Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 630
________________ सादर्श: ( ६१८ ) [ आख्यातप्रकरणे वस्तुतः स्वर्गनिष्ठधर्मावच्छिन्ननिरूपित नियतपूर्ववर्तितावच्छेदकधर्मवत्त्वमेव स्वर्गकारणत्वम् । नियत पूर्ववर्तितावच्छेदकत्वं चाऽव्यवहितपूर्व कालावच्छिन्नवृत्ति - काभावघाटेत दैशिकव्यापकतायाः स्वाश्रयत्वस्वाश्रयनिष्ठ व्यापारवत्वाऽन्यतरसंबन्धेनावच्छेदकत्वमेव । व्यापकत्वनिरूपकतावच्छेदक वैजात्यस्य विशिष्यानुपस्थितावपि स्वर्गधर्मत्वेन ज्ञान संभवत्येव । व्यापकतावदकाभावप्रतियोगिभावाधिकरणता तदवच्छेदको यः क्षण:- घटोत्पत्तिपूर्वक्षणस्तदव्यवहितोत्तरक्षण : = घटोत्पत्तिक्षणस्तदवच्छिन्नं यत् स्वं घटस्तदाश्रयीभूतो यो घटोत्पत्तिक्षणस्तन्निष्ठत्वं घटोत्पतिक्षणावच्छिनाधिकरणतायां प्राप्तमित्यत्र तेन संबन्धेन यागतद्व्यापारान्यतराभावाधिकरणता विशिष्टा घटाद्युत्पत्तिक्षणावच्छिन्नाधिकरणता विज्ञेया, उक्तं स्वावच्छेदकंक्षणाव्यवहितोत्तरक्षणावच्छिन्नस्याश्रयनिष्ठत्वं च संबन्धभूतं घटोत्पत्तिक्षणावच्छिन्नाधिकरणतायामस्त्येव । यागव्यापारश्च यागजन्याऽपूर्वरूपो विज्ञेय इत्यन्वयः - स्वमतमाह - वस्तुत इति, स्वर्गनिष्टो यो वैजात्यविशेषो धर्मस्तदवच्छिन्नो यः स्वर्गविशेषस्तनिरूपिता या नियतपूर्ववर्तिता तदवच्छेदको यो धर्मो यागत्वं तद्वत्त्वमेव स्वर्गकारणत्वमि - त्यन्वयः, यागे यागत्वमप्यस्ति स्वर्गापेक्षया नियतपूर्ववर्तिताप्यस्तीति यागत्वे नियतपूर्ववर्तितावच्छेदकत्वं विज्ञेयम् । नियतपूर्ववर्तितावच्छेदकत्वस्य स्वरूपमाह - नियतपूर्ववर्तितेति । अव्यवहितेति - व्यापकतायास्तव निष्ठात्यन्ताभावाप्रतियोगित्वरूपत्वादभावघटितत्वमस्तीति स्वर्गापेक्षयाऽव्यवहितपूर्व कालेनावच्छिन्ना वृत्तिर्यस्यैवंभूतो योऽव्यवहितपूर्वकालावच्छिन्नवृत्तिकोऽभावस्तदूधटिता या दैशिकव्यापकता तस्याः स्वाश्रयत्व संबन्धेन वा स्वाश्रयनिष्ठव्यापारवत्त्वसंबन्धेन वा यदवच्छेदकत्वं तदेव नियतपूर्ववर्तितावच्छेदकत्वमित्यन्वयः । नियतपूर्ववर्तितावच्छेदकत्वं ह्युक्तव्यापकताया उक्तसंबन्धेनावच्छेदकत्वरूपमेव विज्ञेयमिति यावत् । स्वाश्रयत्व संबन्धेनेत्यस्य स्वसामानाधिकरण्यसंबन्धेनेत्यर्थः स्वं यागत्वं तथा च यागत्वमुक्तव्यापकता च यागे एवास्तीति स्वसामानाधिकरण्यसंबन्धेन यागत्वं व्यापकताया अवच्छेदकं जातम् । किं वा स्वाश्रयनिष्ठव्यापारवत्त्वसंबन्धेनावच्छेदकत्वं ग्राह्यं तत्रापि स्वं यागखं तदाश्रयो यागो जनकत्वसंबन्धेन यागनिष्ठो योऽपूर्वादिरूपो व्यापारस्तद्वत्त्वं व्यापकतायां सामानाधिकरण्येनास्ति - यागे एक व्यापारस्य व्यापकतायाश्च सत्त्वादिति तादृशेन स्वाश्रयनिष्टव्यापारवत्त्वसंबन्धेन यागस्खं व्यापकताया अवच्छेदकं जातमित्येतादृशं यद् व्यापकतावच्छेदकत्वं तदेव नियतपूर्ववर्तितावच्छेदकत्वमित्यर्थः प्रतिभाति । अत्र "स्वाश्रयनिरूपितव्यापारत्ववत्त्व" इतिपाठस्तु प्रामादिक एव प्रतीयते । व्यापकत्वेति- कारणनिष्ठज्यापकत्वनिरूपकता कार्ये एव भवतीति यागनिष्ठव्यापकत्वनिरूपकता स्वर्गे प्राप्ता तत्रैव स्वर्गे वैजात्यमध्यस्तीति व्यापकत्वनिरूपकतावच्छेदकत्वं वैजाप्ये प्राप्तं तस्य च व्यापकतानिरूपकतावच्छेदकवै जात्यस्य विशेषरूपेणोपस्थित्यऽसंभवेपि स्वर्गधर्मत्वेन रूपेण ज्ञानम्=मानं संभवत्येव शाब्दबोधे । ननु स्वर्गधर्मस्य वैजात्यस्यात्र स्वरूपत एव प्रवेशो " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668