Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 647
________________ निषेधवाक्यार्थविचारः ] व्युत्पत्तिवादः । ( ६३५ ) भानमुपेयते । एवं च क्वचित् पाकादाविव सर्वत्रैव यागपाकादी लौकिकप्रमाणादेव कृतिसाध्यताबोधो निर्वहतीति वदन्ति । "न कलअं भक्षयेत् ” इत्यादिनिषेधंविधेः प्रामाण्यानुरोधतो. बलवदनिष्ठाननुबन्धित्वस्य विध्यर्थप्रवेश :- निषिद्धेपि कलञ्जभक्षणादौ तृप्त्यादिरूपेष्टसाधनत्वसत्त्वेन तदभावस्य नञा बोधने प्रामाण्यानुपपत्तेः, बलवदनिष्टाऽननुबन्धित्वस्य विधित्वे तस्यैवाभावो बलवदनिष्टनर कानुबन्धिनि तत्तत्कर्मण्य बांधितो बोध्यते इति तत्प्रामाण्योपपत्तिः । बलवदनिष्टाननुबन्धित्वस्येष्टसाधनता विशेषणतया वाच्यत्वे विशिष्टाभावस्यैव शाब्दबोधे भानम्, सोपि विशेषणाभावायत्तोऽबाधितः कलञ्जभक्षणादौ. विशिष्टाभावबोधानन्तरमेव तल्लिङ्गकानुमानगम्यो बलवदनिष्टानुबन्धित्वरूपस्तदनअत एवेति । प्राचीनैरिति- प्राचीनमते कर्मप्रत्ययस्थलेपिः कृतिराख्यातार्थ एव तादृशाख्यातार्थभूतकृतेः क्रियाविशेषणत्वमिति दृष्टान्तः, नवीनमते तु कर्मप्रत्ययस्थले कृतिस्तृतीयार्थो भवति न खाख्यातार्थ इति तृतीयायाः कृतौ शक्तिभिन्नैवेति शक्तिभेदे प्राप्ते लडादिस्थले भाख्यातार्थकृतेः क्रियाधिशेष्यत्वेपि कर्मप्रत्ययस्थले तृतीयार्थकृतेः क्रियाविशेषणत्वे न किंचिद्वैषम्याप्रतिरिति भावः इदं च तृतीयाकारकारम्भे द्रष्टव्यम् । उपसंहरति- एवमिति, यथा कचित पाकादौ लौकिकप्रमाणात् = प्रत्यक्षानुमानादितः कृतिसाध्यताबोधो भवति - चैत्रस्य समर्थत्वे तत्समवेतकृतिसाध्यत्वस्य पाकादो बोधोदयात् तथा सर्वश्रेष दिप्रमाणेन कृतिसाध्यताबोधी नितिन कृतिसाध्यत्वे विध्यर्थे इत्यपरे वदन्तीत्यन्वयः । नेति । विपक्षे बाधकमाह-- निषिद्धेपीति, यदि बलवदनिष्टाननुबन्धित्वम् = बलवदनिष्टाजनकत्वं विष्यर्थो न स्यात्तदा कलजभक्षणेपि तृप्त्यादिरूपेष्टसाधनत्वमस्त्येवेति तदभावस्य = ताद्दशेष्टसाधनत्वाभावस्य नत्रा बोधने बाधितार्थप्रतिपादकत्वादुक्तवाक्यस्य प्रामाण्यं नोपपद्येत. इष्टं च प्रामाण्यमित्यर्थः । स्वपक्षे साधकमाह - बलवदिति, बलवदनिष्टाननुचन्धित्वस्य विधित्वे विध्यर्थत्वे तु तस्य = बलवदनिष्टाननुबन्धित्वस्यैवाभावो नञा बलवदनिष्टरूपनरकादिजनके कल क्षणादिकर्मणि बोध्यते तादृशकर्मणि बलवदनिष्टाननुबन्धित्वाभावश्चाबाधित एवेत्ययाचितार्थबोधकत्वात् तत् = तस्योक्तवाक्यस्य प्रामाण्यमुपपद्यते, एवमन्यत्रापि निषेधवाक्यानां प्रामाण्योपपत्तिरित्यर्थः । ८८ मतान्तरमुपदर्शयति- बलवदनिष्टाननुबन्धित्वस्येति, यदि बलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेषणतया विधिप्रत्ययवाच्यखं नाम बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वस्य विधिप्रस्ययवाच्यता तदा न कल भक्षयेत्" इत्यादौ विशिष्टाभावस्यैव बलवदनिष्टाननुबन्धि स्वविशिष्टेष्टसाधनत्वाभावस्यैव शाब्दबोधे भानं संभवति-- कलञ्जभक्षणं बलवदनिष्टाननुबन्धिस्वविशिष्टेष्टसाधनत्वाभाववदित्यर्थः । सोपीति- कलञ्जभक्षणादौ तृप्यादिरूपेष्टसाधनत्वमस्त्ये "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668