________________
श्रीमुनिमुन्दरसूरिविरचिता भृगुपुरघोघातीर्थस्तोत्रमुखा विहितचित्तसुखा||६२॥
ते सत्पदोन्नतिभृतः सुगभीरघोषाः निर्वापिताखिलजनाऽघनिदाघतापाः । प्राप्ता घनागमरमाममृतं ददाना घोस्था भवन्तु भुवि मङ्गलवल्लिपुष्पैः ॥६३॥ सूरीश्वराः श्रीकुलमण्डनाहा
स्तेषां विनेया अभवन् द्वितीयाः। भाग्यं यदीयं पुनरद्वितीयं
ख्यातं यशश्च त्रितयेऽपि लोके ॥६४ ॥ संवित्तिरेव सततं हृदि वावसीति
नो ऽसंवृतिस्तु लभते ऽपि पदप्रवेशम् । क्रुडेति साऽऽप्य परवादिततीविरुद्धा
स्तेषांजघान किल जल्पजकेलिशर्म ॥६५॥ तदीयचातुर्यरमावलोककैः
सम्भाव्यते ऽपीन्द्रगुरोः स्म मूर्खिमा। शेश्रीयते गोष्पदतां यतः सरो
महाम्बुराशेः पुरतो ऽपि मानसम् ॥ ६६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat ____www.umaragyanbhandar.com