________________
८३
गुर्वावली। वर्षत्स्वाप्तमहोन्नतिष्वनुपमोपन्यासपूरामृतम् ॥५६॥ पीला विनाशिताम्भोधि पीताब्धि कः प्रशंसति । पीतस्याब्धेर्न यस्याऽस्थादुदरे बिन्दुरप्यहो ॥५७ ॥
चन्द्रशेखरसूरीणां ज्ञानाब्धिस्तैस्त्वशेषतः । पीला हृदि धृतःसर्वः खादुर्दत्तो ऽप्यवर्द्धत ॥५८॥
॥ युग्मम् ॥ स्त्रीपुंसाद्याकृतिभिरुदिते बाह्यरूपैरविद्याशक्त्या भातैस्तदपगमतश्चिन्मयैकात्मलीनम् । सत्तामात्रं न यदुपगतं तत्त्वतोऽस्मिन् विवर्ते चित्तं तेषां तदपि विषयग्रामबद्ध कथं स्यात् ॥१९॥ साम्यारामे स्थिरतरलयात्सर्वदोन्मीलदेकानन्दास्वादेऽपसृतसकलोपाधिजव्याकुलत्वे । शान्त्याश्लेषप्रणयिनि यदात्मन्युदेतीह सौख्यं रम्भाभोगोद्भवमिव हरिस्तत्तएवान्वभूवन् ॥६०॥ मूलग्रन्थचतुर्दिक्षुशासनौकार्थदीपिकाः । दीपिका इव राजन्ते तत्प्रणीताऽवचूर्णयः ॥६१॥ तत्कृतिवेला जल्पति पीतत्रैवैद्यवादिगाम्भीर्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com