Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 622
________________ ( ६१० ) खादर्श: [ आख्यातप्रकरणे - " केचित्तु वक्तृभिन्नकर्तृकत्वमेव परोक्षत्वम्, अत एव लिट उत्तमपुरुषाsसंभवेनाsपरोक्षतायामपि लिटः साधुत्वे " णलुत्तमो वा इत्यादेर्शापकत्वमुपायकारोक्तं संगच्छते, अन्यथा निद्रादिदशायां स्वकर्तृकगमनादिक्रियायाः स्वपरोक्षत्वसंभवेन ज्ञापकत्वाऽसङ्गते रित्याहुः । 5 "व्यातेने कलिङ्गे दृष्टोसि, नाहं कलिङ्गान् जगाम इत्यादावत्यन्तापह्नवस्थले सूत्रान्तरेण क्रियाया अपरोक्षत्वेपि लिविधानात् तादृशज्ञापकबलेन किरणावलीम् " इत्यत्र लिटः साधुत्वोपपादनमुपायकृतामयुक्तमेवेति बोध्यम् । अत्यन्ताऽपद्दवश्चाऽबाधितपरोक्त विपरीत बोधनाय तदुपपादकाभावप्रतिपादनेच्छा कलिङ्गाधिकरणकदर्शनादेरुपपादकं कलिङ्गगमनादिकं तेन विना तदसंभवात् । अत्यन्तापह्नवः स्वरूपसन्नेव लिट्साधुतानियामकः । , मतान्तरमाह- केचिदिति । उक्ताध्यासनक्रियायामपि कविभिन्नराजकर्तृकत्वमस्त्येव । अत एव = परोक्षत्वस्य वक्तृभिन्न कर्तृकत्वरूपत्वादेव उत्तमपुरुषस्य च वक्तृकर्तृकत्वालिट उत्तमपुरुषप्रयोगो नैव संमवेत्तथा च "लुत्तमो वा" इत्यनेन लिट उत्तमपुरुषादेशविधानं व्यर्थमेव स्यात् न च सूत्रवैयर्थ्य युक्तमित्यऽपरोक्षतायामपि लिटः साधुत्वं स्वीकार्यमित्यर्थः । विपक्षे बाधकमाहअन्यथेति, यदि साक्षात्काराविषयत्वमेव परोक्षत्वं स्यात्तदा निद्रादिदशायां स्वकर्तृकपार्श्वपरिवर्त नादिक्रियायां स्वपरोक्षत्वसत्त्वेन तादृशस्वपरोक्षक्रियोदेशेन लिट उत्तमपुरुषप्रयोगसंभवात् "लुत्तमो वा " इत्यादेशविधानं व्यर्थं न स्यादिति " णलुत्तमो वा " इत्यस्योपायकारेण यजूज्ञापकत्वमुक्तं तन्न संगच्छेत तस्मात् परोक्षत्वं वक्तृभिम्नकर्तृकत्वमेव न तु साक्षात्काराविषयत्वमित्यर्थः । परोक्षत्वस्य वक्तृन्निकर्तृकत्वरूपत्वे हि निद्रादिदशायामपि स्वकर्तृकगमनादौ स्वभि• कर्तृकत्वरूपं परोक्षत्वं नास्तीति " णलुत्तमो वा " इति सूत्रं व्यर्थं सजू ज्ञापयति- अपरोक्षतायामपि लिङ् भवतीति तथा च निद्रादिकालिकस्वीयगमनादौ परोक्षत्वाभावेपि लिङ्घटितप्रयोगस्य साधुत्वमुपपद्यते इत्यर्थः प्रतिभाति । कलिङ्गेति - चैत्रेण मैत्रं प्रत्युक्तम् ' कलिङ्गे दृष्टोसि ' तत्र मैत्रेणोक्तम्- ' नाहं कलिङ्गान् जगाम कथमहं कलिङ्गे त्वया दृष्टः ' इत्यर्थः । अत्र जगामेतिक्रियायाः परोक्षत्वाभावालिटो. ऽसंभवेप्यऽत्यन्तापह्नवस्थले सूत्रान्तरेण = " अत्यन्तापह्नवे लिट् वक्तव्यः " इतिवार्तिकेनाऽपरोक्षत्वेपि लिड् भवति. अस्ति चात्राऽत्यन्तापह्नव इति नात्र लिटोऽनुपपत्तिरित्यर्थः । एताः ज्ञापन "व्यातेने " इत्यत्र लिटः साधुत्वोपपादनमुपायकारोक्तमयुक्तमेव - " व्यातेने " इत्यत्रात्यन्तापह्नवस्याभावात् क्रियाया अपरोक्षत्वेपि सूत्रान्तरेणोक्तेनाऽत्यन्तापह्नवस्थळे' एव लिड् विधानादित्यर्थः । अत्यन्तापह्नवस्वरूपमाह - अत्यन्तेति, अबाधितं यत्परोक्तं तद्विपरीतबोधनाय तदुपपादकस्य = अबाधितपरोक्तोपपादकस्य योऽभावस्तत्प्रतिपादनेच्छा तथा च कलिङ्गाधिकरणकदर्शनोपपादकं दृष्टस्य कलिङ्गगमनमेव तेन कलिङ्गगमनेन विना तदसंमवात == कलि "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668