________________
श्रीमुनिसुन्दरसूरिविरचिता
५०
देवेन्द्रैःसह लोठयामि पदयोर्ब्रह्मेशनारायणान् ॥२२॥ भोभोदर्शाननः समस्तिपटुता कस्यापि चेत्तन्मया सार्द्धं वादरणं करोत्वाभिमतं कृत्वा पणं सोऽधुना । नोचेत्यक्तमदा मर्दायमखिलाः सेवध्वमंह्रिद्वयं दूरं यात पलाय्य वाऽपि सकलान्नोचेद्विलाम्येष वः२३ इति प्रतिज्ञां प्रवदन्मदात्तदा जगत्त्रयेऽप्यप्रतिमल्लतां विदन् ॥
वित्रासितान्याखिलदर्शनिव्रजो
नैवाज्जयिन्यां स ससाह संयतान् ॥२४॥
श्रीधर्मघोषः प्रभुरन्यदाऽगमत्
स तत्र धात्र्यां विहरन्महर्षियुक् । अमुष्य शिष्याश्च स वीक्ष्य वर्त्मनि
क्रुधाकुधीर्दष्टरदच्छदोऽवदत् ॥ २५ ॥
इहागताः किं नु पुरे सिताम्बरा विहाय मूढा विपुलं धरातलम् । मुमूर्षुगोधानुनिषादपाटकं
न बीक्षित श्वेतदहं श्रुतोऽपि न ॥ २६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com