________________
५७
गुवावली । ब्रह्मा त्वमेवाखिलब्रह्मनिष्ठः । त्वमेव सत्यं पुरुषोत्तमोऽसि
त्वमेव बुद्धः सकलार्थवेदिन् ॥ ४७ ॥ अबुद्धतत्वस्य मुधाऽभिमानिनो __ ममासि बुद्धः सुचिराज्जगद्गुरुः । त्वदीयपादाऽब्जरजोऽणुनाऽपि चे
तुलां लभे तर्हि भजे कृतार्थताम् ॥४८॥ समग्रविद्याविभवात्मकस्य ते
पुरोऽणवत्येष सुसिद्धिभागपि । बिभर्ति यस्माल्लघिमानमुच्चकैः
पुरः सुमेरोर्निखिलोऽपि भूधरः॥४९॥ इति खनिन्दामुखरः सविस्मयः
सुभक्तिभाक् सर्वजनस्य पश्यतः। स्तुवन्मुदाऽऽनम्य गुरुं सहानुगै___ जगाम विद्वान् स्वपदं स योगिराट् ॥५०॥ अहो जयत्याऽऽर्हतशासनं प्रभु
गुरुः स यस्येदृशशक्तिमानयम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com