________________
गुर्वावली। सद्योजिते गोपगिरेनरेन्द्रः॥ ४४ ॥ तत्पट्टभूषाकृदभून्मुनीनां
त्रिभिः शतैः सेव्यपदः सदाऽपि । उद्योतनः सूरि ३४ रवद्यहीन
विद्यानदीविश्रमासन्धुनाथः ॥ ४५ ॥ समस्त्यथो शैलकुलावचूलः
श्रीअर्बुदस्तीर्थपवित्रितात्मा । नानापुरग्रामतटाकवापी
धुनीवनभ्राजिततुङ्गमौलिः ॥ ४६ ॥ कथं भवेन्नो हिमधामभूभृत__ स्तनूभुवः क्षोणिधरेषु राजता । नीचैटुंठद्भिः किल यस्य सर्वतः
पादा निषेव्या विविधैः क्षमाधरैः॥ १७ ॥ यन्मूर्ध्नि गोपीगणकेलिगीत__ श्रीमयुगादीशगुणामृतानाम् । ग्रहाः प्रयान्तश्विरपानलोलाः
सर्वेऽपि वाञ्छन्ति शनैश्चरत्वम् ॥४८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com