________________
श्रीमुनिसुन्दरसूरिविरचिता समुद्धरन् धीरतयोग्रदुःषमा
पङ्कौघसंपाति जिनेन्द्रशासनम्॥४७॥ विश्वैकस्पृहणीयरूपसुभगां त्रैलोक्यकुक्षिम्भार तत्कीतिं सुविधाय शेषदलकैश्चक्रे विधातोज्वलान्। कैलासं भुजगेश्वरं हरमिभं वाहं च नाकिप्रभोः क्षीराम्भोनिधिमिन्दुकुन्दकुमुदप्रालेयशङ्खादिकान।४८॥ किं त्रातुं समवातरत्सुगतवद् वीक्ष्यादित शासनं स्वं सर्पत्कलिनागतोऽपि हि शिवं श्रीमान् सुधर्मा भुवि किं वाऽयं गुरुगौतमः किमथवा श्रीवीरनेता स्वयं तस्मिन्नित्यभवन् युगोत्तमगुणाधारे विकल्पाःसताम्४९ निश्शेषस्वपरागमार्थनिलयः षट्तय॑भिज्ञाग्रणीः कोशः सद्गणिसंपदा त्रिजगतः सारिवात्तैः कृतः। भारत्याश्च रणश्रियश्च भरतोत्कृष्टः पतिःसोऽभवन्नान्यस्त्वाहतशासनोपनिषदस्तस्योपमानं गुरोः॥५०॥ प्रायेण वंशाः पृथवोऽपि मूलतः
परे तनुत्वं दधते पुरः पुरः अमुष्य वंशस्तु दधौ विशालतां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com