________________
श्रीमुनिसुन्दरसूरिविरचिता
गणाधिपख्यातिधरोऽपि शङ्करो बभूव लोके पुरुषोत्तमश्च यः ॥ ३ ॥
जाते समं वीरजिनेन वादे
विभावयामो जयमेव तस्य । अगोत्रजोऽप्येष यदस्य कोशं
रत्नत्रयाद्यं खवशीचकार ॥ ४ ॥ क्षमाधरेन्द्रस्तनुतां स पञ्चमः
श्रीमान् सुधर्मा २ गणभृत् सुखश्रियम् । विभाति गङ्गेव यदुत्थसन्ततिः
पुरः पुरो विस्तृतिभाक्स्वपाविनी ॥ ५ ॥ शिष्योऽस्य जम्बू ३ र्ददतां शिवं सतामपश्चिमः केवलसम्पदः पतिः ।
न्ययुङ्क्त यः पुण्यवसूनि रक्षितुं
प्रभुर्विवेकी परिमोषिणोऽप्यहो ॥ ६ ॥
आरक्षकोवीरविभोर्न जम्बूसमोऽभवत्पञ्चशतानि चौरान् ।
चक्रे समं यश्चरणे नियम्य
१ विस्तर इति च पाठः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com