Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 635
________________ व्युत्पत्तिवादः । प्रकृतशक्तिविचारः ] ङ्गात् । तादृशकार्यसंबन्धघटितेष्टकारणतायाश्च प्रमाणान्तरेणाऽप्रत्यायितत्वात् तंत्र शक्तिग्रहानुपपत्त्या शाब्दबुद्धौ तद्भानाऽनुपपत्तेश्च । न चेष्टतावच्छेदकत्वो पलक्षितस्वर्गत्वावच्छिन्ने कारणताघटकाधिकरणादिपदार्थे च खण्डशः शक्तिरुपेया. आकाङ्क्षावशाच्चाधिकरणरूपविध्यर्थे विजातीयस्वर्गनिरूपितसमवायस्य संबन्धतया भानात् तादृशकार्यसंबन्धघटित कारणतायाः शाब्दबोधे भानमुपगन्तव्यं न तु तादृशसंबन्धान्तर्भावेन शक्तिरिति न का चिदनुपपत्तिरिति वाच्यम्, एवं सत्यपि संसर्गतात्पर्यज्ञानानुरोधेन तादृशसंसर्गोपस्थित्यपेक्षाया दुर्वारत्वात् । पितसमवायघटितव्यापकताया विधिप्रत्ययार्थत्वे हि तस्य विधिप्रत्ययार्थस्य विजातीय स्वर्गनि रूपितव्यापकत्वस्य स्वर्गादिनिष्ठवैजात्यानन्त्येनाऽऽनन्त्याद् विधिप्रत्ययशक्त्यानन्त्यं स्यादित्यर्थः । दोषान्तरमाह - तादृशकार्येति, तादृशेन कार्यसंबन्धेन = विजातीयस्वर्ग निरूपितसमवायेन घटिता येष्टकारणता तस्याः प्रमाणान्तरेणाऽज्ञातत्वात् तत्र == तादृशकारणतायां विधिप्रत्ययस्य शक्तिप्रहानुपपत्त्या शाब्दबोधे तत्-तस्या उक्तकारणताया मानानुपपत्तिश्च - शाब्दबोधशक्तिज्ञानयोः समानविषयकत्व नियमात् प्रमाणान्तरेण ज्ञाते एवं पदार्थे शक्तिग्रहसंभवादित्यर्थः । ननु विजातीयस्वर्गनिरूपितसमवायस्य शक्तिप्रहे प्रवेशो नास्ति येन तादृशवैजात्यानन्त्येन शक्त्यानन्त्यं स्यात् किं तु विजातीयस्वर्गनिरूपितसमवायस्याऽधिकरणरूपविध्यर्थे= आत्मनि संबन्धत्वेन रूपेणाकाङ्क्षाबलेन मानं स्वीकुर्भस्तथा च न शक्त्यानन्त्यं शक्तिस्तु विधिप्रत्ययस्येचतावच्छेदकत्वोपलक्षितस्वर्गत्वावच्चिने कारणताघटकाधिकरणादिपदार्थे च खण्डशोस्ति तथा ( ६२३ ) च. · तादृशकार्यसंबन्धघटितकारणतायाः [:== आकाङ्क्षाबलमासमान विजातीयस्वर्गनिरूपितसमवायघटित कारणतायाः शाब्दबोधे माने न काचिदनुपपत्तिः- शुद्धेष्टकारणताया अनुमानादिप्रमाणवेद्यत्वेन तस्यां शक्तिमहानुपपत्त्यभावादित्याशङ्क्याह - न चेति, अत्र तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वं यत् कारणत्वं तत्र तद्वदित्यधिकरणस्य प्रवेशेन शक्यत्वादुक्तम्- कारणताघटकाधिकरणपदार्थे " इति, स्वर्गादिरूपं सुखं ह्यात्मन्युत्पद्यते इति तदधिकरणमात्मैव तस्मिंश्च विध्यर्थभूते आत्मरूपाधिकरणपदार्थे विजातीयस्वर्गस्य समवाय एव संबन्धः स चाकाङ्क्षाबलेन ग्रासते न तु शक्त्या । उत्तरमाह - एवमिति, एवमपि ' विजातीयस्वर्गनिरूपितसमवायेन स्वर्गत्वावच्छिन्नविशिष्टमधिकरणं विधिप्रत्ययो बोधयतु' इत्याकारकसंसर्गविषयक तात्पर्यज्ञाने विजातीयस्वर्ग निरूपितसमवायोपस्थित्यपेक्षा स्यादेव उपस्थितिश्च शक्तिमहं विना न भवतीति वैजात्यानन्त्येन शक्यानन्त्यं स्यादेवेत्यर्थः । << "Aho Shrutgyanam" वाक्ये यत् तत्संसर्गेण विशेषणविशिष्टविशेष्यपरत्व ( बोधकत्व ) ज्ञानं तदेव संसर्गमाननियामकं भवतीति स्वीकार्य तथा च "स्वर्गकामो यजेत " इतिवाक्यं विजातीय स्वर्गनिरूपितसमवायेन स्वर्गत्वावच्छिन्नाभिन्न विशेषणविशिष्ट यदात्माऽभिन्नाधिकरणरूपं विशेष्यं तत्परं

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668