________________
२८
श्रीमुनिसुन्दरसूरिविरचिता ग्रन्थाद्याऽन्याप्यस्त्यनेकाऽ स्य सृष्टिः । एवं नानाग्रन्थसोपानपङ्क्तया स्वारोहं तन्मुक्तिसौधं व्यधात्सः ॥ २० ॥
। युग्मम् । योऽभूत्तदीयोऽथ लघुः सतीर्थ्य
स्तदाग्रहादाप्तपदप्रतिष्ठः। सूरिः सुविद्वान् विजयेन्दुनामा
प्रावर्त्तयत्सोऽथ पृथक् स्वशाखाम् ॥२१॥ इति चेह तत्सम्बन्धः श्रूयते तथाहिपुरा विजयचन्द्रोऽभूद्वस्तुपालस्य मन्त्रिणः ।
सचिवो लेख्यके दये क्षिप्तः कारागृहेऽन्यदा॥२२॥ देवभद्रगणीनां स द्विधा शिक्षाकृतेर्पितः। नाम्ना विजयचन्द्रोऽभूत् प्राक् तदाप्याप्तशास्त्रवित्,२३ श्रीजगच्चन्द्रगच्छशैः शिष्यवात्सल्यशालिभिः । न्यस्तः सूरिपदे देवभद्रगण्युपरोधतः ॥२४॥ साहाय्यायापि देवेन्द्रः सूरीन्द्राणां गणावने । अहंयुत्वानिषिद्धोऽपि वस्तुपालेन मन्त्रिणा॥२५॥ * देवभद्रगणीन्द्रः स बोधितो मन्त्रिराजतः ॥ विमोच्य श्रीजगच्चन्द्रसूरिपार्थेऽग्रहीद्ववामित्यपि पाठः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com