Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 631
________________ स्वर्गकारणत्वनिर्वचनम् ] व्युत्पत्तिवादः । तायां स्वरूपतोऽवच्छेदककोटिप्रविष्टाया अपि जातेापकताभाने स्वर्गधर्मत्वादिना भाने न बाधकम्- स्वर्गधर्मत्वादेरुपलक्षणतया भानात् । प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञान एवं प्रतियोगिकोटावुपलक्षणप्रकाराऽभाननियमात, प्रकृते च कारणताशरीरघटकाभावस्य प्रतियोगिताप्रकारेण भाननियमात् । अत एव स्वरूपतो पहित्वाद्यवच्छिन्नप्रतियोगिताकाभावस्य वह्नित्वाद्यवच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नाभावत्वेन लक्षणप्रवेशस्य संभवदुक्तिकता। ऽस्तीति कथं स्वर्गधर्मत्वेन रूपेण भानं स्यादित्याशक्य वैजात्यस्यात्र स्वर्गधर्मत्वेन रूपेण भानमुपपादयति- व्यापकताघटकेति, व्यापकताघटकाभावः स्वर्गनिष्ठधर्मावच्छिन्नाव्यवहितपूर्ववृत्तिर्योऽभावस्तत्प्रतियोगिता स्वर्गकारणीभूतयागादौ नास्तीत्याकारकप्रीतिसाक्षिका या प्रतियोगितानिष्ठा प्रतियोगिता स्वरूपतस्तादृशप्रतियोगितावच्छेदकको टिप्रविष्टाया अपि जाते: वैजात्यस्य स्वर्गधर्मत्वादिना भाने न किंचिद्बाधकम्, उक्त हेतुमाह- स्वर्गधर्मत्वादेरिति, स्वर्गधर्मत्वादेरुपलक्षणतया उक्तवैजात्योपलक्षणतया हि भानं स्वीक्रियते एतादृशस्थले चोपलक्षणीभूतधर्मस्यापि प्रकारतया भानं संभवत्येवेति स्वर्गधर्मत्वादिना रूपेण वैजात्यस्य भाने न किंचिद्बाः धकमित्यर्थः । उपलक्षणीभूतस्वर्गधर्मत्वस्य कथमत्र वैजात्यप्रकारतयोक्तं भानं स्यादित्याशङ्क्याह- प्रतियोगितासंबन्धेनेति, अभावज्ञान प्रतियोगितासंबन्धेन प्रतियोगिताप्रकारकश्चापिभवति तत्र 'प्रतियोगितासंबन्धेन घटवान् घटाभावः । इतिप्रतियोगितासंबन्धेनाभावज्ञानमस्ति * निरूपकत्वसंबन्धेन प्रतियोगितावानऽभावः । इति च प्रतियोगिताप्रकारकाभावज्ञानमस्ति तत्र प्रतियोगितासंबन्धेन घटादिप्रतियोगिप्रकारकामावविशेष्यकज्ञान एवं प्रतियोमिकोटौ यदुपलक्षणतया प्रविष्टं भवति तस्य प्रकाराभाननियमात्-प्रकारतया भानं न भवतीति नियमोस्ति, यथात्र द्रव्यत्वस्य, प्रतियोगिताप्रकारकाभावाने तु प्रतियोगिकोटावुपलक्षणतयापि प्रविष्टस्य प्रकारतया भानं संभवत्येव तथा च प्रकृतेपि कारणताशरीरघटकाभावस्य प्रतियोगिताप्रकारेणैव माननियमात्मानं भवतीति तादृशामावज्ञाने प्रतियोगिकोटावुपलक्षणतयापि प्रविष्टस्य स्वर्गधन मत्वस्य वैजात्यप्रकारतया भाने न किंचिद्बाधकमित्यर्थः । - मत एवेति, अत एव प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञाने एव प्रतियोगिकोटावुपलक्षणप्रकारामाननियमादेवप्रतियोगिताप्रकारकाभावज्ञाने उपलक्षणीभूतधर्मस्यापि प्रकारतया मानस्वीकारादेवेति यावत् तथा च स्वरूपतः प्रविष्टं यद् वह्नित्वं तादृशवहित्वावच्छिन्नप्रतियोगिताकाभावस्य वह्नित्वावच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नाभावत्वेन लक्षणप्रवेशस्य संभवदुक्तिकता लक्षणे प्रवेशः संभवतीत्यन्वयः, अयमर्थ:- यदा हि प्रतियोगिताप्रकारकाभावज्ञाने उपलक्षणीभूतधर्मस्यापि प्रकारतया भानं स्वीक्रियते तदा वह्नित्वावच्छिन्नप्रतियोगिताकाभावो हि प्रतियोगिताप्रकारकामाव एवेति तत्र वह्नित्वे वर्तमानं यदुपलक्षणीभूतं "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668