Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 636
________________ ( ६२४ ) सादर्श: [ आख्यातप्रकरणे न च तत्संसर्गेण विशेषणविशिष्टविशेष्यपरत्वज्ञानमेव संसर्गभान नियामकं तत्रापि च संसर्गः संसर्ग एव न तु विशेषणमिति न ज्ञानापेक्षेति वाच्यम्, विशेषणविशिष्टविशेष्यस्य वाक्यार्थत्वेन पूर्वमनिश्चिततया तत्परत्वग्रहस्य शाब्दबोधातु पूर्वमसंभवात्, तत्तत्संबन्धविषयतानिरूपित विशेषणादिविषयताशालिबोधपरत्यज्ञानस्यैव हेतुतया तत्र संबन्धस्य विशेषणतया तदुपस्थितेरावश्यकत्वात् । एवं विजातीयस्वर्गनिरूपितसमवायसंबन्धेन स्वर्गत्वावच्छेदेन जन्यतोपगमे " स्वर्गत्वस्याश्वमेधजन्यत्वसामानाधिकरण्यमात्रमेव हि शब्देनापि प्रतीयते न तु स्वर्गत्वस्य जन्यतावच्छेदकत्वमा सामर्थ्यादसंभवाच्च" इत्यादिमिश्रप्रन्यविरोधः । यत्तु वैजात्यमेव कार्यतावच्छेदकं तच्च संबन्धविधयैव कारणताघटक कार्यतद्बोधकमिति ज्ञानमेव विजातीयस्वर्गनिरूपितसमवायमाननियामक ( भासक ) मस्ति तत्र = रतादृशज्ञानेपि चोक्तसंसर्गः संसर्ग एव न तु विशेषणं येन तदुपस्थित्यपेक्षा स्यादित्याशङ्कयाह-- न चेति । परिहारमाह-विशेषणेति, विशेषणविशिष्टविशेष्यं हि वाक्यार्थबोधविषयो भवतीति तस्य वाक्यार्थबोधात् पूर्वमनिश्चिततया वाक्यस्य विशेषणविशिष्टविशेष्यपरत्वज्ञानमेव वाक्यार्थबोधात् पूर्व न संभवति येन तस्य संसर्गमाननियामकत्वं स्यादित्यर्थः । विवक्षितबोधपरत्वज्ञानस्य संसर्गभाननियामकत्वेपि संसर्गोपस्थित्यपेक्षामाह-- तत्तत्संबन्धेति, विवक्षितसंबन्धविषयतानिरूपिता या स्वर्गदिरूपविशेषणविषयता तादृशविषयताशाली यो बोधस्तादृशबोधपरत्वस्य वाक्ये यज्ज्ञानं तदेवसंबन्धमान नियामकम् एतादृशबोधपरत्वज्ञाने च संबन्धविषयताया विशेषणविषयतानिरूपकत्वेन मानात् संबन्धविषयतायां च संबन्धो विशेषणमेवेति संबन्धस्य विशेषणतया मानात्तदुपस्थित्य-. पेक्षा प्राप्तैष, स्वयुक्तस्य विशेषणविशिष्टविशेष्यपरत्यज्ञानस्य तु संसर्गभाने नियामकत्वं न संभवति तस्योक्तरीत्या वाक्यार्थबोधात् पूर्वमसंभवादित्यर्थः । “विजातीयस्वर्गनिरूपितसमवाय एव स्वर्गा दिनिष्ठयागादिजन्यतावच्छेदकसंबन्धः " इत्युक्ते मुरारिग्रन्थविरोधमपि प्रदर्शयति- एवमिति । मुरारिप्रन्यमाह - स्वर्गत्वस्येति, यत्र स्वर्गेऽश्वमेधादियागजन्यत्वं तत्र स्वर्गत्वमप्यस्त्येवेति स्वर्ग यागादिजन्यतासामानाधिकरण्यमात्रमस्ति न तु यागादिजन्यतावच्छेदकत्वम् - असामर्थ्यात् = स्वर्गत्वे विधिप्रत्ययशक्तेरस्वीकारात् वैजात्ये वा विजातीयस्वर्गत्वे एव वा विधिप्रत्ययशक्तिस्वीकारात्, असंभवाच्च = स्वर्गत्वं हि गङ्गास्नानादिजन्यस्वर्गसाधारणतयाऽतिप्रसक्तमेव न चातिप्रसक्तधर्मस्यावच्छेदकत्वं संभवतीति मिश्रेणोक्तं तत्र यदा स्वर्गत्वं यागादिजन्यतावच्छेदकमेव नास्ति तदा विजातीयस्वर्गनिरूपितसमवायस्य कथं स्वर्गत्वादिनिष्ठयागादिजन्यतावच्छेदकसंबन्धवं स्यादित्यर्थः । परिहाराय मतान्तरमुपस्थापयति- यत्त्विति, उक्तवैजात्यमेव यागादिनिरूपितायाः स्वर्गादिनिष्ठायाः कार्यताया अवच्छेदकं तच्च वैजात्यं संबन्धविधयैव कारणताघटकमिति न तदुपस्थि-त्यपेक्षा न वा तत्र विधिप्रत्ययशक्तिग्रहस्याप्यऽपेक्षा येन तादृशवैजात्यानन्त्येन शक्त्यानन्त्यं स्यात्, तच्च वैजात्यं तत्तयागादिजन्यतत्तत्स्वर्गादिव्यक्तिमात्रविश्रान्तमिति नाप्यतिप्रसक्तं येन तस्य कार्यतावच्छेदकत्वं न स्यादित्यर्थः, वैजात्यस्य संबन्धविवया कारणताघटकत्वं प्रदर्शयति " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668