Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 613
________________ लुढाथेकालनिवेचनम् ] व्युत्पत्तिवादः। (६०१) ‘पता' इत्यादी लुटोऽनद्यतनभविष्यत्वमर्थः । अनद्यतनभविष्यत्त्वं च शब्दप्रयोगाधिकरणदिवसाऽवृत्तित्वे सति शब्दप्रयोगकालीनप्रागभावप्रतियोगित्वम्. शब्दप्रयोगाधिकरणदिवसध्वंसोत्पत्तिकत्वं वा। केचित्तु-भविष्यत्वमेव तस्यार्थः, क्रियायाः कृतेर्वा स्वरूपसदनद्यतनत्वमेव तत्साधुतानियामकम् । असाधुत्वादेव — अद्य पक्ष्यति' इत्यादौ — पक्ता' इति न प्रयोग इत्याहुः । तन्न- तथा सति भविष्यत्त्वादिकमपि नाख्यातार्थः स्थाव, स्वरूपसद्भविष्यत्त्वादिकमेव लडादिप्रत्ययस्य साधुतानियामकम्, असाधुत्वादेव · पक्ष्यति' इत्यादौ 'पक्ता' इतिवत् 'पचति ' इत्यादौ पक्ष्यति ' इतिप्रयोगविरह इत्यस्यापि वक्तुं शक्यत्वात् ।। . 'पचति' — पक्ष्यति । इत्यादेरविलक्षणबोधजनकत्वमनुभवविरुद्धमिति कालविशेषबोध आवश्यक इतिचेत ?, तदा 'पक्ता'' पक्ष्यति' इत्यादेरापि विलक्षणबोधजनकत्वस्याऽऽनुभविकतयाऽनद्यतनत्वान्वयबोधोपि दुर्वारः। यदि च 'पक्ष्यति' इत्यादिवाक्यजन्यबोधे सति भविष्यत्त्वादिसंशयानुदयाद् : भविव्यवादेः शाब्दधीविषयत्वमावश्यकमित्युच्यते ? तदाऽनद्यतनंबोधेपीहशीमेव युक्तिं गृहाण । . एवम् — न पक्ष्यति' इत्यादावभावेऽनागतकालावच्छिन्नत्वभानमावश्यकम्, लुडर्थत्वेन विवक्षितं कालमाह- पक्तेति । अनद्यतनमविष्यत्वार्थमाह- शब्देति । पक्षान्तरमाह- शब्देति । कालभूतलुडथै मतान्तरमाह- केचिदिति । तस्य लुटः । तत्साधुता लुट्साधुता । लुडर्थकृतावनद्यतनत्वं स्वरूपसदस्तीति 'अद्य पक्ष्यति । इत्यस्य स्थाने ' पक्ता ' इतिप्रयोगोऽसाधुरेवेत्याह- असाधुत्वादिति । ' पक्ष्यति' इत्यस्य सामान्यतो भविष्यदर्थकत्वेन तत्स्थाने ' पक्ता ' इतिप्रयोगः संभवत्येवेत्यभिप्रायेणोक्तम् ' अध पक्ष्यति । इति । परिहरति- तन्नेति, प्रतिबन्युत्तरमाह-- तथा सतीति । तथा सति-अनद्यतनत्वस्य लुडर्थत्वाभावे सति । : शङ्कते-पचतीति । कालविशेषबोध इति-पति ' इत्यत्र वर्तमानकालबोधः, 'पक्ष्यति' इत्यत्र भविष्यत्कालबोधः । उत्तरमाह- तदेति । पुनराशकते- यदीति । सति जाते। उत्तरमाह- तदेति । ईदृशीम् = पक्का' इतिवाक्यजन्यबोधे जातेऽनद्यतनत्वसंशयानुदयादनद्यतनत्वस्य शाब्दधीविषयत्वमावश्यकमिति तादृशानद्यतनत्वस्यान्यतो भानासंभवाल्लुडर्थत्वं सिद्धमेवेत्यर्थः । ___ यथा ' पक्ष्यति । इत्यादौ कृतौ कालान्वयस्तथा 'न पक्ष्यति । इत्यादि नसमभिव्याहारस्थले कृत्यभावे .एव कालान्वयः कर्तव्यो न तु कृती- पूर्वमेव " नतमभिव्याहारस्थलेपि ५९५ " इत्यादिना दोषस्य प्रदार्शतत्वात्, किं च भविष्यत्कालिकचैत्रकृतेरसंभवेनाऽसद्भूत "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668