________________
३. श्रीमुनिसुन्दरसूरिविरचिता पुस्तकशालादियुतं तं मुक्त्वा ऽस्थात्पृथग्वसतौ॥३४॥
। युग्मम् । देवेन्द्रसूरिसुगुरोः ख्याताः शिष्यास्तु वृद्धशाखायाः। संविमत्वाच्च गुरुर्विज्ञैरर्च्यः स एवासीत् ॥३५॥ विजयेन्दुविनेयाश्च ख्याता मुग्धेषु वृद्धशालायाः। विज्ञाः पुनर्जगुस्तान् लघुगुरुशालाभवान् युक्तम्३६
संग्रामसौवर्णिकपूर्वजस्तदा
पार्थक्यमालोक्य गुरुद्वयस्य तत्। श्रयामि के नन्विति संशयाकुलः
सदैवतं बिम्बमुपास्थिताऽर्हतः ॥ ३७ ॥ देवेन्द्रसूरिभरतोत्तमोगुरु
टुंगोत्तमाभो भविता महान्वयः । तमेव सेवस्व यदीहसे शिवं __तमादिदेशेति च देवता निशि ॥ ३८ ॥ दत्तशुद्धवसतिस्ततोऽभज
तं गुरुं स बहुनैगमान्वितः। दापितस्वजनसंयमो मुदे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com