SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०२ श्रीमुनिसुन्दरसूरिविरचिता अस्मिन् धर्मकथाप्रथास्ववितथप्रावीण्यलुभ्यत्प्रभाभ्राजन्ते निजदेशनानवरसैः पीयूषयूषोपमैः । कुर्वाणाः स्मृतिगोचरे सुमनसां श्रीसूरिमुख्यामहालब्धीः पूर्वमुनीश्वरेषु विदिताः क्षीरास्रत्वादिकाः५४।२ तर्कव्यासविलाससाधुविविधोपन्यासवात्याबलात् प्रोद्भूतद्धमदप्रवादिविदुरप्रोत्तालतूलबजा। भूपादिप्रकटप्रभावविभवा वादेषु लब्धप्रभा भ्राजन्ते प्रतिभाऽभिभूतधिषणा नैकेऽत्र वादीश्वराः।५५। भौमाभ्रादिभवन्निमित्तविदुराः सम्यक्श्रुताभ्यासतः केचित् केऽपि च पात्रतामधिगताः सन्मन्त्रयन्त्रश्रियाम्। सिद्धाभिस्त्वनवद्यहृद्यविलसद्विद्याभिरन्येऽधिका नानाऽऽम्नायसमृद्धिभिस्तदऽपरे चूर्णादिसंवेदिनः॥५६॥ क्षीरांभोनिधिजिद्गभीरहृदये गूढस्वशक्तिश्रियः प्रौढे च प्रविदर्यमानविभवाः सङ्घादिकार्यव्रजे । अस्मिन् शासनभासनैकनिरताः स्वाचारसंचारिणो द्योतन्ते मुनिनायका भवभिया सावद्यमुक्तक्रियाः॥५७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034840
Book TitleGurvavali
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherYashovijay Jain Pathshala
Publication Year1907
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy