ निपीयमानोऽपि हि वईमानः । कथं तुलां यातु पयोधिनैषां निःशेषमेकोऽपि पपौ मुनिर्यम् ॥ १७ ॥ तेषां त्रैवैदयपाथोधेरूर्म्युल्लासितशीकरान् । पिबन्ति गुरुशुक्रज्ञास्तकिलैतेऽपि पण्डिताः॥१८॥ सर्वतः प्रसरभाञ्जि यशांसि क्षीरनीरनिधयन्ति यमिनाम् । तानि तत्र परसूरिततीनां शीकरावलिरिवाथ विभान्ति ॥ १९ ॥ तेषां परेषामथ सूरिराजां चिकीर्षिता विश्वकृता यशांसि । उन्मानबीजानि विचिक्रिरे प्राक् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #83 -------------------------------------------------------------------------- ________________ ७४ श्रीमुनिसुन्दरसूरिविरचिता पूर्णेन्दुबिम्बं किल तारकाच ॥ २०॥ उत्कल्लोल्लैढिरदरदनच्छेदकुन्दावदातैः शुक्लाद्वैतं त्रिजगति गमिते तैर्यशोभिः प्रपूर्य । अन्येषां चेहरिवृतति तदा तल्लवानैव लभ्याः सत्ता यस्माद्विरमति सरितां सिन्धुना सङ्गतानाम्॥२१॥ को वेदयिष्यत्तुलना मतीतान् श्रीगौतमादीन् गणिनो व्यतीतान् । युगोत्तमास्ते यदि नाभविष्यन् निदर्शयन्तः स्वगुणश्रिया तान् ॥ २२ ॥ वीरेण ये शासनधारका महा___चार्याः स्वनिर्वाणपदादनूदिताः। एते ऽवगम्याः खलु ते गुणोच्चयै राजैतदीयैव शिवाय तत्कृता ॥ २३ ॥ नालं यस्या हि नेता हरगरिरमलः कर्णिकाबन्धबन्धुमाद्यदिग्दन्तिदन्ता दलततिरतुला पूर्णचन्द्रश्च कोशः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #84 -------------------------------------------------------------------------- ________________ गुर्वावली। ज्योत्स्नापूरः परागः सितकरकिरणाः केसरालीव भाति स्फीतं तत्तद्यशोऽब्जं त्रिभुवनसरसि व्योमभृङ्गानुषङ्गि ॥ २४ ॥ न विद्यया नैव तपोभिरग्रिमै नवा महिना न च भाग्यसम्पदा । गुणर्दिभिर्वाप्यधिकः समोऽथवा म कोऽपि तेषामधुनेह वीक्ष्यते ॥२५॥ तदीयपट्टे गुरवो जयन्ति ये ये चापुरिन्द्रातिथितां विधेर्वशात् । तन्नामसङ्कीर्तनपुण्यवारिभि गिरं पवित्रां विदधे ऽधुना मुदा ॥ २६ ॥ श्रीज्ञानसागरगुरुप्रभवो ५१ बभूवुराया यदीक्षकबुधा इति चिन्तयन्ति । मुक्तोऽपि गौतमगुरुः समवातरत्स्वं वीक्ष्यान्वयं सुगतवत्किलदुःस्थमेषः ॥२७॥ अन्तः साम्यसुधाहृदप्रसृमराः किं प्रोच्चवीचीचया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #85 -------------------------------------------------------------------------- ________________ ७६ श्रीमुनिसुन्दरसूरिविरचिता हेलापीतजिनागमाम्बुधिभुवः प्रोद्गारमालाः किमु । किं वा वक्तुसुधाधुतेर्युतिभराः पीयूषदिग्धाः सतामेवं स्मोदयते विकल्पनिकरो यद्देशनागीहो॥२८॥ संमील्याखिलसाम्यकाम्यकणकान् विश्वस्य किं योगिनां सारान् कांश्चन् वा निचित्य जगतां पीयूषवीचीकणान् । सर्वद्वीपसुधांशुमण्डलमिलत सौम्यत्वलक्ष्मीलवान् किं वादाय विनिर्मिते यमिति यन् मूत्तिर्बुधैर्तर्किता ॥ २९ ॥ शरणं समसूरिसम्पदा हरणं कल्मषसंहतेस्सताम् । वरणं खलु निर्वृतिश्रियां न मुदे कस्य यदीयदर्शनम् ॥ ३० ॥ असमा जगति श्रुतश्रियो ___ न पथे संयमशुद्धता गिराम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #86 -------------------------------------------------------------------------- ________________ गुर्वावली । समतीततुला च सौम्यतेत्यभवंस्ते जगदुत्तरा गुणैः ॥ ३१ ॥ किं मूर्ति नवमः श्रितो रसपतिः सिद्धान्ततत्वश्रियां कोशाः किं गुणसम्पदामिति मुचां चन्द्रद्युतां किं निधिः। जीवातुः कलिविद्विषा प्रतिहतः श्रीजैनधर्मस्य किं दुर्गः किं भवभीतजन्तुनिवहस्येत्यूहितास्ते बुधैः॥३२॥ न ग्रामे न कुले तनौ नन मुनौ तेषां मनो बन्धभाक् शप्यान्नौषधपानकादिनितरां तैः शुद्धमेवादृतम् । चातुर्वैद्यरमाह्यधारि भुवनोत्कृष्टा न चैतन्मदः तत्त्वं तेन वदाम्यहो जिनमतस्याऽसूपमास्ते ऽभवन् ३३ धन्यो धनः सङ्घपतिः पदोत्सवान् श्रीस्तम्भस्तीर्थे विविधाद्भुतप्रथम् । तेषां महोस्तम्भनकेशापार्श्व चैत्ये महाराजबलादचीकरत् ॥ ३४ ॥ ते लेभिरे जन्ममनुप्रभाऽब्दशतेषु यातेष्वधिकेषु बाणैः १४०५ हयेन्दुभिः १४१७ संयममिन्दुवेदैः १४४१ पदं Shree Sudharmaswami Gyanbhandar-Umara, Surat ७७ www.umaragyanbhandar.com Page #87 -------------------------------------------------------------------------- ________________ ___ श्रीमुनिमुन्दरसूरिविरचिता खतकैस्त्रिदिवं १४६० च तुर्यम् ॥ ३५॥ खमायुरन्ते स्वयमाकलय्य ते मिषिध्यभक्तं बहुसङ्घसाक्षिकम् । संवर्मितां साम्यसुधारसोर्मिभि र्यद्योगिमुद्रां विशदां दधुस्तदा ॥ ३६ ॥ यच्छ्वासकासौ च कफान्वितौ द्रुतं व्यनेशतां कोटिगयोगविद्रुतौ । तेषां हि गम्या तदनुत्तरागतिः संवादमात्रं त्रिदशोक्तयः पुनः ॥ ३७ ॥ ताश्चेमाः। खरतरपक्षश्राडो मन्त्रिवरो गोवलः सकलरात्रिम् । अनशनसिद्धौ भत्त्या ___ गुरुकर्पूरादिभोगकरः ॥ ३८ ॥ ईषन्निद्रामाप्या पश्यत्स्वप्ने सुदिव्यरूपधरान् । तानिति वदतस्तुर्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #88 -------------------------------------------------------------------------- ________________ गुर्वावली । कल्पेस्मः शक्रसमविभवाः ॥ ३९ ॥ ॥ युग्मम् ॥ श्रीगुणरत्नगुरून् ये स्वप्ने स्वरराजरूपिणौ दृष्टाः । शिष्टाशिष्टविशेषा द्युपलम्भं लम्भयामासुः ॥ ४० ॥ नैमित्तिको ऽपि वीरो पश्यत्तुर्यस्वरिन्द्रसमविभवात् । तदनुत्तरमतिलाभाद् ७९ युगोत्तमांस्तान् विनिश्चिनुमः ॥ ४१ ॥ तेषां निखातैर्भुवमुत्तमैर्गुणैः सताम्प्रपूर्णानि मनांस्यहो तथा यथात्र केषामपि तेषु ते ऽधुनाऽ वकाश मायांत्यणुरूपिणोऽपि न ॥ ४२ ॥ तेषां गुणानामचिरस्य चायुषः प्रमोदखेदाश्रुभरः स्मृतेर्मम । यः स्यात्समं सैषनिदानभेदतः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #89 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता कार्ये भिदैकान्तमतं निरस्यति ॥ ४३ ॥ विधेर्जराविक्लवताखलायितं कले वोभाग्यविपर्ययोऽथवा । पूतीबुभूषा त्रिदिवस्य वाभज. निदानतामत्र चिरं तदस्थितौ ॥ ४४ ॥ श्रीसोमसुन्दरगुरुप्रमुखास्तदीयं त्रैवैद्यसागरमगाधमिहावगाह्य । प्राप्योत्तरार्थमणिराशिमनर्घ्यलक्ष्मी लीलापदं प्रदधते पुरुषोत्तमत्वम् ॥ ४५ ॥ न स्थैर्य सुमनः पथे प्रविदधन्नैवापि वर्णोज्वलः प्रोद्यच्चापलउल्लसज्जडतया यो निम्नगोल्लासकृत् । यद्गर्जत्यपि मादृशो जलदवत्सोच्चैः पदं संश्रितः तत्रैवैद्यमहाब्धिशीकरकणादानस्य तज्जृम्भितम्॥४६॥ सारस्वते प्रवाहे तेषां शोषंगते ऽधुना कालात् । शिष्यैरुपक्रियन्ते विद्याम्मः कूपकैर्लोकाः ॥ ४७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #90 -------------------------------------------------------------------------- ________________ गुर्वावली। दीनायुद्धरणात्पदोत्सवकृतेस्तीर्थेषु यात्रादिभिः सत्रैर्दुस्समये गुरुप्रणमनैर्भक्त्या सदावश्यकैः । चैत्योडारविधापनर्वितरणैःक्षेत्रेषु सप्तस्वपि प्रौढैः पुण्यभरैः प्रभावपदवीं येनाऽऽप्यते शासनम्४८ सर्वेभ्यमालामुकुटस्य तस्य श्रीपातसाहोच्छितमाननस्य । कर्णावतीमण्डनचाचसूनोः सङ्घाधिपेन्दोर्गुणराजनाम्नः ॥ १९ ॥ बन्धुः प्रबुद्धो वचनैर्गुरूणां तेषां महामोहतमोवृतोऽपि । आम्रः प्रवव्राज विमुच्य पत्नी पुत्रादिकानद्भुतभाश्च लक्ष्मीः ॥५०॥ श्यामलनाममहेभ्यस्तेभ्यो बुद्धश्च नव्यरूपवयाः। प्रावाजीत्परिमुच्याऽनुरागरूपोत्तरां जायाम् ॥५१ ॥ मुनीशितारोऽईचतुर्थवंशाः प्राबोध्य चाऽन्ये ऽपि हि । दीक्षितास्तैगुणढिपात्राणि विचित्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #91 -------------------------------------------------------------------------- ________________ ८२ श्रीमुनिसुन्दरसूरिविरचिता चञ्चज्ज्ञानादिसम्पत्पदवीं भजन्ते ॥५२॥ मेदपाटपतिलक्षभूमिभृद्रक्ष्यदेवकुलपाटके पुरे । मेघवीसलसकेह्लहेमसद्भी मनिम्बकटुकाद्युपासकैः ॥ ५३ ॥ श्रीतपागुरुगुरुत्वबुद्धिभिः कारितं तदुपदेशसंश्रुतेः । तैः प्रतिष्ठितमथाऽऽदिमार्हतो मन्दिरं हरनगोपमं श्रिया ॥ ५४ ॥ ॥ युग्मम् ॥ कान्ता या गणिसंपदो गणभृतस्तत्पूर्वजस्या ऽभवं - स्तस्मिन् सिद्धिमिते सतीव्रतजुषो या नो कमप्यस्पृशन् ता योगातिजरा बलाज्जगृहिरे तैः कीर्त्तिकन्याश्चतत् संयोगे जनितास्तथापि चरितं तेषामहो श्लाघ्यते५५ किञ्चिच्छान्तमपि प्रमाणपठनैर्जाड्यं पुरावादिनां भैषज्यैरिव लघ्वऽलर्कविषवादे पुनः प्रास्फुरत् । नव्याब्देष्विव तेषु दुर्द्धरतरस्याद्वादगर्जारखं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #92 -------------------------------------------------------------------------- ________________ ८३ गुर्वावली। वर्षत्स्वाप्तमहोन्नतिष्वनुपमोपन्यासपूरामृतम् ॥५६॥ पीला विनाशिताम्भोधि पीताब्धि कः प्रशंसति । पीतस्याब्धेर्न यस्याऽस्थादुदरे बिन्दुरप्यहो ॥५७ ॥ चन्द्रशेखरसूरीणां ज्ञानाब्धिस्तैस्त्वशेषतः । पीला हृदि धृतःसर्वः खादुर्दत्तो ऽप्यवर्द्धत ॥५८॥ ॥ युग्मम् ॥ स्त्रीपुंसाद्याकृतिभिरुदिते बाह्यरूपैरविद्याशक्त्या भातैस्तदपगमतश्चिन्मयैकात्मलीनम् । सत्तामात्रं न यदुपगतं तत्त्वतोऽस्मिन् विवर्ते चित्तं तेषां तदपि विषयग्रामबद्ध कथं स्यात् ॥१९॥ साम्यारामे स्थिरतरलयात्सर्वदोन्मीलदेकानन्दास्वादेऽपसृतसकलोपाधिजव्याकुलत्वे । शान्त्याश्लेषप्रणयिनि यदात्मन्युदेतीह सौख्यं रम्भाभोगोद्भवमिव हरिस्तत्तएवान्वभूवन् ॥६०॥ मूलग्रन्थचतुर्दिक्षुशासनौकार्थदीपिकाः । दीपिका इव राजन्ते तत्प्रणीताऽवचूर्णयः ॥६१॥ तत्कृतिवेला जल्पति पीतत्रैवैद्यवादिगाम्भीर्यम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #93 -------------------------------------------------------------------------- ________________ श्रीमुनिमुन्दरसूरिविरचिता भृगुपुरघोघातीर्थस्तोत्रमुखा विहितचित्तसुखा||६२॥ ते सत्पदोन्नतिभृतः सुगभीरघोषाः निर्वापिताखिलजनाऽघनिदाघतापाः । प्राप्ता घनागमरमाममृतं ददाना घोस्था भवन्तु भुवि मङ्गलवल्लिपुष्पैः ॥६३॥ सूरीश्वराः श्रीकुलमण्डनाहा स्तेषां विनेया अभवन् द्वितीयाः। भाग्यं यदीयं पुनरद्वितीयं ख्यातं यशश्च त्रितयेऽपि लोके ॥६४ ॥ संवित्तिरेव सततं हृदि वावसीति नो ऽसंवृतिस्तु लभते ऽपि पदप्रवेशम् । क्रुडेति साऽऽप्य परवादिततीविरुद्धा स्तेषांजघान किल जल्पजकेलिशर्म ॥६५॥ तदीयचातुर्यरमावलोककैः सम्भाव्यते ऽपीन्द्रगुरोः स्म मूर्खिमा। शेश्रीयते गोष्पदतां यतः सरो महाम्बुराशेः पुरतो ऽपि मानसम् ॥ ६६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat ____www.umaragyanbhandar.com Page #94 -------------------------------------------------------------------------- ________________ गुर्वावली। अहो नवः कश्चन बोधदीप___ स्तेषां जगहासनशक्तिशाली । निःश्वासवातैर्जितवादिनां यः प्रगल्भतेस्माऽस्तभवाहिदपः ॥ ६७ ॥ जन्माङ्कखैरभ्यधिकेषु शके व१४०९ श्वौषधीशैर्बत१४१७ मक्षिवेदैः । १४४२ सूरेः पदं चाप शरेषु भि१४५५स्ते चैत्रे ययुः खर्जगतामभाग्यात् ॥६८॥ विधेर्जरा० ॥ ६९ ॥ निजतीर्थिकपरिकल्पित कुमतोद्धरशैलदलनशतधारः। तन्निर्मितो विजयते सिद्धान्तालापकोद्वारः ॥ ७॥ अष्टादशारचक्रं तेषां हारश्च सपदि भापयते । विबुधानामपि हृदयं चञ्चद्वर्णस्फुरद्वाभृत् ॥ ७१ ॥ क्षमाधरगणाकीर्णगच्छभूभारधारिणः। दिग्नागफणिनाथायैः स्पईन्ते ते स्मसन्ततम्॥७२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #95 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता उभावेतौ गुरू यातौ नेत्रेतु चरणश्रियः । स्खलत्येषा ततः सम्प्रत्यतिचारैः समेष्वपि ॥७३॥ तेषां च सूरिगुणरत्नसमन्वितानां श्रीस्तम्भतीर्थनगरालिगसद्वसत्याम् । सौवर्णिको लषमसिंह इति प्रसिद्धश्चके पदोत्सवततीवरसङ्घनेता ॥ ७४ ॥ गुरूत्तमाः श्रीकुलमण्डनास्ते प्रख्याततेजः प्रचयप्रभावाः । जगत्पवित्रीकरणाभिधाना स्तन्वन्तु मङ्गल्यसुखानि सङ्के ॥ ७५ ॥ देवसुन्दरगुरुक्रमपद्मोपास्ति विस्तृतसमस्तगुणा ये। तद्विनेयवृषभा विजयन्ते कीर्तयामि ततकीर्तिततीस्तान् ॥७६॥ आद्या जयन्ति गुणरत्नमुनीन्द्रचन्द्राः सूरीश्वराः सुगुणरत्नविभूषणैर्यैः । सा काप्यवापि सुभगत्वरमा यया तान् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #96 -------------------------------------------------------------------------- ________________ गुर्वावली। ८७ श्लिष्यन्ति सर्वबुधमानसवृत्तिनार्यः ॥७॥ तेषां निर्जितवादिराजिकुयशोजम्बालजालाविले भ्रान्त्वा भूवलये ऽखिलेऽथ चलिता खं स्वर्गदण्डाध्वना स्मान्ती श्रान्तिहतीच्छयेन्दुसरसि खैर सुधाशीकरान् कीर्तिर्यान् विकिरत्यमी प्रतिनिशं दृश्या ग्रहादिच्छलात् ॥ ७८ ॥ यज्जाता हिमभूभृतः पशुपतेः पत्नीति कः प्रत्ययस्तत्कीर्तिर्जनिताऽमुनेति तु सतां नूनं प्रतीते पथः। एषा यद्धवला हिमाऽपि जनयेन् म्लानिञ्जवाद्वादिनां। वत्क्राम्भोजगणेषु निर्दहति च प्रोदामदर्पगुमान॥७९॥ ग्रन्थेषु येषु न परस्य धियां प्रवेशो ऽप्येतेष्वपि प्रसरतीह तदीयबुद्धिः । वेलाययत्यपि तटाश्रितमन्यमधि र्यः सोऽपि दैत्यरिपुणा किमु नो ममन्थे ॥८॥ जगदुत्तरो हि तेषां नियमोऽवष्टम्भरोषविकथानाम् । आसन्नां मुक्तिरमा वदति चरित्रातिनैर्मल्यात्॥८॥ सिद्धत्वात्सार्ववैद्यस्य ते सिहपुरुषोत्तमाः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #97 -------------------------------------------------------------------------- ________________ ८८ श्रीमुनिमुन्दरमाविरचिता तदाप्ततत्कणाः शिष्याः यद्वशीकुर्वते जगत् ॥२॥ सर्वव्याकरणावदातहृदयाः साहित्यसत्यासवो गम्भीरागमदुग्धसिन्धुलहरीपानैकपीताब्धयः। ज्यायोज्योतिषनिस्तुषाः प्रदधतस्तकेंषु चाचार्यकं वादेतेऽत्र जयन्त्यशेषविदुषां स्वैद्यदर्पोष्मलान्।।८३॥ उत्कल्लोलं दिशि दिशि बुधाः कर्णपात्रैः पिबन्तः स्फीतं गीतं सुकृतिततिभिस्तद्यशःक्षीरपूरम् । तेषां शुद्धां चरणकमलां बिभ्रतां श्रीगुरूणां सृष्टया स्रष्टा जगदुपकृतं मन्वते सांप्रतं वै ॥८४॥ परमेष्ठिमन्त्रतत्त्वाम्नायस्मरणेन दैवतादेशैः। पारत्रिकैहिकीस्ते प्रायो जानन्ति कार्यगतीः॥८५॥ खदर्शने वा परदर्शनेषु वा ग्रन्थः स विद्यासु चतुर्दशखऽपि । समीक्ष्यते नैव सुदुर्गमेऽप्यहो यत्र प्रगल्भा न तदीयशेमुखी ॥ ८६ ॥ या ज्ञानाद्युद्यमप्रौढिर्या च नित्याऽप्रमादिता । या चैषा मरणाशक्तिः साऽन्यत्र श्रूयते ऽपि न।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #98 -------------------------------------------------------------------------- ________________ गुर्वावली। चक्रुष्टीकाशलाका ते षट्दर्शनसमुच्चये । ज्ञाननेत्राञ्जनायेव सतां तत्त्वार्थदर्शिनीम ॥४८॥ उद्धृत्य ये व्याकराणाम्बुराशितो विलोड्य बुद्धिप्रसरामराद्रिणा । शुद्धक्रियारत्नसमुच्चयं सता__ माश्चर्यभूतं विबुधालये ददुः ॥ ८९ ॥ लोकोत्तरां सच्चरणश्रियं मुदा सदाभजन्तश्च सरखती प्रियाम् । दुष्कर्मदैत्यव्यथका जयन्तु ते गुरुप्रवेकाः पुरुषोत्तमाश्विरम् ॥ ९.॥ ॥ युग्मम् ॥ बिभ्रतेऽथ नवतां जयिनःश्री. सोमसुन्दरगुरुकमपद्माः ५१ । संस्मृता अपि विध्युरनन्तं शीतिमानमघतापहृतेर्ये ॥ ११ ॥ सरखतीमाऽऽगमवाढिसङ्गता मवाप्य येषां सुरसोर्मिवर्मिताम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #99 -------------------------------------------------------------------------- ________________ ९० श्रीमुनिसुन्दरसूरिविरचिता पुपूष या स्वस्य तु सन्मनोगणस्त्यज्जेन्न तीर्थं प्रियमेलकं विदन् ॥९२॥ न नाममात्रादपि तु स्फुरत्प्रभैगुणप्रभावैर्नरसिंह एव सः । महोत्सवैर्यः कलिदैत्यहिंसनात् क्षमाभृतो ऽमून सुपदे १४५७ न्यवीविशत् ॥ ९३ ॥ तान् दूत्येवात्मकीत्त्यी विशदसुभगताख्यापनादुत्सुकत्वं दत्वा नीता भजन्ते सकलसुमनसां यन्मनोवृत्तिनार्यः । लब्ध्वागस्तद्गुरूणां निजनुतिसमयावाङ्मुखत्वावलोकाः क्रुद्धाः प्रोद्यद्गुणौघा निगदितुमिव तत्कर्णपङ्क्तौ विशन्ति ॥ ९४ ॥ सौभाग्यतस्तेऽभ्यधिका हरेः पितु वैताढ्यविद्याधरसेव्यताजुषः । भजन्ति वामा न परं क्षमाभृतां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #100 -------------------------------------------------------------------------- ________________ गुर्वावली। ध्यायन्ति यत्तान् सुमनोऽबला अपि ॥१५॥ तैः पाल्यमाने जिनशासनेऽधुना नेशा विधातुं कुमतव्रजा व्यथाम् । प्रकाशितं पद्मवनं विवखता ___ पराभिभूयेत तमोभरैर्न यत् ॥ ९६ ॥ अराध्य देवानपि या दुरापा वाणी परैस्तेषु निसर्गतः सा। दुरासदान्यैर्विविधैरुपायै र्या श्रीहरेः सानुचरी खभावात् ॥९॥ किं मोहाऽहिविषोमिमूछितजगज्जीवातवो ऽभूः सुधाधाराः स्वागमदुग्धवारिधिभवाः स्फारालहर्यः किमु । किं वा शासनसौधभासनचणा दीप्राः प्रदीपश्रियः सर्वध्वान्तभिदासतामिति मतिं तद्देशनास्तन्वते॥१८॥ त एव धर्तुं जिनशाशनं पतत् तदुःषमापङ्कभरे धुनेशते । युगान्तवातोद्भुतवार्डिविप्लुतां महावराहान्नपरो दधाति गाम् ॥९९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #101 -------------------------------------------------------------------------- ________________ ९२ श्रीमुनिसुन्दरसूरिविरचिता क्षमापराइत्यपि साहसिक्यात समारतो जेज्यति ते प्रवादान् । दन्दह्यते वा शिशिरेति बुद्ध्या प्यालिङ्गिताब्जानि न किं हिमानी॥४०॥ उपतदमपि संश्रिते विनेये विलसति वाग् सुमनोमनोऽपही । गुणवति रमणे तदाश्रिते वा भवति रतिः किल योषितां समाना ॥१॥ प्रभवति महिमा यथा तदीयो जगति न कस्य च नापरस्य तद्वत् । प्रसरति तरणे मरीचिचक्र वियति यथा न तथाहि तारकाणाम् ॥२॥ नित्यं विवृद्धिगकलाः सदखण्डवृत्ताः प्राप्तोदयाः स्मरहृतो ऽस्तकुरङ्गसङ्गाः। भ्रान्त्युज्झिता विदलयन्ति तमस्तथापि श्रीसोमसुन्दरतया प्रथिता अहो ते ॥ ३ ॥ ते शीतिमानमतुलं दधते भवस्या- .. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #102 -------------------------------------------------------------------------- ________________ गुर्वावली। धः कारकारककलावरवृत्तताढ्याः । सन्दर्शितामृतरसा निजगोविलासैः श्रीसोमसुन्दरतया प्रथिताः सुयुक्तम् ॥४॥ नानागोचरमारवस्थलततिभ्रान्त्युत्थतापोत्तृषः सौख्येच्छामृगतृष्णिकांभसिन के ताम्यन्ति चेतो मृगाः खेलत्यात्मवने लयी स परमानन्दादिदूर्वाङ्कराखादी साम्यसुधाहदे प्लवनकृत्तुष्यंस्तदीयःपुनः॥५॥ जितद्राक्षाव्याख्यावचनललितं साम्यकलितं गुरुस्फूर्तिमूर्तिलवणिमकलादोषविकला । अहो येषां पोषांकितसुचरणं सिद्धिवरणं विमुद्रं ते भद्रं ददतु भवतां धीधनवताम् ॥ ६ ॥ श्रीसाधुरत्नगुरुविस्तृतभाभरो ऽयं श्रीगच्छमौलिरमलः समलंकरोति । श्रीजैनशासननृपं निहतारिवर्गस्फूर्जप्रतापमहिमाप्तजगत्प्रभुत्वम् ॥७॥ वेलेवोल्लासिनी तद्गीस्त्रैवैद्याऽपरसागरे । * स्वयं इत्यपि पाठः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #103 -------------------------------------------------------------------------- ________________ ९४ श्रीमुनिसुन्दरसूरिविरचिता दूरं विक्षिपते दृप्यद्वादिनः कर्करानिव ॥ ८ ॥ आकौशलधरः काव्योप्यानैपुणधरो गुरुः । तेषां विद्यासु नैपुण्यादाचतुर्यमयं जगत् ॥ ९॥ प्रभावकाणां प्रथमः प्रसिद्धिभाग् स.सङ्घनेता प्रथमः प्रशस्यते । अचीकरद्योऽद्भुततत्पदोत्सवं श्रीपत्तनेऽष्टेन्द्रियरत्नवत्सरे १४५८ ॥१०॥ आहेमचन्द्रत्रिदिवं विधाय प्रभावकोत्पत्तिकथादरिद्रम् । स्रष्टयानुसृष्टया पुनरेव तेषां जैनेश्वरं शासनमन्वकपि ॥११॥ वर्षसून्नतवारिदष्विव मुहुर्वादेषु तर्कामृतम्छ तैषूच्चैः पदसङ्गतेषु भुवि या कीर्तिः सरिज्जायते । सम्पूर्योत्तममानसानि विदुषामुन्मूल्यदर्पद्रुमान् मिथ्यालोरुदवोपशान्तिमपि सा कृलाब्धिमालिङ्गति१२ कलन्दिकासौरभभृत्पदाम्बुजा* धर्मोपदेशामृतमिति वा पाठक। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #104 -------------------------------------------------------------------------- ________________ गुर्वावली। श्रितस्य तेषां व्यथते न मूर्खिमा । न नैशमन्धातमसं प्रगल्भते विलेप्तुमुष्णांशुकराम्बुजं यतः ॥ १३ ॥ यतिजीतकल्पवृत्तिवृत्तिरिव चारित्रकल्पवृक्षस्य । तन्निर्मिता विजयते ऽतिचारचौरादिचारहरा ॥१४॥ उत्फुल्ला:स्तनुलवणिमालोकनात् स्मेरचित्तै ानाद्भाग्यार्पितगुणततेर्वाक्श्रुतेः प्रीतकर्णैः । ये मन्यन्ते विबुधनिकरैर्गौतमस्याऽवतारः श्रेयः श्रेणी ददतु जगते ते जयश्रीपरीताः ॥१५॥ श्रीदेवसुन्दरगुरुप्रभवो गणेशा __ अप्याश्रयन्ति गुरुभिस्त्रिभिरेभिरेवम् । सूक्ष्मार्थबोधरतिकान्तहतिप्रगल्भै नेत्ररिव त्रिमुवनेऽपि हि शङ्करत्वम् ॥१६॥ श्रीमद्गच्छहिमालये लवणिमोत्कल्लोलपद्महदस्ते नूनं गुरुवः सरित्ततिरिवैतेभ्यो विनेयावली। उद्भूता भुवनेऽभितः प्रसृमरा वादिद्रुविद्राविणी पावित्र्यं तनुते हरत्यथ मलं मिथ्यात्वतापापहा॥१७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #105 -------------------------------------------------------------------------- ________________ ९६ श्रीमुनिसुन्दरसूरिविरचिता लसन्ति तेषां गणरत्नसिन्धौ मुनीन्द्ररत्नानि महाप्रभाणि । क्षमाधराणामपि मौलिमाला शोभाखिलाशासु विधीयते तैः ॥ १८ ॥ ॥ तथा हि ॥ श्रीदेवशेखरगणिप्रथिताभिधानाः श्रीवाचकावलिशिरोमुकुटायमानाः । तेषां विशुद्धगुणसंयमभासमानाः शिष्या जयन्ति विगलत्कलिशत्रुमानाः १९ शिष्यस्तदीयोऽयमपीति मन्यते श्रीवाचकेन्द्रेष्वगुणोऽपि मादृशः । ग्रहप्रभोः पुत्रइति ग्रहावलौ न पूज्यते पङ्गुरपीह किं शनिः ॥ २० ॥ अहो तेषां कराम्भोजवासानां सुप्रभावता । जातो यैमौलिमैर्योग्याप्यहकं मुनिसुन्दरः ॥ २१ ॥ श्रीश्रुतसुन्दरवाचकवर्याः श्लाघ्या न कस्य गुणनिधयः यद्गीः स्पर्द्धापापान्मन्ये श्वभ्रे सुघापप्तत् ॥ २२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #106 -------------------------------------------------------------------------- ________________ गुर्वावली। जयचन्द्रवाचकैः किल जित्वा विद्याबलेन लघिमानम्। नीता गुरुबुधशुक्राः स्थेमानं दधतिन क्वापि॥२३॥ श्रीभुवनसुन्दरा अपि वाचकवर्या न कस्य हर्षाय । सत्यपि येषां वाणी प्रतिचतुरं लीयते हृदये ॥२४॥ श्रीजिनसुन्दरवाचकहदयगृहेऽ दोषवैर्यविषयतया । विनयो गुरुभक्त्या सह विलसति निश्शङ्कमनवरतम्२५ सम्यकपरिहृतसप्ताऽधिकदशभिदऽसंयमा विशदचित्ताः। कण्ठस्थाऽऽगमसूत्रस्फुरदर्थाः संवृतास्रवणाः ॥ २६ ॥ जयवर्मनामविबुधाः स्थविरा गच्छेशबन्धवः कस्य । श्लाघ्या नैतत्काला ऽनुत्तरगुणचरणकरणाढ्याः ॥२७॥ ॥ युग्मम् ॥ नानाऽनार्यप्रायान् देशान् दूरेऽप्यबूबुधन धीराः। स्थविराश्च देवमङ्गलविबुधा गुरुगच्छकार्यकृतः॥२८॥ अन्येऽपि श्रुतसागरदेवप्रभरत्नसुन्दरा विबुधाः । अथ सर्वशेखराह्वाः ख्याताः क्षेमङ्कराह्वाश्च ॥२९॥ संविमकमलचन्द्राः सदाश्रवा झानकीर्तयश्वाऽपि । बुधसाधुसुन्दराऽभयसुन्दरमिश्रा यशःश्रीद्धाः ॥३०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #107 -------------------------------------------------------------------------- ________________ ९८ श्रीमुनिसुन्दरसूरिविरचिता आनन्दवल्लभाह्वा विशदगुणाः सहजधर्मनामानः। विबुधेन्द्रशीलकुम्भा विख्याताः शान्तिमूर्तिबुधाः ३१ निस्सङ्गतैकरङ्गा वनवासे सोमशेखरा लीनाः। गुर्वादेशधुरीणा विमलादिकमूर्तयश्चाऽपि ॥ ३२ ॥ सर्वसमुद्राद्या अपि बहवो लुप्तान्यगणकतारकभाः। गच्छेशार्ककरा इव दिशि २ निघ्नन्ति मोहतमः॥३३॥ पञ्चभिः कुलकम् । प्रायो भान्ति गणेऽस्मिन् पदान्यहो चतुरशीतिसङ्ख्यानि । इव तावतां गणानां सारैर्विहितानि विधिनात्तैः॥३४॥ गुरुर्विनयो गणभक्तिर्ज्ञानचरित्रादयश्च निईन्डाः । आसन्महत्तरायां सुगुणाश्चारित्रचूलायाम् ॥ ३५ ॥ यस्याः समयार्थमणीविडूरभूमेः पुरः श्रयेद्ब्राह्मी। आकोशलं प्रशस्या महत्तरा भुवनचूला सा ॥३६॥ प्रवचन १ धर्मकथाज्ञौ २ वादी नैमित्तिक ४ स्तपस्वी ५ च । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #108 -------------------------------------------------------------------------- ________________ गुर्वावली। विद्यावित ६ सिद्ध ७ कवी ८ प्रभावकाश्चाऽष्ट तद्गच्छे ॥ ३७॥ __ तथाहि । आचार्योपाध्याया गणेऽत्र वादावशेषलब्धिजुषः । प्रायोऽष्टधाऽपि सर्वे शासनमुद्भासयन्त्यभितः॥३८॥ विभागतोऽपि च । आचार्यादिपदस्था यतयः साध्व्यो महत्तराद्याश्च । श्राद्धाश्च तारतम्यात् प्रवचनकुशला विभान्त्यत्र ॥३९॥ श्रीजिनसुन्दरवाचकमनुमितशरदुदयरत्नमुन्याद्याः । हरिरिव भुवनान्युदरे बिभ्रत्यङ्गानि निखलानि॥