Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 521
________________ सप्तमीपञ्चम्य कारक मध्येइति ] व्युत्पत्तिवादः । कारकद्वयव्यवधायकतामभिधत्ते तथा च स्वाधिष्ठितदेशानन्तरक्रोशात्मकाध्वभागानन्तरदेशस्थं लक्ष्यं विध्यत्यर्जुन इत्यादिः प्रथमस्थले बोधः, समभिव्याहतकर्त्रधिष्ठितदेशानन्तर्य विशेषणतया प्रकृत्यर्थान्वयि विशेष्यतया प्रकृत्यर्थान्वयि चानन्तरदेशस्थत्वं पञ्चम्यर्थः | स्वीयैकार्यान्वितापरपदार्थान्वितापरस्वार्थवोधकत्वमप्यत्र व्युत्पत्तिवैचित्र्यादेकपदस्य स्वीक्रियते । भोजनकृत्यधिकरणैतद्दिवसानन्तरद्र्यहानन्तरदिनवृत्तिभोजनकृतिमानयमित्याकारक बोधश्चरमस्थले । 66 ८ प्रकृत्यर्थभूतस्याध्वनः कारकद्वयव्यवधायकताम् = अर्जुनरूपकर्तृ कारकस्य लक्ष्यभूतकर्मकारकस्य च मध्ये व्यवधानभूतः कोशात्मकोध्वा वर्तते इति क्रोशपदोत्तरपञ्चम्यभिधत्ते, तथा द्वितीयोदाहरणे ' द्र्यहात् ' इति पञ्चम्यन्तप्रकृत्यर्थभूतस्य कालस्य कारकद्वयव्यवधायकतामभिधत्ते= अद्यभोजनकर्तृरूपकारकस्य द्वयहानन्तरभोजनकर्तृरूपकारकस्य च मध्ये द्वयहात्मकः कालो वर्तते इति द्वयहपदोत्तरपञ्चम्यभिधत्तेः इत्यर्थः, यद्यप्यत्राद्य द्र्यहादनन्तरं चैक एव भोजनकर्तेति न कालस्य व्यवधायकत्वं संगच्छते पदार्थद्वयमध्यपतितस्यैव व्यवधायकत्वात्तथाप्यत्र कर्तृकारकपदेन कृतिरूपं कर्तृत्वं ग्राह्यं तच्च भोजनक्रियाव्यक्तिभेदाद् भिन्नं भिन्नमेवेति तद्व्यवधायकता कालस्य नानुपपन्ना, इदं च स्वयमेवाग्रे वक्ष्यति - कारकद्वयमध्यवर्तितेत्यादिना । अर्जुन: क्रोशात् ' इत्यस्य वाक्यार्थमाह- स्वाधिष्टितेति । स्वम् = अर्जुनः । यस्मिन् देशेऽर्जुनस्तिष्ठति ततः कोशात्मकाध्वभागादनन्तरदेशस्थं लक्ष्यं विध्यतीत्यर्थः । अत्रत्यपञ्चम्या अर्थमाह- समभिव्याहृति, स्वाधिष्ठितदेशानन्तरकोशात्मकाध्वभागानन्तरदेशस्थम् " इत्यत्र पूर्वपूर्वपदार्थ - स्योत्तरोत्तरपदार्थे विशेषणत्वादुत्तरोत्तरस्य च विशेष्यत्वात् समभिव्याहृतो योऽर्जुनरूपः कर्ता तदधिष्ठित देशानन्तरखं विशेषणतया = विशेषणत्वेन रूपेण प्रकृत्यर्थे = कोशपदार्थेऽन्वेति सच कोशपदार्थोपि अनन्तरदेशस्थत्वपदार्थे विशेषणमस्तीति तादृशानन्तरदेशस्थत्वं विशेष्यतया= विशेष्यत्वेन रूपेण प्रकृत्यर्थे कोशपदार्थेऽन्वेतीति पदार्थास्तत्र प्रकृत्यर्थभूतक्रोशपदार्थे यद्विशेषणतयान्वयि अनन्तरदेशस्थत्वं यच्च विशेष्यतयान्वयि अनन्तरदेशस्थत्वं तदुभयमेवाऽनन्तरदेशस्थत्वं पञ्चम्यर्थ: इत्यर्थः । नन्वेकस्य पञ्चमीरूपपदस्यैकस्मिन्नेवोदाहरणे कथमुक्तानन्तरदेशस्थत्व - द्वयबोधकत्वं स्यात् ? सकृदुच्चरितः शब्दः सकृदेवार्थं गमयति ” इति नियमादित्याशङ्क्याह - स्वीयैकार्थेति, स्वम् = पञ्चमी | स्वीय: पञ्चम्या य एकोर्थ: स्वा ( अर्जुना ) धिष्ठित देश - स्यानन्तर्य तदन्वितो योऽपरपदार्थ: कोशात्मकाध्वभागपदार्थस्तदन्वितो योऽपरः स्वार्थः = म्यर्थभूतमनन्तरदेशस्थत्वं तद्बोधकत्वमप्यत्र व्युत्पत्ति ( बोध ) वैचित्र्यादेकपदस्य पञ्चम्याः स्वीक्रियते तथा चात्र स्वाधिष्ठित देशानन्तरत्वविशिष्टकोशात्मकाध्वभागानन्तरदेशस्थत्वं विशिष्टमेकमेव पञ्चम्यर्थोस्तीति न सकृदुच्चरित : " इत्यादिनियम विरोधोपीत्यर्थः । द्वितीयोदाहरणस्य वाक्यार्थबोधस्वरूपमाह - भोजनकृतीति, भोजनानुकूलकृत्यधिकरणीभूतो य एतद्विवसस्तदनन्तरभूतो यो द्वयहकालस्तदनन्तरवर्तितृतीयदिने यद् भोजनं तदनुकूलकृतिमानित्यर्थः 1. ८८ :-पश्च <5 ( ५०९ ) " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668