Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 617
________________ लुढर्थकालान्वयनिर्वचनम् ] व्युत्पत्तिवादः । (६०५) लानागतकृतेः कतरि भानस्योपगन्तव्यतया तदुत्तर कदाचिदपि येन न पक्ष्यते तादृशकर्तृसमभिव्याहृतदर्शितवाक्यस्य प्रामाण्योपपादनाऽसंभवात् । अगत्या तु यत्कर्मको यत्कर्तृका पाकोऽप्रसिद्धस्तादृशकर्मकर्तृघटितार्थकनपदवदाक्यस्थाऽयोग्यतोपगम्यते। __ केचित्तु तत्रापि पाके तत्कर्मकत्वाभावस्य तादृशे च कर्तरि पाककृत्यभावस्य बोधमुपगम्य प्रामाण्यमुपपादयन्ति- तात्पर्यसत्त्वे एकेनापि नञाऽभावद्वयबोधनसंभवात् । न चैवं तण्डुलमात्रं पचति पक्ष्यति वा चैत्रेपि तण्डुलमयं न पचति न पक्ष्यति' इतिप्रयोगः स्यात्- तत्तण्डुलाऽकर्मकपाकानुकूलवर्तमानादिकृत्यऽभावाऽबाधादिति वाच्यम्, यतः सुबर्थप्रतियोगिकस्वार्थाभावान्वितक्रियाकर्तृत्वाभाव बोधकत्वं नञः 'आकाशं न पचति घटः' इत्यादावपि न स्वीक्रियते-ताहप्रसिद्धिः स्वीकार्य पाकप्रसिद्धया च तादृशपाकानुकूलानागतकृतेरपि प्रसिद्धिः प्राप्तैव तस्याश्च कृतेस्तादृशपाककर्तरि भानमुपगन्तव्यं तथा च तदुत्तरम्-वर्तमानकालानन्तरं येन पुंसा कदाचिदपि न पक्ष्यते तादृशकर्तसमभिव्याहृतस्य-पाकव्यापाररहितकर्तृसममिव्याहृतस्य 'चैत्र ओदनं न पक्ष्यति' इतिवाक्यस्य प्रामाण्यं न स्यात- तत्र चैत्रीयपाकव्यापारस्याप्रसिद्धत्वेन तत्र चैत्रीयौदनकर्मकत्वाभावान्वयस्याऽसंभवादित्यर्थः । तस्माद् नञ्समभिव्याहारस्थले नअर्थाभावे एवं प्रत्ययार्थकालस्यान्वयो युक्त इति तात्पर्यम् । ननु यत्कर्मको यत्कर्तृकश्च पाकोऽप्रसिद्ध एव तादृशकर्तृकर्मघटितस्य “ अयमेतत्तण्डुलं न पक्ष्यति । इतिवाक्यस्य वन्मते का गतिरित्याशक्य तादृश्यवाक्ये बाधाभावरूपयोग्यताया अमावादगत्या प्रामाण्याभाव एवेत्याह- अगत्येति । ... मतान्तरमाह- केचिदिति,तत्र-यत्कर्मको यत्कर्तृकश्च पाकोऽप्रसिद्धस्तादृशकर्तृकर्मघटितार्थके नपदवति 'अयमेतत्तण्डुलं न पक्ष्यति' इतिवाक्येपि पाके तत्कर्मकत्वामावस्य तादृशकर्तरि च पाककृत्यमावस्यान्यत्र प्रसिद्धप्रतियोगिकस्य बोधमुपगम्य प्रामाण्यमुपपादयन्ति । नन्वेकस्य नञ्पदस्योक्ताभावद्वयबोधकत्वं कथं स्यादित्याशङ्क्याह- तात्पर्यसत्त्वे इति । शङ्कते- न चेति, तण्डुलं पचत्यपि चैत्रे ' तण्डुलमयं न पचति । इति प्रयोगः स्यात--तदानीं चैत्रे पच्यमानतण्डुलकर्मकपाकानुकूलकृत्यभावस्य बाधेपि पच्यमानतण्डुलाऽकर्मकपाकानुकूलकृत्यभावस्य वर्तमानस्याऽबाधात्. अर्थात् नञोऽभावद्वयबोधकत्वस्वीकारेणात्रापि पाके तादृशतण्डुलकर्मकत्वाभावस्य चत्रे च तादृशपाककृत्यभावस्य बोधसंभवेन विशिष्टस्यापि तत्तण्डुलाकर्मकपाकानुकूलकृत्यभावबोधस्य संभवादिति । एवं पक्ष्यत्यपि ' न पक्ष्यति । इतिप्रयोगापत्तिदलस्य योजना विज्ञेया । आदिपदादस्मिन् पक्षेऽनागतकृत्यभावाबाधादिति वक्तव्यम् । परिहारमाह-यत इति, त्वया हि तत्तण्डुलाकर्मकेतिवचनेन सुबर्थप्रतियोगिकः द्वितीयार्थतण्डुलकर्मकत्वप्रतियोगिको यः स्वार्थोऽभावस्तदन्विता या पाकक्रिया तत्कर्तृत्वाभावबोधकत्वं नत्र उक्तं तत्तु 'आकाशं न पचति घटः । इत्यत्रापि पाककर्मताशून्याकाशस्य पाककर्तृत्वशून्यघटस्य च समभिव्याहारस्थलेपि न स्वीक्रि "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668