________________
गुर्वावली। ज्योत्स्नापूरः परागः
सितकरकिरणाः केसरालीव भाति स्फीतं तत्तद्यशोऽब्जं त्रिभुवनसरसि व्योमभृङ्गानुषङ्गि ॥ २४ ॥ न विद्यया नैव तपोभिरग्रिमै
नवा महिना न च भाग्यसम्पदा । गुणर्दिभिर्वाप्यधिकः समोऽथवा
म कोऽपि तेषामधुनेह वीक्ष्यते ॥२५॥ तदीयपट्टे गुरवो जयन्ति ये
ये चापुरिन्द्रातिथितां विधेर्वशात् । तन्नामसङ्कीर्तनपुण्यवारिभि
गिरं पवित्रां विदधे ऽधुना मुदा ॥ २६ ॥ श्रीज्ञानसागरगुरुप्रभवो ५१ बभूवुराया यदीक्षकबुधा इति चिन्तयन्ति । मुक्तोऽपि गौतमगुरुः समवातरत्स्वं
वीक्ष्यान्वयं सुगतवत्किलदुःस्थमेषः ॥२७॥ अन्तः साम्यसुधाहृदप्रसृमराः किं प्रोच्चवीचीचया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com