४०॥१ सर्वपदस्थाः प्रायो यतयः श्राद्धाश्च मन्त्रिहेमाद्याः । धर्मकथालब्धिभृतः करन्ति जिनधर्मसाम्राज्यमा४११२ श्रीसूरिवाचकेन्द्रविद्याधनयाचकीभवद्धिषणैः । ध्रियतेऽत्र वादलब्धिर्विबुधैर्यतिभिश्च बहुभिज्ञैः॥४२॥३ संवृतसर्वास्रवणप्रबुद्धवरसर्ववल्लभप्रमुखाः। अवितथनिमित्ताविज्ञा गणरक्षणदक्षिणा बहवः॥४॥४ गुरुगच्छबालवृद्धप्रमुखमहानेककार्यनिष्णाताः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #109 -------------------------------------------------------------------------- ________________ १०० श्रीमुनिसुन्दरसूरिविरचिता सर्वधुरीणप्रवरा माध्यस्थ्याद्यैरनन्यसमाः ॥ ४४ ॥ द्वादशधातपसि रता गुणवर्द्धनसाधुसागरप्रमुखाः । लोकोत्तरगुणचरिता निवसन्ति मनस्सु नो केषाम् ४५ येषां तपःशक्तिहत प्रभावाः ____ सप्तर्षयः शून्यमहो भ्रमन्तः । शास्त्रैर्निषिद्धामपि रात्रिचर्या ___ चरन्त्यदृश्याः किल लज्जयाऽह्नि ॥ ४६ ॥ मासद्वयोपवासप्रमुखैः संसारतारणमुखैश्च । त्रिदिनोत्सर्गाद्यैरपि विविधैर्बाह्यान्तरतपोभिः ॥४७॥ ते सर्वदेवादिमुनीश्वराश्च __ निस्तन्द्रसंवेगसुधाऽभितृप्ताः । प्रत्याययन्तः किल धन्यमेघ श्रीशालिबाहुप्रमुखान् जयन्ति ॥ १८ ॥ श्रीवीरभक्त्या मदमुग्दशोनं षण्मासिकं यो विदधे तपोग्यम् । महातपस्कर्मसु नित्यलीनं. तं शान्तिचन्द्रं गणिराजमीडे ॥४९॥५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #110 -------------------------------------------------------------------------- ________________ गुर्वावली। जानाना गुरुविहितं स्खलिते शकटालजन्मनो दण्डं। गुप्तधना विद्याढ्या बहवः सिद्धाश्च सन्त्यत्र ॥५०॥६७ किंवाच्यं कविसम्पदि बाला अपि यत्कवित्वगुणललितैः बुधगुरुकविभिः स्पर्दागर्दै गच्छेऽत्र बाभजति ॥५१॥ किं बाणः को मुरारि. ने कविकुलकलः सोऽचलो नाऽमरो वा नाश्वासः कालिदासे विलसति न गिरां चाऽपि हर्षे प्रकर्षः। भोजः सौजःप्रभो नो न च हरति मनो भारवि व माघः । प्रेक्ष्यन्ते ऽस्मिन् विचित्रा विशदमतिजुषःशंपुषश्चेत् कवीन्द्राः॥५२॥८॥ अथ प्रभावककवित्वानि । अत्र खप्रतिभाप्रकर्षपदवीप्रास्तप्रवीणप्रभा बुध्वा पारगतागमेष्ववितथं सूक्ष्मार्थसार्थप्रथाम् । तत्त्वज्ञानलसत्प्रदीपनिहतध्वान्ताभमिथ्याधियोऽनूचानादिमुनीश्वराःप्रवचनप्रावीण्यमाषिभ्रति ५३।१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #111 -------------------------------------------------------------------------- ________________ १०२ श्रीमुनिसुन्दरसूरिविरचिता अस्मिन् धर्मकथाप्रथास्ववितथप्रावीण्यलुभ्यत्प्रभाभ्राजन्ते निजदेशनानवरसैः पीयूषयूषोपमैः । कुर्वाणाः स्मृतिगोचरे सुमनसां श्रीसूरिमुख्यामहालब्धीः पूर्वमुनीश्वरेषु विदिताः क्षीरास्रत्वादिकाः५४।२ तर्कव्यासविलाससाधुविविधोपन्यासवात्याबलात् प्रोद्भूतद्धमदप्रवादिविदुरप्रोत्तालतूलबजा। भूपादिप्रकटप्रभावविभवा वादेषु लब्धप्रभा भ्राजन्ते प्रतिभाऽभिभूतधिषणा नैकेऽत्र वादीश्वराः।५५। भौमाभ्रादिभवन्निमित्तविदुराः सम्यक्श्रुताभ्यासतः केचित् केऽपि च पात्रतामधिगताः सन्मन्त्रयन्त्रश्रियाम्। सिद्धाभिस्त्वनवद्यहृद्यविलसद्विद्याभिरन्येऽधिका नानाऽऽम्नायसमृद्धिभिस्तदऽपरे चूर्णादिसंवेदिनः॥५६॥ क्षीरांभोनिधिजिद्गभीरहृदये गूढस्वशक्तिश्रियः प्रौढे च प्रविदर्यमानविभवाः सङ्घादिकार्यव्रजे । अस्मिन् शासनभासनैकनिरताः स्वाचारसंचारिणो द्योतन्ते मुनिनायका भवभिया सावद्यमुक्तक्रियाः॥५७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #112 -------------------------------------------------------------------------- ________________ गुर्वावली। १०३ ॥ युग्मम् ॥ ४ । ५। ६॥ दुष्टादृष्टजकष्टपिष्टपटुभिः षष्ठाष्टमाद्यैः सदा सन्मासक्षपणादिकैश्च मुनयो बायैर्विचित्रक्रमैः । एकाहं यहकं त्र्यहं च विहितोत्सर्गादिभिश्चान्तरैरस्मिन् शासनभासनं विदधते प्रौढेस्तपःकर्मभिः५८१७ सत्काव्यादिकलाकलापकुशलं संश्रुत्य येषां वचः कारुण्यं दधते गुरौ सुमनसां प्राज्ञाः कवौ ज्ञेऽपि च । राजन्यावलिमौलिमौलिगमणीदीप्ताहयः सूरयस्तेनैकेऽत्र विभान्ति कोविदसभालङ्कारहारोपमाः५९।८। प्रभावकैरेवमनुत्तरप्रभैरयं समग्रैरपि राजते गणः । नरत्नजाति खलु सा प्रजायते रत्नाकरं या समतीत्यवर्त्तते ॥ ६ ॥ गणे भवन्त्यत्र न चैव दुर्मदा____ नहि प्रमत्ता न जडा न दोषिणः । विडूरभूमिः किल सोषवीति वा ___ कदापि किं काचमणीनपि क्वचित् ॥६॥ कस्मात् कस्माद्विनिर्गत्य हेतुभिर्विशदेतरैः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #113 -------------------------------------------------------------------------- ________________ १०४ श्रीमुनिसुन्दरसूरिविरचिता कलौ प्रशाखा प्रतिमा बभूवुर्बहवो गणाः ॥६२॥ प्रौढावदाततोऽयं तु प्राप्तोऽप्याह्वां नवां नवां । श्रीसुधर्मगणाधीशादारभ्याऽखण्डसन्ततिः॥ ६३॥ आज्ञाभङ्गान्तरायोत्थाऽनन्तसंसारनिर्भयैः । सामाचार्योऽपि पाश्चात्यैः प्रायः स्वैरं प्रवर्तिताः॥६४॥ उपधानप्रतिक्रान्तजिनार्चादिनिषेधतः । न्यूनिता दुःषमादोषात् प्रमत्तजनताप्रियाः॥६५॥ यत्तत्प्रासुकमिष्टाम्बुप्रवृत्त्यादिसुखावहाः । वीक्ष्यन्तेऽन्यगणेष्वत्राऽऽचरणा लक्षणोज्झिताः६६। त्रिभिर्विशेषकम् । या श्रीवीरसुधर्माद्यैः प्रणीतास्वाऽऽगमानुगा । आचीर्णा स्थविरैः कालानुरूपयतनाश्रिता ॥६७ ॥ सामाचारी गणेऽस्मिंस्तु शुद्धा सैवास्त्यखण्डिता । परपम्परागता सर्वगणान्तरगताऽधिका ॥ ६८॥ ॥ युग्मम् ॥ विनयानीहताक्षन्तिनैर्ग्रन्थ्यप्रमुखा गुणाः । दुर्लभा ये कलौ सर्वे तेऽपीक्ष्यन्तेऽत्र निर्मलाः॥६९॥ * वीक्ष्यन्ते चाऽन्यगच्छेष्वाचरणा लक्षणास्थिताःइत्यपि पाठः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #114 -------------------------------------------------------------------------- ________________ गुर्वावली। अत एव मिथोधर्मस्नेहः सूरिवरादिषु । संविग्नेष्वाऽऽगमज्ञेषु गणबन्धोऽपि निस्समः॥७॥ न स्वः कोऽपि परो वाऽत्र नैहिकोपक्रियापि च । तथाप्येनं भजन्ति ज्ञाः सर्वे ज्ञानक्रियोत्तरम्।।७१॥ अयमेव तदा सेव्यो मध्यस्थैः स्वहितैषिभिः। उपेक्ष्य कुलगुर्वादिकदाग्रहहतान् जडान् ॥७२॥ मेयः कथं महिमवाढिरयं गणेशश्रीदेवसुन्दरयुगोत्तमसूरिराजाम् । यत् पारगाणि न चिरादपि सन्मनांसि यानि प्रयान्ति सुरशैलशिरोऽपि वेगात्॥७३॥ एषां प्रभावकवरा विलसन्ति गच्छे - यहत्तथा नहि परेष्वपि शिष्यमात्राः । आबद्धमौलिमुकुटा इव चक्रिपुर्या ___पुंष्ठकुरा अपि न कर्बटकेषु दृश्याः॥७४॥ अहो रत्नत्रयीसषामना काऽपि विष्टपे ।। रत्नकोटीरपि त्यक्त्वा यत्तामाददते बुधाः ॥५॥ एषां शुद्धवचःप्रबुद्धहृदया मन्त्रीशहेमादयो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #115 -------------------------------------------------------------------------- ________________ १०६ श्रीमुनिसुन्दरसूरिविरचिता निस्सङ्गाः स्वजनादिषूज्झितगृहारम्भानवद्यक्रियाः । तैस्तैः वैश्चरितैरुदारललितैर्द्धर्मोपदेशामृतैः प्रौढिं सङ्गमयन्त्यहो तदभयानन्दादिवच्छासनम् ॥६॥ तदवाप्तधर्मदायसङ्घपतिर्लल्लसूनुनाथाह्वः । गणधर्माऽऽधारकरः प्रभावको भाति नृपमान्यः॥७७॥ एषां नानागुणमणिनिचिते ऽपारगच्छाम्बुराशौ दूरक्षिप्तातिचरणविलुठत्सङ्करे श्रीजयाये । उत्कल्लोले नवनवमहिमश्रीद्धशिष्यावदातैः सर्वेप्यन्ये प्रदधति गणका कण्ठकूपोपमानम् ॥७॥ __ चन्द्रलेखाच्छन्दः। सर्वतः प्रससरभाजि यशांसि क्षीरनीरनिधयन्ति यमीनां । तानि तत्र परसूरिततीनां ____ शीकरावलिरिवाथ विभान्ति ॥ ७९ ॥ एषां परेषामथ सूरिराजां चिकीर्षता विश्वकृता यशांसि । उन्मानबीजानि विचक्रिरे प्राक् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #116 -------------------------------------------------------------------------- ________________ गुर्वावली। १०७ पूर्णेन्दुबिम्बं किल तारकाश्च ॥ ८०॥ एभिः स्फीतैः शशधरकिरणक्षीरडिण्डीरगौरैः शुक्लाद्वैतं त्रिजगति गमिते स्वैर्यशोभिः प्रपूर्य । अन्येषां चेहरिवृतति तदा तल्लवानैवलम्याः सत्ता यस्माद्विरमति सरितां सिन्धुना सङ्गतानाम्८१ चन्द्रलेखाच्छन्दः । को ऽवेदयिष्यत् तुलनामतीतान् __ श्रीगौतमस्वामिमुखानतीतान् । युगोत्तमाभा यदि नाभविष्यन् निदर्शयन्तः स्वगुणैरिमे तान् ॥ ८२॥ वीरेण ये शासनधारका महा चार्याः स्वनिर्वाणपदादनूदिताः। एतेऽवगम्याः खलु ते गुणोच्चयै राजैतदीयैब शिवाय तत्कृता ॥ ८३ ॥ एतच्च काव्यपञ्चकं प्राक् लिखितमप्यधिकार सौष्ठवात् पुनरिहापि लिखितमिति । श्रीवीरतोऽभूद्गणराट् ससप्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #117 -------------------------------------------------------------------------- ________________ १०८ श्रीमुनिसुन्दरसूरिविरचिता त्रिंशो वृहद्गच्छपसर्वदेवः । तस्माज्जगच्चन्द्रगुरुस्तपाहीं मूलं गणेन्द्रौ नवमश्व४५ जज्ञे ॥ १४॥ तस्माज्जयन्ति गुरवो गुरवोऽत्र षष्ठाः श्रीदेवसुन्दरगणप्रभवोऽ ५० ऽधुनेमे । स्युर्दादशा१२श्व निखिलानधिकृत्यसूरी नेभ्योऽपि पञ्चकिलसप्तदशेति सर्वे॥ ८५ ॥ एवं श्रीवीरजिनात् सन्ततिकृद्गच्छनाथगुरुगणने एते स्युः पञ्चाशा५ आसन् बहवोऽन्तराले च॥८६॥ त्रिपञ्चाशचतुष्पञ्चाशत्वाद्यपि भजन्त्विमे श्रीसम्भूतजयानन्दादिगणेशक्रमाश्रयात् ॥ ८७ ॥ विश्वातिशायिमहिमाम्बुधयो जयन्तु श्रीदेवसुन्दरयुगप्रवराश्चिराय । श्रीशासनोद्धरणधीरतमाः क्रियासुः श्रेयःश्रियं सुविपुलां विपुलाङ्गभाजाम् ॥८॥ श्रीवीरतीर्थकमले प्रवचनमातृप्रबुद्धदलकलिते । सूरैर्युगप्रधानैः प्रकाशिते महिमसौरभ्ये ॥ ८९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #118 -------------------------------------------------------------------------- ________________ गुर्वावली | १०९ विलसन्ति राजहंसा यावत् श्रीसङ्घलोकमधुपाश्च । दुष्प्रसहान्ता तावत् सन्ततिरेषां चिरं जयतु ॥ ९० ॥ युगोत्तमानां गुणसिन्धुबिन्दूनादाय वाणीति कृता पवित्रा । मयार्जितं यत्किल तेन पुण्यं ततोऽस्तु मे ज्ञानचरित्रशुद्धिः ॥ ९१ ॥ आमूलतः सुविहितावलिमौलिमौलिश्रीमत्तपागणनभोऽर्कगुरूत्तमानाम् । श्रुत्वा गुरुप्रभुमुखाद्रथितेति किंचि - दैतिह्यपङ्किरमला गुरुगच्छभक्त्या ॥ ९२ ॥ रसरसमनुमितवर्षे १४६६ मुनिसुन्दरसूरिणा कृता पूर्व म् मध्यस्थैरवधार्या गुर्वालीयं जयश्री ॥ ९३ ॥ प्रायो गुरूणां मुखतोऽधिगम्या ऽन्यतोSपि किंचिच्च विनिर्मितेयम् । यच्चाऽत्र किंचिद्वितथं बुधैस्त च्छोध्यं च मिथ्याऽस्तु च दुष्कृतं मे ॥९४॥ जगत्त्रयख्याततपागणस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #119 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिषिरचिता शाखास्तुतेयं वृहती मयेति। किञ्चिच्च लघ्वी सकला अपीमाः श्रीवीरमार्गानुगमा जयन्तु ॥१५॥ मूलं यस्य जिनेश्वरो गणभृतां स्कन्धोपमं मण्डलम् शाखाः सन्ततयस्ततश्च यतीनां साध्व्यःप्रशाखाः पुनः। श्राद्धाः पत्रगणाश्च मञ्जरितुलारूढाश्च सुश्राविकाः सर्वाभीष्टफलप्रदः स जयति श्रीसङ्घकल्पद्रुमः॥४९६॥ ___इति श्रीयुगप्रधानावतारश्रीमत्तपागच्छाधिराजवृहद्च्छनायकपूज्याराध्यपरमाप्तपरमगुरुश्रीदेवसुन्दरसूरिंगणराशिमाहिमाऽर्णवानुगामिन्यां तद्विनेयश्रीमुनिसुन्दरगणिहृदयहिमवदवतीर्णश्रीगुरुमभावपद्मादप्रभवायां श्रीमहापर्वाधिराजश्रीपर्युषणापर्वविज्ञप्तित्रिदशतरङ्गिण्यां तृतीये श्री गुरुवर्णनस्रोतसि गुर्वावलीनाम्नि महाहृदेऽनभिव्यक्तगणना एकषष्टिस्तरङ्गाः॥ सम्पूर्णश्वायं श्रीगुर्वावलीनामा महाइदः । इतिवृहत्तपागच्छश्रीगुर्वावली वृहती श्रीमुनिमुन्दरसूरिकृता। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #120 -------------------------------------------------------------------------- ________________ ॥श्रीः ॥ श्रीजैनयशोविजयग्रन्थमाला आ ग्रन्थमालामां प्रगट थयेला संस्कृतपुस्तको: (१) प्रमाणनयतत्त्वालोकालङ्कार आ पुस्तक न्यायनो एक अमूल्य ग्रन्थ छे, तथा जैन न्याय नी अन्दर प्रवेश करवामा तेमज पदार्थ- यथा तथ्य स्वरूप समजाववामां आ ग्रन्थ एक अद्भुत भोमियो छे. माटे न्यायनी शरुआत करनार दरेक अभ्यासाने अत्यन्त उपयोगी थाय ते. टला माटे ते सुन्दर ग्रन्थनी किंमत मात्र आना ८ राखवामां आवी छे. पोस्टेज जर्नु । (२) हैमलिङ्गानुशासन (अवचूरि सहित) आ पुस्तक श्री हेमचन्द्राचार्य विरचित छे, अने संस्कृत भाषाना अति कठिन शब्दोचें तेमज तेना लिंग सम्बन्धीनु ज्ञान, आ पुस्तक ना थोडा श्लोकोनुं अध्ययन करवाथी, स्वयमेव थइ जाय तेम छे. उपरान्त ते ग्रन्थनी रचना श्लोकमय होवाथी कंठाग्र करनारने सुगम थइ पडशे. एकंदर आ पुस्तक घणुं उमदा छे. छूटक किंमत आना ५ पोस्टेन जुईं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #121 -------------------------------------------------------------------------- ________________ (३) श्रीसिद्धम शब्दानुशासन (लघुवृत्ति) धातुपाठ सहित । कलिकाल सर्वज्ञ श्रीमद् हेमचन्द्राचार्य महाराजना बनावेलो, महा चमत्कारी अने अल्प प्रयासथी अति बोधदायक आव्याकरणनो ग्रन्थ खरेखर, संस्कृत विद्याना दरेक अभ्यासीने आशिर्वाद रूप छे. आ व्याकरणनो ग्रन्थ सर्व व्याकरणमां शिरोमणि छे, तेमज तेना अभ्यासकने बीजा कोइ व्याकरणनी अपेक्षा रहेतीनथी तेनी खातरी आ ग्रन्थनो अनुभव लेवाथी थया विना रहेशे नहिं. विद्यार्थिने सुगम थाय तेटला सारु धातुपाठनुं प्रकरण पण आपवामां आव्युं छे, आ ग्रन्थ अमूल्य छे छतां तेना कदना प्रमाणमां किंमत मात्र रु० २८-० राखवामां आवीछे ते जुन छे, अने ते उपरान्त तेना ग्राहकने हैमलिंगानुशासन भेट आपवामां आवे छे । पोस्टेज जूनुं । (४) गुर्वावली चरिम तीर्थंकर श्री महावीर स्वामीथी लड़ने दरेक तपागच्छना आचार्योनी क्रमवार पट्टावली अति मधुर भाषामां वर्णववामां आवेली छे. विद्वद्वर्य श्रीमन्मुनिमुन्दरसूरि विरचित आ ग्रन्थ संस्कृत श्लोकबद्ध छे. अने तेनो अभ्यास करवाथी दरेक पवित्र आचार्येना गुण, तथा चरित्रनो बोध थवा साथ काव्य नं ज्ञान पण सहेज थइ शकशे. माटे ते ग्रन्थ दरेक जैन साधर्मि भाइए पठन करवा लायक तेमज खास संग्रह करवा लायक छे. किंमत आना ८ पोस्टेज जूनुं । इत्यलम् ॥ मलवानुं ठेकाणं श्रीयशोविजयजी जैनपाठशाला बनारस सीटी । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #122 -------------------------------------------------------------------------- ________________ (3) श्रीसिद्धहेमशब्दानु धातुपा कलिकाल सर्वज्ञ श्री महा चमत्कारी | करणन ग्र zlcbble 3.bL Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com