Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 615
________________ लुटोऽनद्यतनभविष्यदर्थकत्वम् ] व्युत्पत्तिवादः। उक्तयुक्त्याऽनागतत्वस्य यथा लडाद्यर्थत्वं तथा 'अद्य पक्ष्यति न पक्ता' इत्यत्रानद्यतनकालावच्छिन्नत्वस्याभावेऽभाने पक्ष्यत्यप्यन्यतनानागतकालावच्छिन्नपाककृत्यभावमादाय ‘न पक्ता' इतिप्रयोगासनेन लुटोऽनद्यतनार्थत्वमावश्यकम् । अनागतानद्यतनकालावच्छिन्नत्वमप्युक्तरीत्यातिप्रसङ्नावारणाय प्रकृतशब्दप्रयोगाधिकरणदिनध्वंसनिष्ठानवच्छिन्नावच्छेदकताकत्वरूपं ग्राह्यम् । अवच्छेद्यावच्छेदकभावश्च संबन्धविधया भासते ध्वंस एव पदार्थ इत्यवधेयम् । तिमति पुंसि तदभावः अनागतकृत्यभावः स्यात्तदा वर्तमानक्षणध्वंसरूपः कालोऽनागतकृतेस्तदमावस्य चावच्छेदकः स्यात् न चैतत्संभवति- एकस्यैव पदार्थस्य तत्तदभाषोभयावच्छेदकत्वाऽसंभवादिति वर्तमानक्षणध्वंसरूपकालस्यानागतकृतितदभावोभयावच्छेदकत्वप्राप्तिरूपस्य विरोधस्य मलनाय-परिहाराय तादृशकृत्यनवच्छेदकोऽवान्तरकाल एव तदभावावच्छेदक इत्युपेयम्-अर्थात पक्ष्यमाणे पुरुषे याऽनागतकृतिस्तदवच्छेदकोऽन्योवान्तरकालस्तादृशकृत्यमावावच्छेदकश्चान्योऽ. वान्तरकाल इति स्वीकार्य तथा चानागतकृत्यवच्छेदकावान्तरकाले पक्ष्यमाणे पुंसि 'न:पक्ष्यति । इतिप्रयोगापत्तिरूपोतिप्रसङ्गो नास्ति- अनागतकृत्यवच्छेदकावान्तरकालापेक्षयाऽनागतकृत्यभावावच्छेदकावान्तरकालस्य भिन्नत्वात, किं चानागतकृतितदभावयोरवच्छेदककालयोरेवं भेदे प्राप्ते उक्तावच्छेदकताविरोधोपि नास्तीत्यर्थः । प्रकृतमाह- उक्तयुक्त्येति यथाऽनागतत्वं लूडर्थस्तथाऽनद्यतनत्वं लुर्थ इति स्वीकर्तव्यम्, अन्यथा 'भद्य पक्ष्यति न पक्ता ' इत्यत्र पाशानुकूलकृत्यमावेऽनद्यतनत्वस्यान्वयस्तद्भानं च, न स्यात् तथा च श्वा-आगामिदिने पक्ष्यत्यपि पुरुषेऽद्यतनाऽनागतकृत्यभावमादाय ' न पक्ता, इतिप्रयोगापत्तिः स्यादेव न चैतदिष्टं तस्मादनद्यतनत्वं लुडर्थोस्त्येव तथा च 'न पक्ता ' इत्यत्र नाऽनद्यतनानागतस्य कृत्यभावस्य बोधनादद्यतनानागतकृत्यभावमादाय श्वः पक्ष्यति पुंसि 'न पक्ता । इतिप्रयोगापत्तिर्नास्तीत्यर्थः। अनागतेति-न पक्ता ' इत्यत्र पाकानुकूलकृत्यभावेऽनागतानद्यतनकालावच्छिन्नत्वम्-वर्त. मानदिनध्वंसावच्छिन्नत्वमस्तीति ताशवर्तमानदिनध्वंसनिष्ठा याऽवच्छेदकता सा दर्शितदिशा कालानवच्छिन्ना ग्राह्या. अन्यथाऽनद्यतनानागतकाले 'पक्ष्यत्यपि पुरुषेऽनद्यतनानागतयत्किंचित्कालावच्छिन्नं कृत्यभावमादाय ' न पक्ता' इतिप्रयोगापत्तिरूपोतिप्रसङ्गः स्यादेवेत्यर्थः । 'न पक्ता' इत्यत्र कृत्यभावे यदनागतानद्यतनकालावच्छिन्नत्वं तत् प्रकृतशब्दः' न पक्ता, इतिशग्दस्तत्प्रयोगाधिकरणदिनस्य यो ध्वंसस्तनिष्ठा याऽनवच्छिन्नावच्छेदकता तादृशानवच्छिनावच्छेदकताकत्वरूपं ग्राह्यमित्यन्वयः । ' पक्ता ' इत्यत्रापि यत् पाकानुकूलकृतावुक्तवर्तमानदिनध्वंसरूपलुडर्थकालावच्छिन्नवं भासते तत्रोक्तध्वंस एव लुखाद्यर्थोस्ति तादृशध्वंसस्य योऽनद्यतनाऽनागतकालेनावच्छेद्यावच्छेदकमावः स संबन्धविधया भासते इत्याह-अवच्छेयेति । ध्वंसः= लुट्लूडाद्यर्थवेनाभिमत उक्तविशिष्टध्वंस एव पदार्थः लुलडाद्यर्थः । "Aho Shrutgyanam'

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668