________________
गुर्वावली । अहेर्गरुत्मानिव लीलयाऽप्यलं तवापहर्तुं मदजीवितं गुरुः ३५ ॥
निशम्य योगीति रुषा स लब्धा
जान्वायतस्थूलरदास्यभीष्मम् ।
विधाय रूपं विकृतं जिघत्सु
रिवाभ्यधावच्चलयन् भुवं तान् ||३६||
मुमुक्षवस्तद्रदपातसूचिनीं
कफोणिमुद्भूर्य पलाय्य च द्रुतम् ।
५३
सकम्पगात्रास्तरलेक्षणा भया
गुरुं वसत्यां शरणं प्रपेदिरे ॥ ३७ ॥ मा भैष्ट मा भैष्ट कुतो नु वो भयं
मयि प्रभौ त्रातरि हे विनेयकाः । इतीरिता श्रीगुरुणाथ संभ्रमा
दाश्वस्य वृत्तं मुनयोऽपि तज्जगुः ॥ ३८ ॥ यावत्तदाकर्ण्य करोति रोषतो
भ्रुवं ललाटप्रणयोद्धुतां गुरुः ।
तावत्प्रदोषे विचकार दूरगो
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com