________________
श्रीमुनिसुन्दरमरिविरचिता श्लाघ्या न केषामिह तस्य बन्धवः। ये दीक्षिताः श्रीमुनिचन्द्रसूरिणा
प्रतिष्ठिताः सूरिपदे च शिक्षिताः॥७१ ॥ अष्टहयेशमिते ११७८ ऽब्दे
विक्रमकालादिवंगतो भगवान्। श्रीमुनिचन्द्रमुनीन्द्रो
ददातु भद्राणि सङ्घाय ॥ ७२ ॥ तस्मादभूदजितदेवगुरु ४२ गरीयान् प्राच्यस्तपःश्रुतनिधिर्जलधिर्गुणानाम् ।
श्रीदेवसूरिरपरश्च जगत् प्रसिद्धो वादीश्वरोऽस्तगुणचन्द्रमदोऽपि बाल्ये॥७३॥ येनार्दितश्चतुरशीतिसुवादिलीला
लब्धोल्लसज्जयरमामदकेलिशाली । वादाहवे कुमुदचन्द्रदिगम्बरेन्द्रः
श्रीसिद्धभूमिपतिसंसदि पत्तनेऽस्मिन्॥७॥ स्याहादरत्नाकरतर्कवेधा
मुदे स केषां नहि देवसूरिः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com