________________
गुर्वावली |
स बाणबाणत्रिकुवर्ष १३५५ माघे जातः पदाभ्यामनुकूलखेटैः । नन्दाङ्गविश्वे १३६९ व्रतमाप्य भेजे वन्ह्यश्वविश्वे१३७३ऽपि पदप्रतिष्ठाम् ॥७३॥
सूरीन्द्रसोमप्रभपट्टभास्करो
बालोप्यसौ प्राप्तपदप्रभोदयः ।
६३
क्षमाभृतां मौलिनिघृष्टपादभृत् विदिद्युते स्फारयशः प्रतापवान् ॥ ७४ ॥
अयं निजैः सूरिगुणैरनुत्तरैः
सूरिर्न कैरप्युपमामशिश्रियत् । येनोपमीयेत सरोऽम्बुराशिना
न चाम्बुराशिः सरसाम्बुऋद्धिभिः॥७५॥
अल्पायुष्ट्वात्सूरित्रितयस्यैकोप्यसावपाद्गच्छम् । रक्ष्यत्येकोऽपि वनं सिंहो न तु लक्षशोऽपि मृगाः। ७६ । न कैर्गजः सङ्घपतिः प्रशस्यते स जङ्घरालाव्यवहारिमण्डनः । यष्टङ्क सार्द्धायुतयामल २५००० व्यया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com