Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
उक्ते लावगौरवविचारः] व्युत्पत्तिवादः।
(६२१) नियतोत्तरवर्तितावच्छेदकधर्मरूपयागादिसाध्यताज्ञानस्य प्रवृत्तिहेतुत्वे ताशसा. ध्यताविशिष्टेष्टमात्रस्य विध्यर्थत्वे च लाघवम्, तादृशसाध्यताया निरुक्तसाधन.. तान्तर्गतत्वाद् इतीष्टसाधनत्वस्य विध्यर्थत्वं प्रवर्तकत्वं च व्याहन्येत । एवं यत्र
कारणतावच्छेदकधर्मोप्यनुपस्थितः. अतिप्रसक्तेन न्यूनवृत्तिना वा धर्मेण कारणमुपलक्षितं तत्र शब्दात् कारणताग्रहानुपपत्तिश्चेति निरस्तम्- व्यापकताघटितकारणतायाः साध्यतामपेक्ष्या गरीयस्या एवोक्तरीत्या प्रवर्तकत्वादिसंभवात्, ताहत्वम् ) एव विध्यर्थस्तत्र च यागादिधर्मिकतादृशकारणताग्रहस्य यागनिष्ठरवर्गादिकारणताग्रहस्यैव यागादौ प्रवृत्तिहेतुता वाच्या पूर्वोक्तेन स्वर्गनिष्ठधर्मावच्छिन्नेत्यादिना नियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वस्यैव विध्यर्थत्वप्राप्त्या यागादिधर्मिकताशकारणताग्रहस्यैव प्रवृत्तिहेतुत्वप्राप्तेरितिभावः, तदपेक्षया च स्वर्गादिधर्मिका स्वर्गादिमिष्ठा या नियतोत्तरवर्तितावच्छेदकधर्मरूपा यागादिसाभ्यता (स्वर्गे नियतोत्तरवर्तिताप्यस्ति यागादिसाध्यताप्यस्तीति यागादिसाध्यता नियतोत्तरवर्तितावच्छेदकधर्मरूपा विज्ञेया ) तादृशसाध्यताज्ञानस्य यागादौ प्रवृत्तिहेतुत्वे तादृशसाध्यताविशिष्टेष्टमात्रस्य-स्वर्गादिधर्मिकनियतोत्तरवर्तितावच्छेदकधर्मरूपयागादिसाध्यता विशिष्टेष्टमात्रस्य च विध्यर्थत्वे लाघवमस्तीत्यर्थः । उक्त हेतुमाह- तादृशसाध्यताया इति, तादृशसाध्यता स्वर्गादिधर्मिकनियतोत्तरवर्तितावच्छेदकधर्मरूपयागादिसाध्यता हि निरुक्तसाधनतायामन्तःप्रविष्टास्ति- साधनतायाः ( कारणतायाः ) साध्यतानिरूपितत्वादिति निरुक्तसाधनतायाः प्रवृत्तिहेतुत्वे तदन्तःप्रविष्टसाध्यताया अपि प्रवृत्तिहेतुत्वं स्यादेवेति गौरवापत्तिः, तस्मादुक्तसाध्यतायाः ( साध्यताज्ञानस्य ) एव प्रवृत्तिहेतुत्वं युक्तम् एवं हष्टिसाधतरवस्य-व्यापकताघटितकारणताया उक्त विध्यर्थत्वं प्रवर्तकत्वं च व्याहन्येतव्याहतमेव न स्वीकार्यमिति यावत् । एवमिति- किंच व्यापकताघटितकारणतायाः प्रवर्तकत्वै विध्यर्थत्वे च यत्र कारणतावच्छेदकधर्मस्य यागत्वादेरुपस्थितिन स्यात् किं त्वतिप्रसक्तेनेष्टजनकत्वादिना धर्मेण कारणमुपलक्षितं स्यात् किं वा न्यूनवृत्तिना तव्यक्तित्वादिधर्मेण कारणमुपलक्षितं स्यात् तत्र शब्दात् तादृशकारणे कारणताग्रहोपि न संभवति- कारणताग्रहे कारणतावच्छेदकधर्मोपस्थितेः कारणत्वादिति नोक्तव्यापकताघटितकारणतायाः प्रवर्तकत्वं युक्तं किं तूक्तसाध्यताया एव प्रवर्तकत्वं युक्तमिति यत्केनाप्युक्तं तदप्येतेन उक्तेन निरस्तं वेदितव्यमित्यन्वयः । अयमर्थः- स्वर्गकारणत्वं हि स्वर्गनिष्ठधर्मावच्छिननिरूपितनियतपूर्ववर्तितावच्छेदकधर्मवत्त्वमेव : एतादृशधर्मवत्त्वरूपस्वर्गकारणत्वग्रहश्चोपपादित एव, किं च यथोक्ततादृशसाध्यताया निरुक्तसाधनतान्तर्गतत्वान्निरुक्तसाधनतायाः व्यापकतावटितकारणतायाः प्रवर्तकत्वे तदन्तःप्रविष्टसाध्यताया अपि प्रवर्तकत्वापत्त्या गौरवं प्रदर्शितं तथा साध्यतापि साधनतानिरूपितेव भवतीति साधनताया उक्तसाध्यतायामन्तःप्रवेशात् साध्यतायाः प्रवर्तकत्वे तदन्तःप्रविष्टसाधनताया अपि प्रवर्तकत्वं स्यादेवेति त्वन्मतेप्येत प्रदर्शितगौरवं तुल्यमेवेत्यर्थः । स्वयमपि निरस्तत्वे 'तुमाह- व्यापकताघटितेति, कारणतायाः साध्यतायाश्च समश.
"Aho Shrutgyanam"

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668