Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 576
________________ (५६४) सादर्श: [ आख्यातप्रकरणेपगमें क्षतिविहरात, निवृत्त्यादेः पाकानुकूलताविरहेण तत्काले 'पचति । इति प्रयोगापत्तिविरहात् । इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वजातेरेव वाख्यातपदप्रवृत्तिनिमित्तत्वमुपगम्यते, अत एवेश्वरकृतेर्जन्यमानजनकत्वेपि, 'ईश्वरः पचति' 'ईश्वरो भुङ्क्ते ' इत्यादयो न प्रयोगाः।। न चैवम् — ईश्वरो वेदं वक्ति ' 'मथुरायां कृष्णो विहरति' इत्यादिप्रयोगानुपपत्तिः, अत्राख्यातस्य लक्ष्यार्थव्यापारबोधकतोपगमात् । ईश्वरकृतिसाधारणधर्मस्याऽऽख्यातप्रवृत्तिनिमित्तत्वेपि तत्र व्यापारलक्षणाया आवश्यकत्वाद, तथा हि-- ' आत्मा पचति ' 'शरीरं पचति ' इत्यादिस्वारसिकप्रयोगविरहादाऽऽख्यातार्थकृतेरुद्देश्यतावच्छेदकशरीरविशेषावच्छेदेन समवायेनाऽन्वयनियमः स्वीकरणीयः-- चैत्रादिपदस्य शरीरविशेषविशिष्टात्मपरतया ' चैत्रः पचति' इत्यादौ शरीरविशेषात्मकोद्देश्यतावच्छेदकावच्छेदेनात्मनि समवायेनान्वयसं. क्याह- न चेति । उत्तरमाह- निवृत्त्यादीति । ' न पचति । इत्यादौ निवृत्त्यनुकूल: 'जीवति ' इत्यादौ जीवनानुकूलोपि यत्नः प्रतीयते एवाख्यातेनेत्यर्थः । ननु यदि निवृत्त्यनुकूलोपि यत्न आख्यातार्थस्तदा पाकनिवृत्तिकाले 'पचति ' इति प्रयोगः कथं न स्यादित्याशब्याह- निवृत्त्यादेरिति । तत्काले-पाकनिवृत्तिकाले । पक्षान्तरमाह- इष्टति, इष्टसाधनताज्ञानेन प्रवृत्तिर्भवतीति प्रवृत्तरिष्टसाधनताज्ञानजन्यत्वादिष्टसाधनताज्ञानजन्यतावच्छेदकं जातिरूपं प्रवृत्तित्वमेव तदेवाख्यातपदप्रवृत्तिनिमित्तम्, प्रवृत्तावाख्यातस्य शक्तिरित्यर्थः । अत एव इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वस्यैवाख्यातपदप्रवृत्तिनिमित्तत्वादेव. यद्यपीश्वरकृतेः कार्यमानं प्रति कारणत्वं तथापि “ईश्वरः पचति' इत्यादयो न प्रयोगा:- ईश्वरकृतेनित्यत्वेनेष्टसाधनताज्ञानजन्यत्वाभावाद् आख्यातार्थत्वाऽसंभवात, इष्टसाधनताज्ञानजन्याया एव प्रवृत्तिरूपकृतेराख्यातार्थत्वस्वीकारादित्यर्थः । नन्येवम् “ईश्वरो वेदं वक्ति ' इत्यादिप्रयोगोपि न स्यात्तत्रापीश्वरकृतेनित्यत्वेनेष्टसाधनताज्ञानजन्यत्वामावेनाख्यातार्थत्वासंभवादित्याशक्याह- न चेति । उत्तरमाह- अत्रेति, ईश्वरव्यापारस्येष्टसाधनताज्ञानजन्यत्वादत्र चाख्यातस्य लक्षणया व्यापारमात्रबोधकत्वान्न प्रयोगानुपपत्तिरित्यर्थः । ननु ' ईश्वरो वेदं वक्ति' इत्यादावाख्यातस्य व्यापारे लक्षणास्वीकारापेक्षया परमेश्वरकृतिसाधारणस्य यत्नत्वधर्मस्येवाख्यातपदप्रवृत्तिनिमित्तत्वमुपगम्यतां तथा चोक्तस्थले आख्यातेन तादृशयत्नत्वाद्यवच्छिन्नस्य प्रतीतिसंभवाल्लक्षणापत्तिापारे न स्यादित्याशङ्कयाह-- ईश्वरेति । तत्र: ईश्वरो वेदं वक्ति' इत्यादौ । उक्तस्य व्यापारे लक्षणावश्यकत्वमुपपादयतितथा हीत्यादिना । —ात्मा पचति' इत्यादिमुख्यार्थतात्पर्येण प्रयोगो न भवतीत्याख्यातार्थकृतेरुद्देश्यतावच्छेदकीभूतशरीरविशेषावच्छेदेनात्मनि समवायसंबन्धेनान्वयो भवतीति स्वीकार्यम्, ' चैत्रः पचति । इत्यादौ चैत्रमुद्दिश्य पाकानुकूलकृतेर्विधानाच्छरीरविशेषावच्छिन्न एव चैत्रात्मोद्देश्य उद्देश्यतावच्छेदकं च शरीरमेवेत्यर्थः । उक्तस्वीकारे हेतुमाह- चैत्रादिपदस्येति, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668