________________
२६
श्रीमुनिसुन्दरसूरिविरचिता
महाप्रभाभूः शिवभूतिदायकः ॥ ९ ॥ स दिद्युते बालसुधाकरप्रभः प्रभुर्भवाधःकृतिकर्मनिर्मितौ । सदर्चनीयो विबुधालितुष्टिकृन्निरञ्जनैकोदितपुण्यसत्कलः ॥ १० ॥
समग्रविद्यातपसां प्रणेतृताप्रणीतसन्मानसविस्मयाऽद्वयः ।
स जग्रसेऽन्याखिलसूरिमण्डली -
महांसि माद्यन्महिमैककान्तिभिः ॥ ११ ॥ सोऽभूद्गुरुः कोऽपि नवः कविस्तुतो मित्रारमाध्यस्थधरो बुधप्रियः । तत्वोक्तिभिर्नास्तिकदर्शनं क्षिपन्
शिवङ्करो मार्गयुतोऽपि देहिनाम् ॥१२॥ किं सर्वागमदुग्धवारिधिभवाः स्फारा लहर्यो ह्यमूः किं मोहाहिविषोर्मिमूच्छितजगज्जीवातवोग्याः सुधाः । किं वा शासनसौधभासनचणा दीप्राः प्रदीपश्रियो भावध्वान्तभिदः सतामिति मतिं तेनुस्तदीया गिरः। १३
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com