Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 619
________________ लुडर्यकालान्वयनिर्वचनम् ] व्युत्पचिवादः । (६०७) कर्तृत्वस्य तत्तण्डलादौ चान्यपुरुषपच्यमानत्वादेर्भमदशापाम् ‘तण्डुलमयं न पक्ष्यति ' इत्यादिवाक्यस्य बोधकताया अनुभवसिद्धत्वेनाऽपाकर्तुमशक्यत्वानो. क्तप्रकारः साधीयान्-विरोधिनिश्चयसवेन तत्पुरुषे पाककर्तृत्वसामान्यामावस्य पाकत्वावच्छेदेन तण्डुलकर्मकत्वाभावस्य च प्रतीत्यऽसंभवादितिचेत्, न-तत्र तादृशवाक्यस्यैकाभावावगाहिभ्रमजनकत्वोपगमात् । न च सर्वत्रैव तदुपगमौचित्येन प्रयासवैफल्यमिति वाच्यम्, विशेषदर्शिभिरमतातरकैरपि तथाविधवाक्यप्रयोगात् तस्य प्रसिद्धार्थकतासंपादनस्यावश्यकत्वात् । न च तत्तण्डुतण्डुलकर्मकपाकस्याऽप्रसिद्धत्वात् तादृशतण्डुले यत्पच्यमानत्वज्ञानं तभ्रमात्मकमेव संभवति यत्पुरुषकर्तृकश्च पाकोऽप्रसिद्धस्तादृशपुरुषे पाककर्तृत्वज्ञानमपि अमात्मकमेव स्यान्न तु प्रमात्मकमित्युक्तम्--भ्रमदशायामिति । एतादृशभ्रमदशायाम् ‘तण्डुलमयं न पक्ष्यति । इतिवाक्यस्य बोधजनकत्वानोक्तप्रकारः साधीयान्, उक्तप्रकार:=प्रथमाभावस्याऽन्वयितावच्छेदकावच्छेदेनान्वयो भवति. इति प्रकारो न साधीयानित्यन्वयः, उक्त हेतुमाह-विरोधीति, विरोधिनिश्चयस: त्वेन तत्तण्डुले पाककर्मत्वनिश्चयसत्त्वेन तत्पुरुषे पाककर्तृत्वनिश्चयसत्त्वेन च तत्पुरुषे पाककर्तृत्वाभावस्य पाके तण्डुलकर्मकत्वाभावस्य च प्रतीतिर्न संभवति । उक्तप्रकारस्य च साधुस्वेऽत्रापि प्रथमाभावस्य-तण्डुलकर्मकत्वामावस्य पाकत्वावच्छेदेनान्वयः स्यात् न च पाकत्वावच्छेदेन तण्डुलकर्मकत्वाभावान्वययोग्यतास्तीति योग्यताया अभावात् तादशबोधजनकत्वं न स्यात् अस्ति च बोधजनकत्वमिति नोक्तप्रकार: साधीयानित्यर्थः। परिहरति-नेति, तत्र उक्तश्रमदशायाम्, ताशवास्यस्य तण्डुलमयं न पक्ष्यति ' इति वाक्यस्य तण्डुलकर्मकत्वाभावविशिष्टपाकानुकूलकृस्यमावबोधकत्वरूपमऽभावद्वयावगाहिभ्रमजनकत्वं नास्ति किं त्वेकामावावगाहिभ्रमजनकत्वम्-तण्डुलकर्मकपाकानुकूलकृत्यभावबोधकत्वमेव स्वीक्रियते तच्च संभवत्येव तत्पुरुषे तण्डुलकर्मकपाककृत्यभावस्याऽबाधादिति पूर्वोक्तस्थले उक्ताभावद्वयावगाहनस्वीकारेपि किं वा प्रथमाभावस्यान्वयितावच्छेदकावच्छेदेनान्वयनियमेपि न दोष इत्यर्थः । ननु 'आकाशं न पचति घटः ' इत्यादावपि 'आकाशकर्मकपाककृत्यभावबोधकत्वरूपमेकाभावावगाहिज्ञानजनकत्वमेव युक्तं न त्वभावद्वयावगाहिज्ञानजनकत्वमित्याशक्याह न चेति । परिहारमाह- विशेषेति, ये खलु पाके आकाशकर्मकत्वाभावं घटे च पाककर्तृत्वाभावं जानन्ति तेपि 'आकाशं न पचति घटः । इति प्रयोगं कुर्वन्तीति तस्य प्रयोगस्य प्रसिद्धार्थकतासंपादनायाऽभावद्वयावगाहिबोध उपगम्यते-- आकाशकर्मकत्वं प्रतिपादनादी प्रसिद्धमस्ति तदभावः पाकेन्वेति पाककर्तृकत्वं पुरुषादी प्रसिद्धं तदभावो घटेऽन्वेतीत्यभावद्वयावगाहिबोधजनकत्वं संभवति न त्वेकाभावावगाहिंबोधजनकस्वम्- भाकाशकर्मकपाकाऽप्रसिद्धरित्यर्थः । ननु पाके तत्तण्डुलकर्मकत्वं हि तत्तण्डुलनिष्ठविक्लित्तिजनकत्वमेव तथा च पाकस्य तत्तण्डुलकर्मकत्वं नास्तीति तत्तण्डुलनिष्ठविक्लित्तिजनकत्वस्याप्रसिद्धचा "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668