________________
श्रीमुनिमुन्दरसूरिविरचिता नवा मृगैः शौर्यविज्रिम्भितं हरेः। नभःप्लुतिं नो मशकैर्गरुत्मतो ___ वेर्न खद्योतकरैर्दितां भरम् ॥ ३१ ॥ नगैर्न गाङ्गेयगिरेर्यथोच्चतां ___ जलाशयों जलधेरगाधताम् । द्रुमैः प्रभावं न च कल्पशाखिनो
न दुर्गतैः श्रीस्फुरितं च चक्रिणः ॥३२॥ यथा न भूतैर्ललितं सुरेशितु.
न लीर्थिकस्तीर्थकृतोऽर्थदेशनाम् । समग्रविद्याविदुरैर्न नो गुरो
स्तथाऽनुकर्तुं चरितं प्रगल्भ्यते ॥ ३३ ॥ ततो मुधा गर्जसि गर्वपर्वतो ।
मन्यामहे त्वां न तृणाय दुर्मते । अस्मद्गुरोर्मन्त्रसमीरणोद्धुतो
न तूलकल्पः स्थिरतां प्रधास्यसि ॥३४॥ मृगस्य सिंहस्तमसश्च भानुमा
नसिम्रणालस्य तृणस्य चा ऽनलः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com