Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 623
________________ लिङ्लोटोरर्थनिरूपणम् ] व्युत्पत्तिवादः । (६११) लिङ्लोटोविधिरर्थः- परप्रवृत्त्यर्थं तत्प्रयोगात् । विधिः प्रवर्तकज्ञानविषयो धर्मः, स च धर्मो न्यायनये कृतिसाध्यत्वं बलवदनिष्टाननुबन्धित्व (अजनकत्व) सहितमिष्टसाधनत्वं च, ' ओदनकामः पवेत् ' "स्वर्गकामो यजेत" इत्यादावोदनस्वर्गादिरूपं यत्फलं तत्साधनत्वं पाकयागादिक्रियायां प्रतीयते । तादृशफलानां च तत्तद्रूपेण लिङादिशक्यतावच्छेदककोटिप्रवेशे शत्यानन्त्यं सर्वसाधारण्येन व्युत्पत्त्यनुदयेनाऽपूर्वफलसाधनत्वबोधानिर्वाहश्चेतीष्टत्वेन तेषामनुगमः । इष्टत्वम् समभिव्याहतपदोपस्थापितकामनाविषयत्वम्, अत: 'स्वर्गकामः पचेत' इत्यादौ शक्तिभ्रमशून्यस्य नौदनादिसाधनत्वधी.. न वा तत्तात्पपेण तथाप्रयोगः प्रामाणिकानाम् । इष्टत्वज्ञानस्याऽप्रवर्तकत्वेपि शक्यफलानुगमार्थ तस्य शक्यता । वस्तुतस्त्व. झाधिकरणकदर्शनासंभवात्. अत्र च कलिङ्गगमनाभाव उक्त एव-"नाहं कलिङ्गान् जगाम " इत्यत्रात्यन्तापहवस्य सत्ताल्लिटः साधुत्वमस्त्येवेत्यर्थः । अयं चारयन्तापहवो न लिडर्थ इत्याह-- अत्यन्तापह्नव इति । लिङ्लोटोरर्थनिरूपणमारभते- लिङ्लोटोरिति, प्रवर्तकत्वमेव विधित्वमस्तीति लिब्लोटोः परप्रवृत्त्यर्थं प्रयोगाद्विध्यर्थकत्वमित्यर्थः । विधिस्वरूपमाह- विधिरिति । समन्वयमाह- ओदन इति । तादृशफलानाम् स्वर्गादिफलानाम् । तत्तद्रूपेण-स्वर्गत्वादिरूपेण । लिङादिशक्यतावच्छेदककोटीति-लिङः शक्यं यदिष्टसाधनत्वं तद्विशेषणीभूतेष्टस्य शक्यतावच्छेदकत्वं प्राप्तम् इष्टं च स्वर्गादिरेव तत्र स्वर्गादीनां स्वर्गवादिरूपेण शक्यतावच्छेदकत्वे शक्यानन्त्यं स्यात् तथा च सर्वसाधारण्येन व्युत्पत्त्यनुदयेन-शक्तिप्रहो न स्यादित्यज्ञातफलसाधनत्वबोधानुपपत्तिः स्यादिति तेषाम् स्वर्गादीनामिष्टत्वेनानुगमः- इष्टत्वेनेष्टसाधनत्वे लिङ्लोटोः शक्तिरित्यर्थः । इष्टत्वस्वरू. पमाह- इष्टत्वमिति, समभिव्याहृतं यत् स्वर्गकामपदं तदुपस्थिता या स्वर्गकामना तद्विषयत्वं स्वर्गस्यास्तीतीष्टत्वं प्राप्तम् । अत इति- यतः समभिव्याहृतपदोपस्थापितकामनाविषयत्वमिष्टत्वं तादृशेष्टसाधनखमेव च समभिव्याहृतव्यापार संभवत्यतः ' स्वर्गकामः पचेत ' इत्यत्र शक्तिभ्रमशून्यस्य पाकव्यापारे स्वर्गसाधनत्वज्ञानमेव जायेत न त्वोदनसाधनत्वज्ञानं समभिव्याहतस्वर्गकामपदेनेष्टत्वेन स्वर्गस्यैवोपस्थापितत्वात्, तत्तात्पर्येण ओदनसाधनवतात्पर्येण तथा' स्वर्ग. कामः पचेत ' इतिप्रयोगोपि न भवति किं तु स्वर्गसाधनत्वतात्पर्येणैव 'स्वर्गकामः पचेत । इतिप्रयोगः संभवति, भोदनसाधनत्वतात्पर्येण तु 'ओदनकामः पचेत । इत्येव. प्रयोगो भवतीत्यर्थः। - इष्टत्वेति- केवलमिष्टत्वज्ञानस्य प्रवर्तकत्वं न भवति, अन्यथा सुमेरुसमानयनेपि प्रवृत्तिः स्यादिष्टत्वादितीष्टस्वज्ञानस्याऽप्रवर्तकत्वेपि तस्य-इष्टत्वस्य शक्यभूतस्वर्गादिफलानामनुगमार्थ शक्यता स्वीक्रियते. अन्यथा शक्त्यानन्त्यं स्यादित्यर्थः । स्वाभिप्रायमाह- वस्तुतस्त्विति, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668